०२

( अथ चतुर्थाष्टके द्वितीयप्रपाठके द्वितीयोऽनुवाकः )।

दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्‍निर॒स्मद्‍‍‍द्वि॒तीयं॒
परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अ॑जस्र॒-
भिन्धा॑न एनं जरते स्वा॒धीः । वि॒द्मा ते॑ अग्ने
त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ स॑द्म॒ बिभृ॑तं पुरु॒त्रा ।
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒
यत॑ आज॒गन्थ । स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व॑-
न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्‍न॒ ऊध॑न् । तृ॒तीये॑
त्वा [ १ ] रज॑सि तस्थि॒वाँस॑मृ॒तस्य॒ योनौ॑
महिषा॒ अ॑हिन्वन् । अक्र॑न्द॒दग्‍निः स्त॒नय॑-
न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् ।

[[1868]]

स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी
भा॒नुना॑ भात्य॒न्तः । उ॒शिक्पा॑वको अ॑र॒तिः
सु॑मे॒धा मर्ते॑ष्व॒ग्‍नि॒रमृतो॒ नि धा॑यि । इय॑र्ति
धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिपा॒ द्यामि-
न॑क्षत् । विश्व॑स्य के॒तुर्भुवनस्य॒ गर्म॒ आ
( २ ) रोद॑सी अपृणाज्‍जाय॑मानः । वी॒डुं
चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्‍निमय॑जन्त॒
पञ्च । श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒-
षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः । वसोः॑ सू॒नुः
सह॑सो अ॒प्‍सु राजा॒ वि मा॒त्यग्र॑ उ॒षसा॑मि-
धा॒नः । यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व
घृ॒तव॑न्तमग्‍ने । प्र तं न॑य प्रत॒रां वस्यो॒ अ-
च्छा॒भि द्यु॒म्‍नं दे॒वभ॑क्तं यविष्ठ । आ [ ३ ]
तं भ॑ज सौश्रव॒सेष्व॑ग्‍न उ॒क्थउ॑क्थ॒ आ भ॑ज
शस्यमा॑ने । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्‍ना भ॑वा॒-
त्युज्‍जा॒तेन भि॒नद॒दुज्‍जनि॑त्वः । त्वाम॑ग्‍ने॒ य-
ज॑माना॒ अनु॒ द्युन्विश्वा॒ वसू॑नि दधिरे॒ वा-
र्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं
गोम॑न्तमु॒शिजो॒ वि व॑व्‍रुः । दृ॒शा॒नो रु॒क्म
उ॒र्व्या व्यद्यौ॑द्‍दु॒र्मर्ष॒मायुः श्रि॒ये रु॑चा॒नः ।
अ॒ग्‍निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नय-
त्सु॒रेताः॑ [ ४ ] ।।

[[1869]]

(तृ॒तीये॑ त्वा॒ गर्भ॒ आ य॑वि॒ष्ठाऽऽ यच्च॒त्वारि॑ च)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।

[अथ चतुर्थकाण्डे द्वितीयप्रपाठके द्वितीयोऽनुवाकः]।
प्रथमेऽनुवाके वह्‍नेरासन्द्यां स्थापनमुक्तम् । द्वितीये तस्याग्‍नेरुपस्थानमुच्यते ।
कल्पः—“दिवस्परीत्येकादशभिर्द्वादशभिस्त्रयोदशभिर्वा वात्सप्रेणोपतिष्ठते पूर्वे-द्युर्विष्णुक्रमान्क्रामत्युत्तरेद्युरुपतिष्ठत एवं सदा कुर्याद्यदहः सोमं क्रीणीयात्तदहरुभयं सम-स्येत्प्र च क्रमेदुप च तिष्ठति” इति । तत्र प्रथमामाह—
दिवसस्परि प्रथममिति । अग्‍निः प्रथमं दिवस्परि द्युलोकस्योपरि जज्ञे सूर्यरूपे-णोत्पन्नः । अस्मत्पर्यस्मदीयस्य मनुष्यलोकस्योपरि जातवेदा द्वितीयं जज्ञे प्रसिद्धव-ह्‍‍निरूपेण द्वितीयं जन्म प्राप्तवान् । अप्सु समुद्रे तृतीयं जज्ञे वडवानलरूपेणोत्पन्नः । अजस्त्रं त्रिष्वपि जन्मसु नृमणा नृषु यजमानेषु मनोऽनुग्रहबृद्धिर्यस्यासौ नृमणाः । एन-मीदृशमग्‍निमिन्धानः पुरोडाशादिभिर्दीपयन्स्वाधीः स्वायत्तचित्तो जरते जीर्यते जरापर्यन्तं परिचरतीत्यर्थः । अथ द्वितीयामाह—
विद्मा ते अग्न इति । हेऽग्‍ने यानि पूर्वस्मिन्मन्त्रे दिवस्परीत्यादिना त्रेधा स्वरूपा-ण्युक्तानि आदित्याग्निवडवानलरूपाणि तानि त्रयाणि त्रित्वसंख्याकानि रूपाणि वयं विद्म ज्ञातुमिच्छाम । किंच ते तव पुरुषा पुरुषु प्रदेशेषु गार्हपत्याहवनीयान्वाहार्यपचना-ग्‍नीघ्‍रीयशामित्ररूपेषु सद्म विभृतमवस्थानं देवेद्धमन्विद्धेत्यादिमन्त्रप्रतिपाद्यं नाम यदस्ति तदपि विद्म । देवेद्धादीनां नामत्वं मन्त्रान्तरे संबुद्धिबलादवगम्यते—अग्‍ने देवेद्ध मन्वि-द्ध मन्द्रजिह्‍वेति । किंच यत उत्साद्वृष्टिरूपात्प्रस्रवणादाजगन्थ वैद्युतरूपेण त्वमाग-तोऽसि तमुत्सं विद्म ।
अथ तृतीयामाह—
समुद्रे त्वेति । हेऽग्ने त्वामीधे यजमानोऽहं दीपयामि । कीदृशो यजमानः,

[[1870]]

नृमणा नृषु मनुष्येषु कर्मानुष्ठानपरेषु ऋत्विक्षु मनोऽनुसंधानकारणं चित्तं यस्यासौ नृमणाः, नृचक्षा नृषु पुरुषेषु वदपारं गतेषु मध्ये चष्टे मन्त्रान्विस्पष्टं वक्तीति नृचक्षाः। कीदृशं त्वाम्। समुद्रे तस्थिवांसं वडवानलरूपेण स्थितम्। तथाऽप्सु वृष्टिरूपास्वन्तर्वैद्युतरूपेण तस्थिवांसम्। तथा दिवो द्युलोकस्योधन्‍नूधस्थानीये तृतीये समुद्रवृष्ट्यपेक्षया तृतीयस्थाने रजसि रञ्जनात्मके तेजोमण्डले सूर्यरूपेण तस्थिवांसम्। महिषा महान्तो यजमाना ऋतस्य योनौ यज्ञस्य संबन्धिनि वेदि स्थानेऽहिन्वंस्त्वां प्रीणयन्ति। अथ चतुर्थीमाह–
अक्रन्ददग्निरिति। अयमग्निरक्रन्ददस्मदनिष्टनिवारणार्थ गर्जतु। किमव, स्तनयन्निव द्यौः। यथा द्युलोकस्थो मेघो गर्जन्सस्यशोषभीतिं निवारयति तद्वत्। किं कुर्वन्। क्षाम दाहकमस्मद्विरुद्धं रेहिहल्लेलिहानो वीरुधः समञ्जन्पुष्पलतावद स्मदनुकूलानि सम्यगमिषिञ्‍चन। हि यस्माज्‍जज्ञान उत्पद्यमानः सद्य ईं तदानी मेवेद्धो दीप्तो विविधं जगदख्यत्प्रख्यापयति। रोदसी द्यावपृथिव्योरन्तर्भानुना रश्मिना स्वयमाभाति समन्तात्प्रकाशते। अथ पञ्‍चमीमाह—
उशिक्पावक इति। उशिगनुग्रहपूर्वमस्मान्कामयमानः। पावकः शोधकः अरतिर्यागरहितेषु प्रीतिरहितः। सुमेधाः शोभना मेधा सेवकाभिप्रायधारणशक्तिर्यस्यासौ सुमेधाः अमृतो मरणरहितः। तादृशोऽग्निर्मर्तेषु मनुष्येषु निधायि निहितः। अरुषमरोषं चक्षुराद्युपद्रवरहितं धूमं भरिभ्‍रदतिशयेन धारयन्नुदियर्त्यूर्ध्वं प्रसारयति। शुक्रेण शोचिषा निर्मलेन तेजसा प्रभारूपेण द्यामितक्षन्नक्षति व्याप्‍नोति । अथ षष्ठीमाह—
विश्वस्य केतुरिति। विश्वस्य केतुर्जगतो ज्ञाता भुवनस्य गर्भो गर्भवदन्तरवस्थितो जायमानो जातमात्र एव सन्‍रोदसी द्यावापृथिव्यावापृणात्सर्वतः स्वतेजसा पूरयति। यद्यदा पञ्च यजमानसहितं ऋत्विग्रूपा पञ्चसंख्याका जना अग्निमयजन्त तदानीं परायन्नाहुतिरूपेणाऽऽदित्यस्य समीपं गच्छन्वीहुंचिद्ढमेवाद़िं पर्वतसमानं मेघमभिनद्विदारितवान्। अथ सप्तमीमाह—
श्रीणामुदार इति। श्रीणां गवाश्वादीनां संपदामुदार उत्कर्षेण प्रापयिता।

[[1871]]

रयीणां घनानां धरूणो घारयिता । मनीषाणामपेक्षितानां स्वर्गादिफलानां प्रार्पणः प्रापयिता। सोमगोपा यजमानेनानुष्ठेयस्य सोमयागस्य रक्षिता। वसोर्निवासहेतोसहसो मथन-वेगरूपस्य बलस्य सूनुः पुत्रः। अप्सु वृष्टिरूपासु राजा वैद्युतरूपेण दीप्यमानः उषसामग्रे प्रातःकाल इधानोऽग्निहोत्रभिर्दीप्यमानो विभाति विशेषेण भासते। अथाष्टमीमाह—
यस्ते अद्येति। हे भदशोषे कल्पाणदीप्तेऽग्ने देव ते तवाद्यास्मिन्दिवसे घृतवन्तमपूपमुस्तरणाभिधारणोपेतं पुरोडाशं यो यजमानः कृणवत्करोति। हे यविष्ठ युवतम देवभक्तं देवेषु भक्तियुक्तं तं पुरोडाशकारिणं यजमानमभिद्युम्नमच्छाभिमतं धनं प्राप्तुं प्रकर्षेण नय प्रेरय कीदृशं द्युम्‍नं, प्रतरां प्रकृष्टतरं वस्योऽतिशयेन निवासकारणम्। अथ नवमीमाह—
आ तं यजेति। शोभनं श्रवः कीर्तिः सुश्रवस्तस्य संबन्धीनि तत्कारणानि कर्माणि सौश्रवसानि तेषु कर्मसु, उक्थ उक्थे निष्कैवल्यप्रउगादिरूपे तत्तच्छस्त्रे शस्यमाने सति तं देवभक्तं यजमानमाभज सर्वतः संप्रेरय निरन्तरं कर्मानुष्ठायिनं कुर्वित्यर्थः। आभजेति द्विरुक्तेर्वाक्यद्वयमिदं कर्तव्य, सौश्रवसेषु कर्मसु प्रेरयेत्येकं वाक्यम्। तत्तच्छस्त्रे प्रेरयेत्येकं वाक्यम् । अयं यजमानः सूर्ये प्रियो भवाति भवतु । अग्ना वह्नावपि प्रियो भवतु। तथा जातेनोत्पन्नेन पुत्रेणोद्भिनददुद्भेदमभिवृद्धिं प्राप्नोतु। तथा जनित्वैर्जनिष्यमाणैः पौत्रादिभिश्चोद्भिनदत्। अथ दशमीमाह—
त्वामग्ने यजेति। हेऽग्ने यजमानाः सर्वेऽनुद्यून्प्रतिदिनं त्वामनु त्वामेवानुगच्छन्तो वार्याणि वरणीयानि विश्वा वसूति सर्वाणि धनाति दधिरे धृतवन्तः। त्वया सहावस्थितास्त यजमाना द्रविणमिच्छमानाः पुनरप्यधिकं द्रव्यं काङ्‍क्षन्त उशिजो धनसाध्यानि कर्माणि कामयमाना गोमन्तं बहुभिर्गोभिर्युक्तं व्‍रजे गोनिवासस्थानं विवब्‍रुविशेषेण वृतवन्तः। अथैकादशीमाह—
दृशानो रुक्म इति। दृशानो दर्शनीयो रुक्मः सुवर्णसदृश उर्व्या महत्या

[[1872]]

दीप्त्या व्यद्यौद्विद्योतते स्म। किं कुर्वम्, दुर्मर्षमितरैरतिरस्कार्यमायुर्जीवनं श्रिये श्रयितुं रुचानो वाञ्छन्। तथाविधोऽग्निर्वयोभिरन्नैर्हविर्भिरमृतोऽभवत्। यद्यस्मा देनमग्निं द्यौर्द्युलोकवासिदेवगणः सुरेताः सन्नजनपत्तस्मादमृतत्वं युक्तम्।
तदेतदेकादशमन्त्रात्मकं सूक्तं विनियुङ्‍क्ते ।
“वात्सप्रेणोप तिष्ठत एतेन वै वत्सप्रीर्भालन्दनोऽग्नेः प्रियं धामावारुन्धाग्नेरेवतैने प्रिय धामाव रुन्धे” (सं. का. ५ प्र. २ अ. १ इति।
वत्सप्रीनामकेन महर्षिणाऽधीतं दिवस्परीत्यादिकं सूक्तं वात्सप्रं, तेनाग्निमुपतिष्ठेत। भालन्दनस्य पुत्रो वत्सप्रीनामको महर्षिरेतेन सूक्तेनाग्नेः प्रियं धाम स्थानं प्राप्तवान्। ततो यजमानोऽपि तथा प्राप्नोति।
तस्य सूक्तस्यैकादशमन्त्रसमूहात्मकत्वं विधत्ते—
“एकादशं भवत्येकधैव यजमाने वीर्यं दधाति” [सं. का. ५ प्र. २ अ. १] इति।
एकधैव युगपदेव। समूहस्य युगपत्प्रवृत्तत्वात्।
तदिदं सूक्तं विष्णुक्रमांश्र लोकद्वयहेतुत्वेन प्रशंसति—
“स्तोमेन वै देवा अस्मिल्ँ लोक आर्ध्‍नुवच्छन्दीभिरमुष्मिन्स्तोमस्येव खलु वा एतद्रूपं यद्वात्सप्र यद्वात्सप्रेणोपतिष्ठत इममेव तेन लोकमभि जयति यद्विष्णु क्रमान्क्रमतेऽमुमेव तैलाकमभि जयति” (सं. का. ५ प्र. २ अ. १) इति।
गीत्याश्रयाणामावृत्तानामृचां समूहः स्तोमः स्तुतिहेतुर्मन्त्रसमूह एतल्लोकसमृद्धिप्रा-प्तिसाधनं, समूहाकारमन्तरेण विशिष्टानि च्छन्दांसि स्वर्गसमृद्धिकारणानि। तथा सति वात्सप्रसूक्तं समूहरूपत्वादेतल्लोकसमृद्धिकरम्। छन्दःशब्दोपेता विष्णुक्रममन्त्रास्तु बहुत्वात्स्वर्गसमृद्धिहेतवः।
उभयानुष्ठानस्य कालविशेषं विधत्ते—
“पूर्वेद्युः प्र क्रामत्युत्तरेद्युरुप तिष्ठते तस्माद्योगेऽन्यासां प्रजानां मनः क्षेमेऽन्या-सां तस्माद्यायावरः क्षेम्यस्येशे तस्माद्यायावरः क्षेम्यमध्यवस्यति” (सं. का. ५ प्र. २ अ. १) इति।

[[1873]]

अलब्धस्य लोभो योगो लब्धस्य परिपालनं क्षेमः। काश्चित्प्रजा योगः श्रेयानिति मन्यन्त आर्जनशीला बहुव्ययाः। काश्चित्क्षेम एव श्रेयानिति मन्यन्त इतः परमर्जयितुम-शक्त्या व्ययभीरवः। तदिदं प्रजानां मनोवैलक्षण्यं क्रमे [म] णोपस्थानकालहेतुकम्। यस्मात्प्रयाणशीलस्य पुरुषस्यार्जयितुमवकाशो नास्ति तस्माद्यायावरः प्रयाणशीलः पुरुषः क्षेम्यस्येशे विद्यमानद्रव्यरक्षणस्यैव प्रभुर्भवति। यस्मादेवं लोके इष्टं तस्मादत्र देवयजन-देशं प्रति यायावरो यजमानः साधनान्तरसंपादनेच्छां परित्यज्य विद्यमाना-न्येवाग्न्यादिसाधनान्युपस्थानादिव्यापारैः परि(र) क्षितुमध्यवस्यति।
सोमविकृतित्वं द्योतयितुं तदङ्गानुष्ठानकालविशेषं चावगमयितुं दीक्षाङ्ग किंचिद्विधत्ते—
“मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्यै” (सं. का. ५ प्र. २ अ. १) इति।
स्वाहा यज्ञं मनसेत्यादिभिर्मन्त्रैर्हस्तयोरङ्‍गुल्याकुञ्चनं मुष्टीकरणम्। मौनं वाग्यमः। तदुभयं यज्ञस्य पलायनपरिहाराय भवति।
अत्र विनियोगसंग्रहः—
दिवस्परित्यनुवाके वात्सन्प्रेणोपतिष्ठते ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयेप्रपाठके
द्वितीयोऽनुवाकः ।। २ ।।