०३

( अथ चतुर्थकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः )।

अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑।
प्र प्र॑दा॒तारं॑ तारि॒ष उर्जं॑ नो धेहि द्वि॒पदे॒
चतु॑ष्पदे। उदु॑ त्वा॒ विश्वे दे॒वा अग्ने॒ भर॑-

[[1874]]

न्तु॒ चिति॑भिः। स नो॑ भव शि॒वत॑मः सु॒प्र-
ती॑को वि॒भाव॑सुः। प्रेद॑ग्ने॒ ज्योति॑ष्मान्याहि
शि॒वेभि॑र॒र्चिभि॒सत्वम्। बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒-
न्मा हिँसीस्त॒नुवा॑ प्र॒जाः। स॒मिधा॒ऽग्निं
दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्। आ [१]
अ॒स्मि॒न्ह॒व्या जु॑होतन। प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑
शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः। अ॒भि
यः पृ॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑-
थिः शि॒वो नः॑। आपो॑ देवीः॒ प्रति॑ गृह्णीत॒
भस्मै॒तत्स्यो॒ने कृ॑णुध्वँ सुर॒भावु॑ लो॒के।
तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑-
भृ॒ता स्वे॑नम्। अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॑ [२]
सौष॑धीरनु॑ रुध्यसे। गर्भे॒ सञ्जा॑यसे॒ पुनः॑।
गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम्।
गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि।
प्र॒सद्य॒ भस्म॑ना योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने।
सँ॒सृज्य॑ मा॒तृभि॒स्त्वं ज्योति॑ष्मा॒न्पुन॒राऽस॑दः।
पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने। शेषे॑
मा॒तुर्यथो॒पस्थे॒ऽन्तर॒स्याँ शि॒वत॑मः। पुन॑-
रू॒र्जा (३) नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑-
षा। पुन॑र्नः पाहि वि॒श्वतः॑। स॒ह र॒य्या नि
व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या। वि॒श्वप्स्‍नि॑या

[[1875]]

वि॒श्वत॒स्परि॑। पुनस्त्वाऽऽदि॒त्या रु॒द्रा वस॑वः॒
समि॑न्धतां॒ पुनर्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः। घृ॒-
तेन॒ त्वं त॒नुवो॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑-
मानस्य॒ कामाः॑। बोधा॑ नो अ॒स्य वच॑सो
यविष्ठ॒ मँहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः पी-
य॑ति त्वो॒ अनु॑ त्वो गृणाति वन्दारु॑स्ते त॒नु-
वं॑ वन्दे अग्ने। स बो॑धि सू॒रिर्म॒घवा॑ वसु॑-
दावा॒ वसु॑पतिः। यु॒यो॒ध्य॑स्मद्‍द्वेषाँ सि
[४] ।।

[आ नवो॒र्जाऽनु॒ षोड॑श च]।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयप्रपाठके तृतीयोऽनुवाकः ।। ३।।

( अथ चतुर्थकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः )।
द्वितीयानुवाके वन्हेरुख्यस्योपस्थानमुक्तं, तृतीये चजनार्थस्य देवयजनस्य परिग्रहोऽभिधीयेत।
कल्पः- “व्रतकालेऽन्नपतेऽन्नस्य नो देहीत्यौदुभ्बरीं समिधं व्रतेऽक्त्वाभ्यादधाति” इति। व्रतार्थे क्षीरद्रव्ये। पाठस्तु—
अन्नपतेऽन्नस्येति। हेऽन्नपतेऽग्नेऽनमीवस्य रोगरहितस्य शुष्मिणो बलहेतोरन्नस्य प्राप्तिं नोऽस्मभ्यं देहि। प्रकर्षेण हविषो दातारं यजमानं प्रतारिषः प्रकर्षेण दुरितात्तारय। नोऽस्माकं द्विपदे चतुष्पदे मनुष्याय पशवे चोर्जं बलं धेहि संपादय। अस्य मन्त्रस्य प्रथमपादेऽन्नपतिशब्दार्थं दर्शयति—
अन्नपतेऽन्नस्य नो देहीत्याहाग्निर्वा अन्नपतिः स एवास्मा अन्नं प्र यच्छति” [सं. का. ५ प्र. २ अ. २] इति।
द्वितीयपादेऽनमीवशब्दार्थं दर्शयति—

[[1876]]

‘अनमीवस्य शुष्मिण इत्याहायक्ष्मस्येति वावैतदाह” (सं. का. ५ प्र. २ अ. २) इति।
उत्तरार्धे तारिषो घेहीति पदयोस्तात्पर्यं दर्शयति—
“प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पद इत्याहाऽऽशिषमेवैतामाशास्ते” (सं. का. ५ प्र. २ अ. २) इति।
कल्पः—“उतु त्वा विश्वे देवा इत्युख्यमुद्यम्य” इति। पाठस्तु—
उदु त्वा विश्व इति। हेऽग्ने विश्वे सर्वेऽपि देवाः प्राणरूपाश्चित्तिभिरुद्यामन-कुशलाभिर्धीवृत्तिभिरुदूर्ध्वमेव त्वां भरन्तु। स त्वं नोऽस्माकं शिवतमः शान्ततमः सुप्रतीकः सुमुखो विभावसुः प्रभवा वासयिता च भव।
अस्य मन्त्रस्य प्रथमपादे देवशब्दार्थं दर्शयति—
“उदु त्वा विश्वे देवा इत्याह प्राणा वै विश्वे देवाः प्राणैरेवनैमुद्यच्छते” (सं. का. ५ प्र. २ अ. २) इति।
दीव्यन्ति स्वस्वकार्येषु व्यवहरन्तीति देवाः प्राणाः।
“अग्ने भरन्तु चित्तिभिरित्याह यस्मा एवैनं चित्तायोद्यच्छते तेनैवनै+ समर्धयति” [सं. का. ५ प्र. २ अ. २] इति।
चित्तिशब्देन चित्ताभिप्रेतकार्यं समुच्यते। तथा सति यस्मै कार्यायेदमुद्यमनं तेनैव कार्येणैनमग्निं समृद्धं करोति।
यकुक्तं सूत्रकारेण— “सीद त्वं मातुरस्या उपस्थ इति चतुसृभिर्द्वीषे शकटे प्रउग उख्यमासादयति” इति। ईषाग्रयोर्मेलनस्थानं प्रउगम्। तदेतत्सूत्रोक्तमासादनं विधत्ते—
“चतसृभिरा सादयति चत्वारि छन्दाँ सि छन्दोभिरेवातिच्छन्दसोत्तमया वर्ष्म वा एषा छन्दसां यदतिच्छन्दां वर्ष्मैवैनँ समानानां करोति सद्वती भवति सत्त्वमेवैनं गमयति” [सं. का. ५ प्र. २ अ. २] इति।

[[1877]]

सीद त्वमित्यादयश्चतस्र ऋचस्तद्ब्राह्मणं चेत्येतत्सर्वं प्रथमानुवाके व्याख्या तम्।
कल्पः- “प्रेदग्ने ज्योतिष्मान्याहीति प्रयति” इति। पाठस्तु-
प्रेदग्ने ज्योतिष्मानिति। हेऽग्ने शिवेभिरर्चिभिः शान्ताभिर्ज्वालाभिर्ज्योतिष्मा-न्प्रकाशयुक्तस्त्वं प्रेद्याहि देवयजनप्रदेशं पयाह्येव। बृहद्भिर्भानुभिः प्रौढैरश्मिभिर्भासञ्ज-गदवभासयंस्तनुवा स्वकीयेन दाहकेन शरीरेण प्रजा मा हिंसीः।
अस्य मन्त्रस्य प्रथमपादे ज्योतिष्मच्छब्दस्य तात्पर्यं दर्शयति—
“प्रेदग्ने ज्योतिष्मान्याहीत्याह ज्योतिरेवास्मिन्दधाति” [सं. का. ५ प्र. २ अ. २] इति।
चतुर्थपादे हिंसां निषेद्धुं प्रसक्तिं दर्शयति—
“तनुवा वा एष हिनस्ति यँ हिनस्ति मा हिँसीस्तनुवा प्रजा इत्याह प्रजाभ्य एवैनँ शमयति” (सं. का. ५ प्र. २ अ. २) इति।
अग्निर्यं पुरुषं हिनस्ति न तं शस्त्रेण प्रहृत्य हन्ति, किंतु ज्वालामयेन स्वशरीरेणैव तं दग्ध्वा हन्ति। अतस्तनुवा मा हिँसीरिति प्रायश्चित्तं विधत्ते—
“रक्षाँ सि वा एतद्यज्ञ सचन्ते यदन उत्सर्जत्यक्रन्ददित्यन्वाह रक्षसामपहत्यै” (सं. का. ५ प्र. २ अ. २) इति।
यदनः शकटमुत्सर्जति गमने ध्वनिं करोत्येतद्यज्ञसाधनं शकटं रक्षांसि सचन्ते समवयन्ति। अतस्तत्परिहारायाक्रन्ददग्निरित्येतामृचमनुब्रूयात्। सा च पूर्वानुवाके समाम्‍नाता व्याख्याता च । विधत्ते—
“अनसा वहन्त्यपचितिमेवास्मिन्दधाति तस्मादनस्वी च रथी चातिथीनामप-चिततमौ” (सं. का. ५ प्र. २ अ. २) इति।
एतमग्निमनसा शकटेन देवयजनप्रदेशं वहन्ति प्रापयेत्। तथा सत्यस्मिन्नग्नौ पूजां संपादिता वान्भवति। यस्मादेवं तस्माल्लोकेऽपि गमनकाले शकटारूढरथारूढावतिथीनां मध्येऽतिपूजितौ। परिवृढो हि तथा गच्छति न दरिद्रः।

[[1878]]

एतद्वेदनं प्रशंसति—
“अपचितिमान्भवति य एवं वेद” [सं. का. ५ प्र. २ अ. २] इति।
कल्पः “समिधाऽग्निं दुवस्यतेति घृतानुषिक्तामवसिते समिधमादधाति” इति। पाठस्तु—
समिधाऽग्निमिति। हे ऋत्विग्यजमाना एतमग्निं समिधा दुवस्यत परिचरत। घृतानुषिक्तयाऽनया परिचरतेत्यर्थः। घृतैरेतस्येष्टेरतिथिमिवैनं बोधयतोद्दीषयत। ततश्चास्मिन्नग्नौ हव्यानि हवींष्याजुहोतन साकल्येन जुहूत।
तमेतं मन्त्रं विनियुङ्‍क्ते—
“समिधाऽग्निं दुवस्यतेति घृतानुषिक्तामवसिते समिधमा दधाति यथाऽतिथम आगताय सर्पिष्वदातिथ्यं क्रियते तादृगेव तत्” (सं. का. ५ प्र. २ अ. २) इति।
अवसिते प्रयाणे समाप्ते सति। सर्पिष्वद्घृतयुक्तमन्नम।
कल्पः—“उत्तरया त्रिष्टुभा राजन्यस्य” इति। समिधमादधातीत्यनुवर्तते। पाठस्तु—
प्रप्रायमग्निरिति। अयमग्निर्भरतस्य हविर्भृतवतो यचमानस्याऽऽह्‍वानं प्रपशृण्वेऽ-तिप्रकर्षेण शृणोतु। यद्योऽग्निः सूर्यो न सूर्य इवाधिकं (मा) भासमानः सन्बृहद्रोचतेऽ-त्यन्तं दीप्यते। योऽग्निः पृतनासु संग्रामेषु पूरुं जयपूर्तिमभितस्थौ सर्वतः करोति, सोऽग्निर्नोऽस्माकमतिथिर्दीदाय भवतु, अतिथिरिवेहास्मास्या ( ह समा) गच्छतु। कीदृशोऽग्निः, दैव्यो हितः, शिवः परममङ्गलरूपः।
समिधाऽग्निं प्रप्रायमग्निग्निरित्यनयोः समिदाधानमन्त्रयोर्विषयव्यवस्थां विधत्ते–
“गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस्त्रिष्टुभा राजन्मस्य त्रैष्टुभो हि राजन्यः” [(सं. का. ५ प्र. २ अ. २) इति।

[[1879]]

समिधाऽग्निमिति गायत्री, प्रप्रायमिति त्रिष्टुप्।
कल्पः- “आपो देवीः प्रतिगृह्‍णीत भस्मैदिति तिसृभिरप्सु भस्म प्रवेश यति” इति। तत्र प्रथमामाह—
आपो देवीरिति। हे आपो देवीर्देव्यो भस्मोख्याग्नेरुपरि संचितं भस्म प्रतिगृह्‍णीत। एतदेवाभिप्रेत्य सूत्रकारेणोक्तम्—‘ यद्युखां भस्माभिनिषीददुख्यप्रादायो-दकान्तं गत्वा” इति। एतत्प्रतिगृहीतं भस्म स्योने सुखकरे सुरभावु सुगन्धयुक्त एव लोके स्थाने कृणुध्वं स्थापयत। शोभन पतिर्वरुणो यासां ताः सुपत्न्यः। आपो वरुणस्य पत्नय आसन्नित्यन्यत्र श्रूयते। जनयोऽग्नेर्जनन्य आपः। वाडववैद्युतरूपमग्निं प्रत्यपां जनयितृत्वम्। ईदृश्य आपस्तस्मा अग्नये नमन्तां प्रह्‍वी भवन्तु, तमाग्निं पालयितुं वश्याः सावधाना भवन्त्वि-त्यर्थः । हे आपे माता पुत्रं पोषयति यद्वत्तद्वदेनमग्निं सुष्ठु बिभृत पोषयत दीपयत।
अथ द्वितीयामाह—
अप्स्वग्‍न इति । हेग्ने तव सघिः सहो बलं भस्मरूपमप्सु वर्तते। स त्वमोषधीरनु-रुध्यसे व्‍रीहियवाद्योषधीरनुसरसि। जाठराग्निरूपेण तत्स्वीकारात। अरण्योर्गर्भे स्थितः सन्पुनः पुनः सम्यग्जायसे। अथ तृतीयामाह—
गर्भो अस्योषधीनामिति। भेजरूप ओषधिविशेष उत्पद्यमानत्वात्त्वमोषधीनां गर्भोऽसि। तथाऽरणीभ्यामुत्पद्यमानत्वाद्वनस्पतीनां गर्भोऽसि। हेऽग्ने विश्वस्य भूतस्य सर्वस्य प्राणिजातस्य जठरे वर्तमानतया गर्भोऽसि। तथा वाडववैद्युतरूपेणापां गर्भोऽसि। एतैर्मन्त्रैः साध्यं प्रवेशनं विधत्ते—
“अप्सु भस्म प्र वेशयत्यप्सुयोनिर्वा अग्निः स्वामेवैनं योनिं गमयति” [सं. का. ५ प्र. २ अ. २] इति।
आपो देवीरित्यादिकान्मन्त्रान्विनियुङ्‍क्ते
“तिसृभिः प्र वेशयति त्रिवृद्वा अग्निर्यावानेमाग्निस्तं प्रतिष्ठां गमयति” [सं. का. ५ प्र. २ अ. २] इति।

[[1880]]

आहवनीयादिरूपेणाग्नेस्त्रिवृत्त्वम्।
कल्पः—“भस्मनोपादाय प्रपीड्य प्रसद्य भस्मनेति द्वाभ्यामुखायां प्रत्यवधाय” इति। तत्र प्रथमामाह—
प्रसद्य भस्मनेति। हेऽग्ने भस्मना सह योनिं कारणभूतां पृथिवीं प्रसद्य, किं पृथिवीमेव, नेत्याह—अपश्च योनिभूताः प्रतिपद्य, किंच मातृभिराद्भिः पृथिव्या च संसृज्यैकीभूय त्वं ज्योतिष्मान्भृशं ज्योतिः संपन्नः पुनः पश्चादासदः स्वीयमेव स्थान-मुखामासीद। अथ द्वितीयामाह—
पुनरासद्येति। हेऽग्ने पुनरपि सदनं स्वस्थानमपः पृथिवीं चाऽसद्य प्रतिपद्य पुनरस्यामेवोखायामन्तर्मध्ये शिवतमः शान्ततमः शेषे शयनं करोषि। यथा मातुरुपस्थ उत्सङ्गे सतः सुखं शेते तद्वत। एतौ मन्त्रौ विनियुङ्‍क्ते—
“परा वा एषोऽग्निं वपति योऽप्सु भस्म प्रवेशयति ज्योतिष्मतीभ्यामव दधाति ज्योतिरेवास्मिन्दधाति” [सं. का. ५ प्र. २ अ. २] इति।
यो यजमान उखाग्निसंबद्धं भस्माप्सु प्रवेशयति स एषोऽग्निं परावपति नाशयति। अतो विनाशपरिहाराय जलगतं भस्म निष्पीड्य ज्योतिष्मच्छब्दोपेताभ्यामृग्भ्यामुखायाम-वदध्यात्। त्वं ज्योतिष्मान्पुनरासद इत्येवं ज्योतिष्मच्छब्दो पेतत्वम। मन्त्रिद्वित्वं प्रशंसति-
“द्वाभ्यां प्रतिष्ठित्यै” (सं. का. ५ प्र. २ अ. २) इति।
कल्पः—“पुनरूर्जासह रय्येति पुनरुदैति” इति। निष्पीडितभस्मोपेताया मुखायामग्निं स्थापयेदित्यर्थः। तत्र प्रथमामाह—
पुनरूर्जा नीति। हेऽग्ने त्वमूर्जा क्षीरादिरसेन सह पुनर्निवर्तस्वाऽऽगच्छ। इषाऽन्नेनाऽऽयुषा सह पुनरागच्छ। नोऽस्मान्पुनर्विश्वतः सर्वस्मादपराधात्पाहि।
अथ द्वितीयामाह—
सह रय्या नीति। हेऽग्ने रय्या धनेन सह निवर्तस्व प्सा भक्षण इति धातुः । विश्वैः सर्वैः प्सायते भक्ष्यते पयित इति विश्वप्स्‍नी, तादृश्या वृष्टिधारया विश्वतस्परि सर्वेषां तृणसस्यलतापादपादीनामुपरि पिन्वस्व सिञ्च।

[[1881]]

मन्त्रद्वयं विनियुङ्‍क्ते—
“परा वा एष प्रजां पशून्वपति योऽप्सु भस्म प्रवेशयति पुनरूर्ज सह रय्येति पुनरुदैति प्रजामेव पशूनात्मन्धत्ते” (सं. का. ५ प्र. २ अ. २) इति।
भस्मनोऽप्सु प्रवेशनेन विनाशितायाः प्रजायाः पशूनां च स्वात्मनि स्थापनाय पुनरुदैति पूर्वमुखाया अपनीतमाग्निं पुनरपि निष्पीडितभस्मसहितायामुखायां मन्त्रद्वयेन स्थापयेत्। तत्र मन्त्रद्वयबलात्प्रजायाः पशूनां च स्वात्मनि स्थापनं भवति।
कल्पः—“पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामिति पुनरुख्यमुपसनिन्धे” इति। पाठस्तु—
पुनस्त्वाऽऽदित्या इति। हेऽग्ने त्वामादित्या रुद्रा वसवश्च पुनः समिन्धतामुप-शान्तं पुनः संदीपयन्तु। हे वसुनीथ वसूनां धनानां नीथ प्रापयितर्ब्रह्माणो ब्राह्मणा ऋत्विजो यज्ञैर्निमित्तभूतैस्त्वां पुनः समिन्धताम्। त्वं घृतेन तुष्टः संस्तनुवोऽस्मदीयशरीराणि वर्धयस्व। तत्त्वतस्त्वयि तुष्टे सति यजमानस्य कामाः सत्याः सन्तु। अस्मिन्मन्त्रे रुद्राद्युक्तेस्तात्पर्यं दर्शयति—
“पुनस्त्वाऽऽदित्या रुद्रा वसषः समिन्वतामित्याहैता वा एतं देवता अग्रे समैन्धत ताभिरेवैनँ समिन्धे” [सं. का. ५ प्र. २ अ. २] इति।
कल्पः ‘बोधा स बोधीति बोधवतीभ्यामुपतिष्ठते” इति।
तत्र प्रथमामाह—
बोधा नो अस्येति। हे स्वधावः स्वधोपलक्षितान्नवन्यविष्ठ युवतम नोऽस्मदीय-स्यास्य वचसः स्तुतिरूपस्य बोध तात्पर्यं बुध्यस्व। कीदृशस्य वचसः, मंहिष्ठस्यातिशये-नाभिवृद्धिहेतोः प्रभूतस्य प्‍रकृष्टेनाऽऽदरेण संपादितस्य । पीयति त्वः । ओप्यायी बद्धावित्यस्माद्धातोरुत्पन्नः पीयतिशब्दः त्वशब्द एकशब्दार्थे वर्तते। भवदीयस्तुतिकारि-णोर्द्वयोर्यजमानयोर्मध्ये त्व एकः स्तोता यजमानः पीयति वृद्धिमधिकं वक्ति उचितोक्ति-मुल्लङ्घ्य निन्दारूपेणातिप्रशंसारूपेण वा य

[[1882]]

त्किंचिद्वक्ति। त्वोऽऽनुगृणाति, एकः स्तोताऽनुकूलमुचितमेव वक्ति । अतोऽस्मदभिप्‍रायं बुध्यस्वेति प्रार्थ्यते । वन्दारुरभिवन्दनपरोऽहं हेऽग्ने त्वदीयां तनुवं वन्दे। अथ द्वितीयामाह—
स बोधि सूरिरिति। हेऽग्ने स त्वं बोधि अस्मदभिप्‍रायं बुघ्यस्व। कीदृशस्त्वं, सूरिर्विद्वान्मघवाऽन्नवान्वसुदावा वसुप्रदो वसुपतिर्धनपतिः। तादृशस्त्वं द्वेषांसि शत्रुभिः कृतान्द्वेषानमस्मद्युयोध्यस्मत्तः पृथक्कुरु। तदेतन्मन्त्रद्वयं विनियुङ्‍क्ते—
“बोधा स बोधीत्युप तिष्ठते बोधयत्येवैनं तस्मात्सृप्त्वा प्‍रजाः प्र बुध्यन्ते” (सं. का. ५ प्र. २ अ. २) इति।
बोधेति मन्त्रएम सबोधिति मन्त्रेण चैतामग्निं बोधयत्येव। यस्मादत्र शान्त मग्निं पुनरुद्वोधयति तस्माल्लोकेऽपि प्‍रजाः स्वापं प्‍राप्य पुनः प्रबुध्यन्ते।
उपस्थानदेशं विधत्ते-
“यथास्थानमुप तिष्ठते तस्माद्यथास्थानं पशवः पुनरेत्योप तिष्ठते” [सं. का. ५ प्र. २ अ. २] इति।
आऽऽहवनीयस्य दक्षिणभागो यजमानस्योपस्थानदेशः। अतोऽत्रापि दक्षिण देश एव स्थित्वोपतिष्ठेत। यस्मादेवं तस्माल्लोकेऽपि पशवः प्रातःकाले शालाया निर्गत्यारण्ये गत्वा सायं पुनरागत्य स्वं स्वं स्थानमेव सेवन्ते।
अत्र विनियोगसंग्रहाः—
अन्नाऽऽदध ति समिधमुद्यच्छेदृचाऽनलम्।
प्रेत्प्‍रयात्यथ समिधा गम्यन्ते समिधं क्षिपेत्।।
राजन्यश्चेत्प्‍रेति मन्त्र आपो भस्माप्सु वेशयेत्।
त्रिभिः प्रसेति तु द्वाभ्यामुखायां स्थापयेदमुम्।।
पुनर्द्वाभ्यामदैत्याग्निं पुनस्त्वेति समिन्धयेत्।
बोधद्वाभ्यामुपस्थानं मन्त्राः पञ्चदशेरिताः।।

[[1883]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
तृतीयोऽनुवाकः ।। ३ ।।