०१

तत्र प्रथमोऽनुवाकः।

ह॒रिः ॐ ।

विष्णोः॒ क्रमो॑ऽस्यभिमाति॒हा गा॑य॒त्रं छन्द॒
आ रो॑ह पृथि॒वीमनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स
यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽस्यभिशस्ति॒हा त्रै-
ष्टु॑भं छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ विक्र॑मस्व॒
निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽस्यरा-
तीय॒तो ह॒ ता जाग॑तं छन्द॒ आ रो॑ह॒ दिव॒-
म॒नु वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो वि-
ष्णोः॑ [ १ ] क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑-
ष्टु॒भं छन्द॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व॒
निर्भ॑क्तः॒ स यं द्वि॒ष्मः । अक्र॑न्द॒दग्निस्त॒नय॑
न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्।
स॒द्यो ज॑ज्ञा॒नो वि॑हीमि॒द्धो अख्य॒दा रोद॑सी
भा॒नुना॑ भात्य॒न्तः। अग्ने॑ऽभ्यावतिन्न॒भि न॒
आ व॒र्तस्वाऽऽयु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒
जया॒ धने॑न। अग्ने॑ ( २ ) अ॒ङ्गि॒रः॒ श॒तं ते॑
सन्त्वा॒वृतः॑ स॒हस्रं॑ त उपा॒वृतः॑ । तासां॒ पो-
ष॑स्य॒ पाषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒-
यिमा कृ॑धि। पुन॑रू॒र्जा नि व॑र्तस्व॒ पुनरग्‍न
इ॒षाऽऽयु॑षा। पुर॑र्नः पाहि वि॒श्‍वतः॑ । स॒ह
र॒य्या नि व॒र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒

[[1859]]

श्वप्स्नि॑या वि॒श्वत॒स्परि॑ । उदु॑त्त॒मं व॑रुण॒
पाश॑म॒स्मदवा॑धमम् [ ३ ] वि म॑ध्य॒मँ
श्र॑थाय। अथा॑ व॒यमा॑दित्ये व्र॒ते तवाना॑गसो॒
अदि॑तये स्याम। आ त्वा॑ऽहार्षम॒न्तर॑भू॒र्ध्‍रुव-
स्ति॒ष्ठावि॑चाचलिः। विशस्त्वा॒ सर्वा॑ वाञ्छ-
न्त्व॒स्मिन्‍रा॒ष्ट्रमा॑धि॑ शय । अग्ने॑ बृहन्‍नु॒षसा॑-
मू॒र्ध्वो अ॑स्थान्निर्जग्मि॒वान्तम॑सो ज्योति॒-
षाऽगा॑त् । अ॒ग्‍निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ
जा॒तो विश्वा॒ सद्मा॑न्यप्राः । सीद॒ त्वं मा॒तुर॒-
स्याः ( ४ ) उ॒पस्थे॒ विश्वा॑न्यग्‍ने व॒युना॑नि
विद्वान् । मैना॑मर्चिषा मा तप॑साऽभि शु॑श-
चो॒ऽन्तर॑स्याँ शु॒क्रज्यो॑ति॒र्वि भा॑हि । अ॒न्त-
र॑ग्‍ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒-
स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व । शि॒-
वो भू॒त्वा मह्य॑म॒ग्‍नेऽथो॑ सीद शि॒वस्त्वम्।
शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒-
हाऽस॑दः । हँ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धो-
ता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑रसदृ॑तस-
द्व्यो॑म॒सद॒ब्‍जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा
ऋ॒तं बृ॒हत् [ ५ ] ।।
(दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णो॒र्ध॒नेनाग्ने॑ऽध॒मम॒स्वाः
शु॑चि॒षत्षोड॑श च)

[[1860]]

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयप्रपाठके प्रथमोऽनुवाकः ।। १।।

(अथ चतुर्थकाण्डे द्वितीयः प्रपाठकः) ।
तत्र प्रथमोऽनुवाकः।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।। १ ।।
आद्यप्रपाठके ह्युख्यो योऽग्‍निः सोऽयं प्रपञ्‍चितः ।
प्रपाठके द्वितीये तु स्याद्देवयजनग्रहः ।। २ ।।
चयनार्थस्तत्र चानुवाका एकादशेरिताः ।
आसन्द्यां स्थापनं वात्सप्रसूक्तेन ह्युपस्थितिः ।। ३ ।।

  • उखाग्नेर्नयनं गार्हपत्याग्‍निचयनं भुवः ।
    कर्षणं चौषधावापो लोष्टक्षेपादिकं तथा ।। ४ ।।
    रुक्मादेरुपधानं स्वयमातृण्णादिकस्य च।
    निधानं पशुशीर्षाणां याज्या अर्था उदीरिताः ।। ५ ।।

तत्र प्रथमानुवाक आसन्द्यामुखाग्निस्थापनं प्रतिपाद्यते।
कल्पः—“ उपरि नाभेर्धारयमाणो विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमा ञ्प्राचः क्रामति ’ इति। पाठस्तु—
विष्णोः क्रमोऽसीति। यज्ञप्रयोगं कृत्‍स्‍नं व्याप्‍नोतीति विष्णुर्यजमानः । यद्वा विष्णुना परमेश्वरेणाभेदोपचारं कृत्प्रा विष्णुरित्युच्यते । हे प्रथमपादविन्यास त्वं विष्णो-रभिमातिहा पापघाती क्रमोऽसी। पाप्मा वा अभिमातिरिति श्रुत्यन्तरम् । तादृशस्त्वं गायत्रं छन्द आरोहानुग्राहकत्वेन स्वी कुरु। ततः पृथिवीमनु विक्रमस्व प्रदेवतारूपमिमं प्रदेशं विशेषेण प्राप्‍नुहि । यमभिमातिं वयं द्विष्मः सोऽयं निर्भक्तोऽस्मात्प्रदेशान्‍निः-सारितः । एवमुत्तरेष्वपि योज्यम् । अभिशस्तिहा मिथ्यापवादघाति । अरातिरवश्यदात यस्य दानाभावस्तमात्मन इच्छतीत्यरातीयंस्तस्य हन्ता विनाशकः। प्रहारेण हन्तृत्वं शत्रुत्वं तदिच्छतीति शत्रू
*उखाग्‍नेश्चयनमिति ख, पुस्तके टिप्पण्यां पाठः ।

[[1861]]

यंस्तस्य हन्ता विनाशकः। अत्र सर्वत्र यजमानः स्वात्मानं विष्णुत्वेन भावयेत् चतुर्णो प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत् । गायत्रादिच्छन्दोभिमानिदेवतास्तेषां प्रक्रमाणामनुग्राहिकाः ।
एतैर्मन्त्रैः साध्यान्विष्णुक्रमान्विधत्ते—
“विष्णुमुखा वै देवाश्छन्दोभिरिमाल्ँ लोकाननपजय्यमभ्यजयन्यद्विय्णुक्रमान्क्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभिरिवल्ँ लोकाननपजय्यपभि जयति विष्णोः क्रमोऽस्यभि-मातिहेत्याह गायत्री वै पृथिवी त्रैष्टुभमन्तरिक्षं जागती द्यौरानुष्टुभीर्दिशश्छन्दोभिरेवे-माल्लेँकान्यथापूर्वमामि जयति” (सं. का. ५ प्र. २ अ. १) इति।
देवाः पूर्वं स्वेषु विष्णुमेव मुख्यं कृत्वा छन्दोभिमानिदेवैः सहिता अनपजय्यमन्यै-र्जेतुं यथा न शक्यते तथेमल्लोँकानभ्यजयन् । अतो यजमानो विष्णुक्रमस्तथा जयति । गायत्रादिच्छन्दोदेवायां पृथिव्यादिलोकस्वामित्वेन तैः सह लोकानां जेतुं शक्यतया मन्त्रेषु गायत्रं छन्द आरोहेत्यादि पठितमित्यभिप्रायः ।
कल्पः—“अक्रन्ददग्निरित्येतामनुद्रुत्य” इति। पाठस्तु—
अक्रन्ददग्निरिति। अयमग्निरक्रन्ददस्मदनिष्टनिवारणार्थं गर्जतु। किमिव, स्तनय-न्‍निव द्यौः । यथा द्युलोकस्थो मेघः सस्यशोषभीतिनिवारणाय स्तनयति तद्वत् । किं कुर्वन् । क्षाम दाहकमस्माद्विरुद्धं रेरिहल्लेलिहानः, वीरुधः समञ्‍जन्पुष्पफलसमृद्धलताव-दस्मदनुकूलानि सम्यगमभिव्यञ्‍जयन् । हि यस्माज्‍जज्ञान उत्पद्यमानः सद्य ईं तदानीमे-वेद्धो दीप्तः सन्विविधं जगदख्यत्प्रख्यापयति । रोदसी द्यावापृथिव्यारेन्तर्भानुना रश्मिना स्वयमाभाति समन्तात्प्रकाशते ।
एतस्य मन्त्रस्यानुवचनं विधत्ते—
“प्रजापतिरग्निमसृजत सोऽस्मात्सृष्टः पराङैत्तमेतयाऽन्वैदक्रन्ददिति तया वै सोऽग्‍नेः प्रियं धामावारुन्ध यदेतामन्वाहाग्‍नेरवेतैया प्रिय घामाव रुन्धे” (सं. का. ५ प्र. २ अ. १) इति।
स सृष्टोऽग्‍निरस्मात्प्रजापते पराङावृत्तिरहित ऐदगच्छत्। अक्रन्ददित्येतयर्चा

[[1862]]

तमग्निमनुगम्य स प्रजापतिस्तयैवर्चाऽग्नेः प्रियं स्थानं प्राप्‍तवान् । अत एवास्या अनु-वचनमग्नेः प्रियस्य स्थानस्य संपादनाय भवति ।
कल्पः—“अग्नेऽभ्यावर्तिन्निति चतसृभिः प्रदक्षिणमावर्तते”
तत्र प्रथमामाह—
अग्नेऽभ्यावर्तिन्निति । आभिमुख्येनाऽऽवर्तितुं शीलमस्यास्तीत्याभ्यावर्ति, तादृश हेऽग्न आयुरादिभिः सह नोऽस्मानभिलक्ष्बाऽऽवर्तस्व । आयुरपमृत्युरहितं वर्चः कान्ति-र्बलं वा, सनिर्धनदानं, मेधा श्रुतार्थधारणशक्तिः । प्रजा पुत्रादिः। धनं सुवर्णम् । धन-शब्देन संपादयितब्यमुच्यते । सनिशब्देय संपादितस्या बन्धुभ्यः प्रदानशक्तिरुच्यते । अथ द्वितीयामाह—
अग्ने अङ्गिर इति । हेऽङ्गिरोऽङ्गसौष्ठवयुक्ताग्‍ने ते तवाऽऽवृतः शतं सन्तुं। आवृतिशक्तयः शतसंख्याका भवन्तु । तथा ते तवोपावृत उमावृतिशक्तय, सहस्र-संख्याका भवन्तु । स्वस्यैवाऽऽवर्तनमावृत् । समीपवृर्तिनां पुरुषाणां द्रव्य विशेषाणां चाऽऽवर्ततमुपावृत् । अस्मासु स्‍नेहादिशयात्त्वमपि पुनः पुनरावर्तस्वत्वदीयाः पुरुषा-सत्वदीयानि च द्रव्याणि पुनः पुनरावर्तन्तामित्यर्थः । तासामावृतिशक्तीनां शतसहस्त्र-संख्याकानां यः पोषः समृद्धिस्तस्यापि पोषस्यान्यः पोषोऽयुतलक्षादिसंख्याकाभिवृद्धि-स्तादृशेन पोषेण नोऽस्मदीयं नष्टं धनं पुनर्भूयोऽ प्याकृध्यावृतं कुरु । पुनर्भृयोऽपि रयिं पूर्वससंपादितं धनमाकृधि सर्वतः संपादितं कुरु । अथ तृतीयामाह—
पुनरूर्जेति । हेऽग्‍ने त्वमूर्जा क्षीरादिरसेन सह पुनर्निवर्तस्वात्रात्राऽगच्छ । इषाऽ-न्नेनाऽऽयुषा सह पुनरागच्छ । नोऽस्मान्पुन पुनः कृताद्विश्वतः सर्वस्मादपराधात्पाहि । अथ चतुर्थीमाह—
सह रय्येति । हेऽग्‍ने रय्या धनेन सह निवर्तस्व । प्सा भक्षण इति धातुः विश्वैः सर्वैः प्सायते भक्ष्यते पीयत इति विश्वप्स्‍नी । तादृश्या वृष्टिधारया विश्वतस्परि सर्वेषां तुणधान्यलतापादपानामुपरि पिन्वस्व सिञ्‍च ।
एतैर्मन्त्रैरावर्तनं विधत्ते—

[[1863]]

“ईश्वरो वा एषा पराङ्‍प्रदधा यो विष्णुक्रगान्क्रमते चतसृमिरा वर्तते चत्वारि छन्दाँ सि छन्दाँ सि खलु वा अग्‍नेः प्रिया तनूः प्रियामेवास्य तनुवमभि पर्यावर्तत” [सं. का. ५ प्र. २ अ. १] इति।
यो यजमानो विष्णुक्रमानाचरत्येष पराङावृत्तिरहितः प्रदघ ईश्वरः प्रकर्षेण गन्तुं समर्थ पुनरावृत्तिं न लभत इत्यर्थः । अत आवृत्तिलाभाय चतुसृभिर्ऋग्भिरावृत्तिं कुर्यात । गायत्री त्रिष्टुब्‍जगत्यनुष्टुबिति चतुर्णां छन्दसामभ्ऱ्यादानावुपात्तत्वदग्‍निशरीर-त्वम् । आवृत्तौ प्रादक्षिण्यं विधत्ते—
“दक्षिणा पर्यावर्तते स्वमेव वीर्यमनु पर्यावर्तत तस्माद्दक्षिणोऽर्ध आत्मनो वीर्याव-त्तरोऽथो आदित्यस्वैवाऽऽवृतमनु पर्यावर्तते” (सं. का. ५ प्र. २ अ. १) इति ।
दक्षिणा प्रादक्षिण्येन, दक्षिणभागमपस्थाप्य वामभागस्य परिभ्रमणं प्रादक्षिण्यम् । पुरुषस्य दक्षिणभागे सामर्थ्यातिशयसद्भावात्तदेवानुसृत्त्याऽऽवृत्तिकृता भवति । यस्माद्द-क्षिणभागे वीर्यं श्रुतेरभिप्रेतं भवति तल्माल्लोकेऽपि सर्वेषु व्यापारेषु दक्षिणहस्तस्यैव वीर्यातिशय उषलभ्यते । किंच, आदित्यो मेरूं प्रदक्षिणी करोति तदप्यत्रानुसृतं भवति ।
कल्पः—“उदुत्तममिति त्शिक्यपाशमुन्मुच्य” इति । पाठस्तु—
उदुत्तमं वरुणेति । हे वरुणोत्तममुत्तमाङ्गे शिरसि स्थापितं त्वदीयं पाशमु-(मस्मदस्मत्त उ) त्कृष्य श्रथाय विनाशय । अधममधमाङ्गे स्थापितं पादप्रदेशे स्थापितं पाशमवकृष्य विनाशय । मध्यमप्रदेशे स्थापितं पाशं विच्छेदय । अथ पाशत्रयमिन, शानन्तरं हे आदित्य सूर्यसदृश वरुण वयमनागसः पापरहिताः सन्तस्तव व्रते त्वदीये कर्मणि अदितयेऽखण्डितत्वाय स्याम योग्या भवेम ।
अनेन मन्त्रेण शिक्यपाशोन्मोकमभिप्रेत्य मन्त्रगतस्य व णपाशस्य प्रसंङ्गं दर्शयति—
“शुनःशेषमाजीगर्ति वरुणोऽगृह्‍णात्स एतां वरुणीमपश्यत्तया वै स आत्मानं वरुणापाशादमुञ्‍चद्‍रुणो वा एतं गृह्‍णाति य उखां प्रतिमुञ्‍चत उदुत्तमं

[[1864]]

वरुणपाशमस्मदित्याइऽऽत्मानमेवैतया वरुणपाशान्मुञ्‍चति” [सं. का. ५ प्र. २ अ. १] इति।
शुनःशेषो नाम ऋषिः स चाजीगर्तस्य पुत्रस्तं कदाचिद्वरुणोगृह्‍णाद्गहीत वान् वरुणगृहीतत्वं च जलोदरव्याधिनाऽभिव्यज्यते । स च शुनःशेषस्त त्परि हारायोदुत्तम-मित्येतां वारुणीमृचमपश्यत् । ततस्तयैवर्चा स शुनःशेषः स्वात्मानं पाशान्मोचितवान् । अतोऽत्रापि यो यजमान उखां प्रतिमुञ्‍चते योऽयं वरुण गृहीतः संस्तत्परिहारायोदुत्तम-मित्यनया शिक्यपाशमुन्‍मुच्य तन्मन्त्रप्रसादेन वरुण पाशान्मुक्तो भवति ।
कल्पः—“आ त्वाऽहार्षमित्याहृत्य” इति । पाठस्तु—
आ त्वाऽहर्षमिति । हेऽग्‍ने त्वामाहार्षमाहृतवानस्मि । त्वं चोखाया अन्तर भृरवस्थितोऽसि । अविचाचलिरत्यन्तं चलनरहितो ध्रुवस्तिष्ठ स्थिरस्तिष्ठ । सवां विशः प्रजास्त्वां वाञ्छन्तु । अस्मिन्यजमाने राष्ट्रमधिश्रयाधिकं स्थापय ।
अस्य मन्त्रस्य प्रथमपादे वह्नेराहरणं प्रसिद्धमेव प्रतीयत इति दर्शयति—
“आ त्वाऽहार्षमित्याहाऽऽ ह्येनँ हरति” (सं. का. ५ प्र. २ अ. १) इति। द्वितीयपादेऽन्वयव्यतिरेकाम्यां प्रतिष्ठा सिध्यतीत्याह—
“ध्रुवस्तिष्ठाविचाचलिरित्याह प्रतिष्ठित्यै” (सं. का. ५ प्र. २ अ. १) इति। तृतीयपादे प्रजासमृद्धिं चतुर्थपादे राज्यस्थैर्यं च क्रमेण दर्शयति—
“विशस्त्वा सर्वा वाञ्छन्त्वित्याह विशैवैनँ समर्धत्यस्मिन्नाष्ट्रमधि श्रयेत्याह राष्ट्रमेवास्मिन्ध्‍रुवमकः” [सं. का. ५ प्र. २ अ. १] इति।
विशा प्रजया । एनं यजमानम् । अस्मिन्यजमाने । अकः करोति ।
चतुर्थपादपाठकाले यजमानविषयं काम्यं मनसा ध्यानं विधत्ते—
“यं कामयेत राष्ट्रँ स्यादिति तं मनसा ध्यायेद्राष्ट्रमेव भवति” [सं. का. ५ प्र. २ अ. १] इति।
यं यजमानमुद्दिश्य राज्यमस्त्विति कामयेताध्वर्युस्तं चतुर्थपादोच्‍चारणकाले ध्यायेत् ।

[[1865]]

कल्पः— “उपतिष्ठते बृहन्‍नुषसामूर्ध्वो अस्थात्” इति । पाठस्तु—
अग्रे वृहन्निति । अयमाग्निर्बृहन्‍नुषसामग्र उषसां मुख ऊर्ध्वोऽस्थात्, अग्निहोत्रादौ बोध्यमान उत्तिष्ठति । ज्योतिषा स्वकीयेन तेजसा तमसो निर्जग्मिवान्निर्गतः सन्नागात् । कीदृशोऽग्‍निः । रुशता तमो हिंसता भानुना रश्मिना स्वङ्गः शोभनशरीरः । किंच जात उत्पन्नमात्र एव विश्व सद्मानि सर्वाणि स्थानानि आप्राः स्वकीयेन तेजसा सर्वत्र पूरित-वान्।
अस्य मन्त्रस्य प्रथमार्धे भागत्रयं क्रमेण व्याचष्टे—
“अग्रे बृहन्‍नुषसामूर्ध्वो अस्थादित्याहाग्रमेवैनँ समानानां करोति निर्जग्मिवा-न्तमस इत्याह तम एवास्मादप हन्ति ज्योतिषाऽऽगादित्याह ज्योतिरेवास्मिन्दधाति” (सं. का. ५ प्र. २ अ. १) इति।
कल्पः—“सीद त्वं मातुरस्या उपस्थ इति तस्यां चतुसृभिरुख्यं सादयति” इति।
औदुम्बर्या (रा) सन्द्याः प्रकृतत्वात्सैव तस्यामिति परामृश्यते ।
तत्र प्रथमामाह—
सीद त्वमिति । हेऽग्‍ने त्वं मातृसमानाया अस्या आसन्द्या उखाया उपस्थ उत्सङ्गे सीदोपविश । कीदृशस्त्वं, विश्वानि वयुनानि सर्वाञ्ज्ञानोपायान्विद्वान । एनामुखामर्चिषा त्वदीयदीप्‍त्या मा शूशुचोऽत्यन्तं मा दपिय । तपसा संतापेनापि माऽभिशूसुचः । अर्चिः कारणं, तपः कार्यम् । कारणेनैष ( नेषत् ) तापो भवति । कार्येण तु भूयान्, तदुभयं मा कुर्वित्यर्थः । अस्यामुखायामन्तः शुक्रज्योतिर्निर्मेलप्रकाशः सन्विभाहि विशेषेण दीप्यस्व । अथ द्वितीयामाह—
अन्तरग्‍ने रुचेति । हेऽग्‍ने उखायै तस्या उखाया अन्तर्मध्ये स्वे सदने स्वकीये स्थान रुचा दीप्‍त्या युज्यस्व । हे जातवेदस्त्वं तस्य उखायाः शिवो भव सुखप्रदो भव । किं कुर्वन्हरसा तेजसा तपञ्ज्वलन् । अथ तृतीयामाह—

[[1866]]

शिवो भूत्वेति । हेऽग्‍ने मह्यं मदर्थं शिवः शान्तो भूत्वाऽथो अनन्तरं त्वं शिवः सीद सर्वान्प्रति शान्तः सन्‍नुपविश । सर्वा दिशः शान्ताः कृत्वेहास्यामुखायां स्वां योनिं स्वकीयं स्थानमासद आगत्योपविश । अथ चतुर्थीमाह—
हँस शुचिषदिति । हन्ति स्वयमाहवनीयादिदेशेषु गच्छतीति वा वैरिणं हिनस्ती-ति वा हंसोऽयमग्‍निः । शुचौ यजने सीदतीति शुचिषत् । यजमानं वासयतीति वसुः । अन्तरिक्षे धूमज्वालारूपेण सीदतीत्यन्तरिक्षसत् । होता देवानामाह्वाता । वेद्यां यज्ञसं-बन्धिन्यां सीदतीति वेदिषत् । अतिथिर्दुरोणसदतिथिसमानः सन्दुरोणेषु यजमानगृहेषु सीदतीति दुरोणसत् । नृषु मनुष्येषु जठराग्निरूपेण सीदतीति नृषत् । वरे श्रेष्ठे श्रोत्रिय-गृहे सीदतीति वरसत् । ऋते यज्ञे तन्निष्पादकत्वेन सीदतीति ऋतसत् । व्योमन्याकाशे सूर्यरूपेण सीदतीति व्योमसत् । अप्सु वृष्टिधारारूपासु वैद्युतरूपेण जायते प्रादुर्भवती-त्यब्‍जाः । गोकार्ये घृते ज्वालारूपेण जायते व्यज्यत इति गोजाः । ऋतार्थं यज्ञार्थमेव जातत्वादृतजाः । अद्रो पर्वते दावानलरूपेण जायत इत्याद्रिजाः । ईदृशोऽग्निर्बृहदृतं प्रौढमग्‍निचयनोपेतं यज्ञं निष्पादयत्विति शेषः ।
एतन्मन्त्रसाध्यमग्‍निस्थापनं विधत्ते—
“चतसृभिः सादयति चत्वारि छन्दाँ सि छन्दोभिरेव” (सं. का. ५ प्र. २ अ. १) इति।
सादयतीत्यनुवर्तते । सीद त्वं मातुरित्यादिभिश्चतसृभिरौदुम्बर्यामुख्याग्‍निं स्थापयेत। छन्दोभिरेव स्थापितवान्भवति ।
हँस इत्यादिकायामुत्तमायामृचि च्छन्दोविशेषं प्रशंसति—
अतिच्छन्दसोत्तमया वर्ष्म वा एषा छन्दसां यदतिच्छन्दा वर्ष्मैवनैँ समानानां करोति” (सं. का. ५ प्र. २ अ. १) इति।
“अतिच्छन्दस्यन्यच्छन्दसामन्तर्भावात्सर्वेषामन्येषां छन्दसामियमतिच्छन्दा ऋक्श-रीरम् । अ (य) त ईदृश्योत्तमया सादनेनैनं यजमानं समानानामन्येषां पुरुषाणां शरीर-स्थानीयमेव करोति, तस्मादनयोत्तमया सादयति ।

[[1867]]

अत्रोत्तमायां ये बहवः सच्छब्दाः शुचिषदित्यादयस्तान्प्रशंसति—
“सद्वती भवती सत्त्वमेवैनं गमयति” (सं. का. ५ प्र. २ अ. १) इति।
ऋचो बहुभिः सच्छब्दैरुपेतत्वेनैनं यजमानं सत्त्वं चिरकालावस्थत्वं गमयति प्रापयति । अत्र विनियोगसंग्रह—
विष्णोश्चतुर्भिराक्रामेदक्रन्देत्यनुवक्त्यथ ।
अग्‍ने चतुर्भिरावृत्त उदू पाशं विमुञ्चति ।।
आ त्वोख्यमाहरेदग्रेऽभ्युपस्थाय चतुष्टयात् ।
सीदेत्यादेस्तथाऽऽसन्द्यां सादयेत्षोडशोदिताः ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
प्रथमोऽनुवाकः ।। १ ।।