११

( अथ चतुर्थकाण्डे प्रथमप्रपाठके एकादशोऽनुवाकः ) ।
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑।
स इद्दे॒वेषु॑ गच्छति। सोम॒ यास्ते॑ मयो॒भुव॑
ऊ॒तयः॒ सन्ति॑ दा॒शुषे॑। ताभि॑र्नोऽवि॒ता भ॑व।
अ॒ग्‍निर्मू॒र्धा भुवः॑ । त्वं नः॑ सोम॒ या ते॒ धा-
मा॑नि। तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दयात्। अचि॑त्ती॒ यच्‍च॑-
कृमा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पुरुष॒त्वता
[ १ ] दे॒वेषु॑ च सवि॒तर्मानु॑षेषु च॒ त्वं नो॒ अत्र
सुवता॒दना॑गसः । चो॒दयि॒त्री सू॒नृता॑नां॒ चेत॑-
न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती पा-
वी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्‍नी॒
धियं॑ धात् । ग्नाभि॒रच्छि॑द्रँ शर॒णँ स॒जोषा॑

[[1852]]

दुरा॒धर्ष॑ गृण॒ते शर्म॑ यँसत् । पू॒षा गा
अन्व॑तु नः षू॒षा र॑क्ष॒त्वर्त॑तः । पू॒षा वाजँ॑
सनोतु नः । शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत्
[ २ ] विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒
हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह
रातिर॑स्तु । ते॑ऽवर्धन्त॒ स्व॑तवसो महित्व॒नाऽऽ
नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ । विष्णु॒र्यद्धा-
ऽऽव॒द्वृषणं मद॒च्युतं॒ वयो॒ न सदि॒॑न्नधि॑ ब॒-
र्हिषि॑ प्रि॒ये । प्र चि॒त्रम॒र्कं गृण॒ते तुराय॒ मा-
रु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहाँ॑ सि॒ स-
ह॑सा॒ सह॑न्ते [ ३ ] रेज॑ते अग्ने पृथि॒वी
म॒खेभ्यः॑ । विश्वे॑ दे॒वा विश्वे॑ दे॒वाः । द्यावा॑
नः पृथि॒वी इ॒मँ सि॒घ्‍रम॒द्य दि॑वि॒स्पृश॑म् ।
य॒ज्ञं दे॒वेषु॑ यच्छताम् । प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑-
सीमिर्गी॒र्मिः कृ॑णुध्वँ॒ सदने ऋ॒तस्य॑ ।
आ नो॑ द्यावापृथिवी॒ दैव्येन॒ जने॑न यातं॒ म-
हि॑ वां॒ वरूथ॑म्। अ॒ग्‍निँ स्तोमे॑न बोधय
समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दध-
त् । स ह॑व्य॒वाडम॑र्त्यं उ॒शिग्दू॒तश्‍चनो॑हितः ।
अ॒ग्‍निर्धि॒या समृ॑ण्वति । शं नो॑ भवन्तु॒ वा
जे॑वाजे [४] ।।
(पू॒रु॒ष॒त्वता॑ यज॒तं ते॑ अ॒न्यत्सह॑न्ते॒ चनो॑हितो॒ऽष्टौ च॑)

[[1853]]

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
प्रथमप्रपाठके एकादशोऽनुवाकः ।। ११ ।।

य॒ञ्जा॒न इ॒माम॑गृभ्णन्दे॒वस्य॒ सं ते॒ वि पाज॑सा॒ वस॑वस्त्वा॒ समा॑स्त्वो॒र्ध्वा अ॒-
स्याऽऽकू॑तिं॒ यद॑ग्ने॒ यान्यग्‍ने॒ यं य॒ज्ञमेका॑दश ।। ११ ।।
यु॒ञ्जा॒नो वर्म॑ च स्थ आ॒दित्यास्त्वा॒ भार॑ती॒ स्वाँ अ॒हँ
षट्च॑त्वारिँशत् ।। ४६ ।।
हरि॑ ॐ ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
प्रथमः प्रपाठकः ।। १ ।।

[अथ चतुर्थकाण्डे प्रथमप्रपाठक एकादशोऽनुवाकः]।
दशमेऽनुवाके वहूनिधारणमुक्तम्। अथैकादशे चातुर्मास्यगते वैश्वदेवाख्ये प्रथमपर्वणि विहितानां हविषां याज्यानुवाक्या उच्यन्ते।
तत्र प्रथमस्याऽऽज्यभागस्य चोदकप्राप्‍तामपवदितुमन्यां पुरोनुवाक्या-माह—
अग्ने यं यज्ञमिति। हेऽग्नेऽध्वरं हिंसारहितं यं यज्ञं विश्वतः परिभूरसि सर्वतः प्राप्तवानसि, स इत्स एव यज्ञो देवेषु गच्छति।
अथ द्वितीयस्याऽऽज्यभागस्य पुरोनुवाक्यामाह—
सोम यास्त इति । हे सोम दाशुषे हविर्दत्तवते यजमानाय मयोभुवः सुखं भावयितुस्ते तव या ऊतयो रक्षणप्रकाराः सन्ति ताभिरूतिभिर्नोऽस्माकमविता रक्षको भव।
अथाऽऽग्नेयमष्टाकपालं निर्वपतीत्यस्मिन्हविषि याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति–
अग्निर्मूर्धेति । अग्‍निमूर्धेति पुरोनुवाक्या । भुवो यज्ञस्येति याज्या। एत-च्चोभयमैष्टिके होत्रकाण्डे समाम्‍नातं, तच्‍चास्माभिरुदाहृत्य चक्षुषी वा एते यज्ञस्येत्य-स्मिन्ननुवाके व्याख्यातम्।

[[1854]]

अथ सौम्यं चरुमित्यस्मिन्हविषि याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति—
त्वं न सोमेति। त्वं नः सोम विश्वत इति पुरोनुवाक्या। या ते धामानीति याज्या। एतच्योभयं स प्रत्‍नवन्नि काव्येत्यनुवाके व्याख्यातम्।
अथ सावित्रं द्वादशकपालमित्येतस्य हविषः पुरोनुवाक्यामाह—
तत्सवितुर्वरेण्यभिति। यः सवितास्माकं बुद्धीः प्रेरयति तस्य सवितुर्देवस्य वरणीयं भर्गस्तेजो ध्यायेम। तत्रैव याज्यामाह—
अचित्ती यदिति। पूरुषस्य भावः पूरुषत्वं पुरुषत्वमेव पूरुषत्वता। सा च प्रभूत्यतिवहुला देहेन्द्रियादिसंघातेषु पुरुषोऽहमस्मीतितादात्म्याभिधानभ्‍रान्तिरत्यन्तं दृढेत्यर्थः। तथा सत्यचित्ती कर्तव्याकर्तव्योरज्ञानेन दीनैदक्षैर्विषयलम्पटतया दीनत्वं प्राप्तैः स्वस्वव्यापारकुशलैरिन्द्रियैर्दैव्य जने देवतासंबन्धिनि शरीरे यच्‍चकृम यत्पापं वयं कृतवन्तः, हे सवितस्त्वं देवेषु मनुष्येषु चात्रास्मिन्कर्मणि नोऽस्माननागसः पापरहिता यथा भवामस्तथा सुवतात्प्रेरय।
अथ सारस्वतं चरुमित्यस्य पुरोनुवाक्यामाह—
चोदयित्रीति। स्नृतानां प्रियवाक्यानां [णा] चोदयित्री प्रेरयित्री सुमतीनां शोभनबुद्धीनामस्माकं कृत्यं चेतन्ती जानन्ती सरस्वती यज्ञमिमं दधे धारितवती।
तत्रैव याज्यामाह—
पावीरवी कन्येति। सरस्वती धियं धादस्मदीये कर्मणि सावधानां बुद्धिं धारयतु । कीदृशी, पावीरवी पातॄन्वीरांश्च वयति जनयतीति पावीरवी । कन्या कमनीया। चित्रायुर्विचित्रं जीवनं यस्याः सा। वीरपत्‍नी वीराणां पालयित्री । ग्नाभिश्छन्दोभिर्युक्ता सरस्वती सजोषा यजमानेन समानप्रीतिः सतीगृणते स्तुवते यजमानाय शर्म यंसत्सुखं प्रयच्छतु । कीदृशं शर्म, अच्छिद्रमविछिन्नं शरण रक्षकं दुराधर्षमन्यैर्धर्षयितुमशक्यम् ।
अथ पौष्णं चरुमित्यस्य पुरोनुवाक्यामाह—
पूषा गा अन्वेत्विति। अयं पूषा नोऽस्माकं गा अन्वेतु रक्षणाय पृष्ठतो गच्छतु। किंचायं पूषाऽर्वतोऽश्वान्‍रक्षतु। पूषा नोऽस्मभ्यं वाजमन्नं सनोतु संपादयतु। तत्रैव याज्यामाह—

[[1855]]

शुक्रं ते अन्यदिति। हे पूषंस्ते तव शुक्रं शुद्धस्वरूपमन्यदनेकप्रकारम्, उदयकाले रक्तवर्णं रूपमन्यत्, मध्याह्‍नकाले श्वेतवर्णं रूपमन्यत्, इत्येवमनेक-प्रकारत्वम् । तथा ते तव यजतं पूजनमप्यन्यत्। प्रातःकाले मित्रस्य चर्षणीधृत इत्यादिभिर्मन्त्रैः पूज्यसे। मध्याह्‍ने त्वा सत्येनेत्यादिभिः । तथा त्वया निष्पादिते अहनी अपि, विषुरूपे नानारूपे। अहःशब्दश्छत्रिन्यायेन रात्रिमप्युपलक्षयति। अहः प्रकाशोपेतं रात्रिस्तमोयुक्तेति नानारूपत्वम् । एवं हि चित्रकार्यकृदपि त्वं द्यौरि-वासि। आकाशं यथैकरूपं तद्वत्त्वमपि पक्षपातराहित्यादेकरूपोऽसि । मीयन्ते पदार्था याभिश्चत्तवृत्तिभिस्ताश्चित्तवृत्तयो मायाः । कव्यदानवाचिना च स्वधाशब्देन कृत्स्नमप्यन्नमुपलक्ष्यते । हे स्वधावोऽन्नवन्विश्वा हि मायाः सर्वां अपि अन्यदीयचित्त-वृत्तीरवसि रक्षसि । हे पूषन्निह कर्मणि ते तव रातिर्भद्राऽस्तु फलप्रदानं समीचीनं भवतु ।
अथ मारुतं सप्तकपालमित्यस्य पुरोनुवाक्यामाह—
तेऽवर्धन्तेति। तवो बलं, स्वं, स्वाधीनं तवो येषां ते स्वतवसः। तादृशास्ते मरुतो महीत्वना महत्त्वेन स्वकीयेनावर्धन्त । ते मरुतो नाकं स्वर्गमातस्थुः प्राप्‍तवन्तः। उरु सदश्चक्रिरे स्वर्गे यजमानाय स्थानं कृतवन्तः। वृषणं कामानां वषंकं, मदच्युतं हर्षक्षारकमत्यन्तं हर्षकारणमित्यर्थः। तादृशं यद्वर्हिर्मरु-त्संबन्धि कर्म विष्णुर्ह विष्णुरेवाऽऽवत्पालितबांस्तस्मिन्प्रिये बर्हिषि मरुतोऽधिष्ठाय वयो न वय इव सीदन्। यथा पक्षिणः सायंकाले वृक्षे सीद्रन्ति तद्वदेव तिष्ठन्तीति। तत्रैव याज्यामाह—
प्र चित्रमर्कमिति। हे ऋत्विग्यजमानाश्चित्रमर्कं विविधमर्चनं मारुताय मरुत्समूहाय प्रभरध्वं प्रकर्षेण संपादयत। कीदृशाय मारुताय, गृणते हविर्दानाय गृणते, तुराय शीघ्रमामिने(णे), स्वतवसे स्वाधीनबलाय। हे ऋत्विग्यजमाना ये भवन्तः सहसा मरुतां बलेन सहांसि वैरिबलानि सहन्तऽभिभवन्ति ते यूयं भरध्व-मिति पूर्वत्रान्वयः । हेऽग्ने त्वमेव तत्पश्येत्यध्याहारः। किं द्रष्टव्यं तदाश्चर्य-

[[1856]]

मिति तदुच्यते इयं पृथिवी मखेभ्यो मारुतयज्ञेभ्यो रेजते कम्पते। कथं नामैतदीया यज्ञा निर्विघ्‍नेन समाप्यन्त इति प्रयत्‍नं करोति एतदिदमिति।
अथ वैश्वदेवीमामिक्षामित्येतस्मिन्हविषि याज्यानुवाक्ययोः प्रतीके दर्शयति—
विश्वे देवा इति। विश्वे देवा ऋतावृध इति पुरोनुवाक्या। विश्वे देवाः शृणुतेति याज्या। एतच्‍चोभयं नवोनवो भवतीत्येतस्मिन्ननुवाके व्याख्यातम् ।
द्यावापृथिव्यमेककपालमित्यस्य पुरोनुवाक्यामाह—
द्यावा नः पृथिवीति। द्यावापृथिवी द्युदेवता पृथिवीदेवता चेत्युभे अद्या-स्मिन्दिने नोऽस्मदीयमिमं यज्ञं देवेषु समर्पयेताम्। कीदृशं यज्ञं, फलस्य साधकं, दिविस्पृशम् अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठत इति न्यायेन स्वर्गस्पर्शयुक्तम्। तत्रैव याज्यामाह—
प्र पूर्वजे पितरेति। प्रपूर्वजे प्रथमोत्पन्ने द्यावापृथिव्यौ पितरा मातापितृ-समाने। ‘द्यौः पिता । पृथिवी माता’ इति श्रुत्यन्तरात् । हे ऋत्विग्यजमाना ऋतस्य सदने यज्ञस्य स्थाने नव्यसीभिरतिशयेन नूतनाभिर्गीर्भिर्मन्त्ररूपाभिर्वाग्भिः कृणुध्वं द्यावापृथिव्योः स्तुतिं कुरुध्वम् । हे द्यावापृथिव्यौ दैव्येन जनेन देवसंबन्धिना पुरुष-समूहेन सह नोऽस्मान्प्रत्यायातम्। वां युवयोः संबन्धि त्ररूथं यज्ञगृहं महि पूज्यम् । अथ तत्रैव स्विष्टकृतः पुरोनुवाक्यामाह—
अग्निँ स्तोमेनेति । हे यजमान त्वं समिधानोऽग्निं दीपयन्‍नमर्त्यं मरण-रहितमग्निं स्विष्टकृद्रूपं स्तोमन स्तोत्रेण तोषयित्वाऽनेन प्रकारेण बोधय। केन प्रकारे-णेति तदुच्यतेनोऽस्मदीयानि हव्या हवींषि देवेषु दधत्स्थापयेति। तत्रैव याज्यामाह—
स हव्यवाडिति। स्विष्टकृद्रूपोऽग्निर्धिया करुणायुक्तेन चेतसा समृण्वति सम्यगिह प्राप्‍नोतु । कीदृशोऽग्निः । हव्यं वहतीति हव्यवाट् । अमर्त्यो मरणरहितः । उशिगनुग्रहपूर्वमस्मान्कामयमानः । दूतो देवानामाज्ञाकारी । चनोहिताः, चनसां मनुष्याणां यजमाननां हितोऽभष्टिकारी।

[[1857]]

अथ वाजिनो यजतीति विहिते कर्मणि याज्यानुवाक्ययोः प्रतीके दशंयति-
शं नो भवन्न्विति। शं नो भवन्तु वाजिन इति पुरोनुवाक्या। वजेवाजेऽवत वाजिन इति याज्या । एतच्‍चोभयं देवस्याहँ सवितुः प्रसव इत्यनुवाके व्याख्यातम् । अत्र विनियोगसंग्रहः—
अथ याज्या वैश्वदेवे चातुर्मास्यादिपर्वणि।
अग्ने सो अनुवाक्ये ते अग्नीषोमाज्यभागयोः।।
अग्निर्भुंवस्तथाऽऽग्नेये त्वं नो या ते च सौमिके।
तत्सेति युग्मं सावित्रे चोद सारस्वते तथा।।
पूषा पौष्णो मारुते ते विश्वे द्वे वैश्वदेविके।
द्यावा द्यावापृथिव्ये स्यादग्‍निं स्विष्टकृतो यजेः।
शं वाजे वाजिने मन्त्रा द्वात्रिंशतिरुदीरिताः।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशेकृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके
एकादशोऽनुवाकः ।। ११ ।।

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।।
पुमार्थांश्‍चतुरो देवाद्विद्यातीर्थमहेश्वरः ।। १ ।।

इति श्रीमद्विद्यातीर्थमहेश्‍वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थकाण्डे प्रथमः प्रपाठकः
।।१।।

[[1858]]