०९

(अथ चतुर्थाष्टके प्रथमप्रपाठके नवमोऽनुवाकः)।
आकू॑तिमा॒ग्निं प्र॒युजँ॒ स्वाहा॒ मानो॑ मे॒धा-
म॒ग्निं प्र॒युजँ॒ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निं
प्र॒युजँ॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्‍निं प्र॒युजँ॒
स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ऽग्‍नये॑ वैश्वा-
न॒राय॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्भर्तो॑ वृणीत
स॒ख्यं विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्‍नं वृ॑णति
पु॒ष्यसे॒ स्वाहा॒ मा सु भि॑त्था॒ मा सु रि॑षो॒
दृँह॑स्व वी॒डय॑स्व॒ सु । अम्ब॑ धृष्णु वी॒रय॑-
स्व ( १ ) अ॒ग्‍निश्‍चे॒दं क॑रिष्यथः । दृँह॑-
स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या

[[1831]]

स्व॒धया॑ कृताऽसि॑ । जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु
ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् । मि-
त्रै॒तामु॒खां त॑पै॒षा मा भे॑दि । ए॒तां ते॒ परि॑
ददा॒म्याभि॑त्त्यै । द्‍व्र॑न्नः सर्पिरा॑मुतिः प्र॒त्‍नो
होता॒ वरे॑ण्यः। सह॑सस्पु॒त्रो अद्भु॑तः । पर-
स्या॒ अधि॑ संवतोऽव॑राँ अ॒भ्या [ २ ]
त॒र॒ । यत्रा॒हमस्मि॒ ताँ अ॑व । पर॒मस्याः॑
परा॒वतो॑ रो॒हिदश्व॑ इ॒हाऽऽ गहि । पु॒री॒ष्यः॑
पुरुप्रि॒योऽग्‍ने॒ त्वं त॑रा॒ मृधः॑ । सीद॒ त्वं मा॒-
तुर॒स्या उ॒पस्थे॒ विश्वा॑न्यग्‍ने वयुना॑नि वि॒-
द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒ऽभि शू॑शुचो॒-
ऽन्तर॑स्याँ शु॒क्रज्यो॑तिर्वि भा॑हि । अ॒न्तर॑ग्‍ने
रु॒चा त्वमु॒खायै॒ सद॑ने स्वे । तस्या॒स्त्वँ ह
र॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व । शि॒वो भू॒त्वा
मह्य॑मग्‍ने॑ऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः
कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒हाऽस॑दः
[३] ।।
( वी॒रय॒स्वाऽऽतप॑न्विँश॒तिश्च॑ ) ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
प्रथमप्रपाठके नवमोऽनुवाकः ।। ९ ।।

(अथ चतुर्थकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः)।
अष्टमेऽनुवाक आप्रियो याज्यानुवाक्याः प्रोक्ताः । अथ नवमेऽनुवाकेऽ-ग्न्युत्पादनमभिधत्ते—

[[1832]]

कल्पः—“यत्प्रग्दीक्षाहुतीभ्यस्तत्कृत्वाऽऽकूत्यै प्रयुजेऽग्नये स्वाहेति पञ्चाऽ-ऽध्वरिकीर्हत्वाऽऽकूतिमग्‍निमिति षडाग्‍निकीर्विश्वे देवस्य नेतुरिति पूर्णाहुतिं सप्तमीम्’ इति। पाठस्तु—
आकूतिमग्निमिति । आकूतिः संकल्पोऽस्मदीयानुष्ठानविषयस्तां प्रयुजं प्रेरकमग्‍निमुद्दिश्य स्वाहुतमिदमस्तु । अनुष्ठेयस्मरणसाधनं यन्मनः स्मृतस्य धारणसा-मर्थ्यरूपा या मेधा तदुभयं प्रति प्रयुजं प्रेरकमद्दिश्य स्वाहुतमिदमस्तु । अविज्ञातस्या-नुष्ठानस्य ज्ञानसाधनं यच्चित्तं यदपि तेन चित्तेन ज्ञातु ( तु ) मनुष्ठानं यदुभयं प्रति प्रेरकमग्‍निमुद्दिश्य स्वाहुतमिदमस्तु । वाचो मन्त्रपाठरूपाया विधृतिर्विधारणं तां प्रति प्रेरकमग्‍निमुद्दिश्य स्वाहुतामिदमस्तु । मनवे मनुष्याणां जनकाय प्रजापतये स्वाहुत-मिदमस्तु । विश्वेषां नराणामनुग्रहीतृत्वेन वैश्वानरायाग्‍नये स्वाहुतमिदमस्तु । विश्वे विश्वात्मकस्य नेतुर्जगन्निर्वाहकस्य देवस्य सख्य मनुग्रहं मर्तो मरणवान्यजमानः सहसा वृणीत याचेत । तच्च मुख्यमद्दिशेन स्तोत्रेण लभ्यते । विश्वे विश्वात्मकस्य रायो धनस्येषुध्यसीशिषे त्वं नियन्ताऽसीति स्तुत्यां पुष्यसे यज्ञपोषणाय द्युम्नं धनं वृणीत याचेत । इदं हविस्तव हुतमस्तु ।
आकूतिमित्यादिभिर्वैश्वानराय स्वाहेत्यन्तैर्मन्त्रैः साध्यं होमं विधत्ते—
“षड्‍‍भिदर्क्षियति षड्‍वा ऋतव ऋतुभिरेवैनं दक्षियति” [सं. का. ५ प्र. १ अ. ९] इति । होमेन दीक्षाख्यं संस्कारं कुर्यादित्यर्थः ।
विश्वे देवस्य नेतुरिति पूर्णाहुतिं सप्तमीमिति विधिमभिप्रेत्य विधेयगतां सप्तसंख्यां प्रशंसति ।
“सप्‍तभिर्दीक्षयति सप्‍त छन्दाँ सि छन्दोभिरेवैनं दीक्षयति” (सं. का. ५ प्र. १ अ. ९) इति।
गायत्री त्रिष्टुब्‍जगतीत्यादिमन्त्रोक्तेषु च्छन्दःस्वष्टस्वन्त्ययोरुष्णिक्ककुभोरेकी-कारेण च्छन्दसां सप्‍तत्वम् ।
विश्वे देवस्येतिमन्त्रे यजनुष्टुप्छन्दो यच्‍चास्य मन्त्रस्योत्तमत्वं चष्मरूपत्वं तदुभयं प्रशंसति—

[[1833]]

“विश्वे देवस्य नेतुरित्यनुष्टुभोत्तमया जुहोति वाग्वा अनुष्टुप्‍तस्मात्प्राणानां वात्तगुमा” [सं. का. ५ प्र. १ अ. ९] इति।
यस्मादिहानुष्टुब्वाग्रूपा सर्वमन्त्रेष्वन्त्या च तस्माल्लोकेऽपि प्राणानां चक्षुरा-दीन्द्रियाणां मध्ये वागुत्कृष्टा । वाचा हि विद्वत्सभायां राजसभायां च पूज्यो भवति ।
अशेषजगद्व्यवहारसमर्थत्वेन मन्त्रौ प्रस्तौति।
“एकस्मादक्षरादनाप्तं प्रथमं पदं तस्माद्यद्वाचोऽनाप्तं तन्मनुष्या उपजीवन्ति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः प्रजापतेराप्‍त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा असृजत प्रजानाँ सृष्ट्यै” (सं. का. ५ प्र. १ अ. ९) इति।
यस्मादस्यामृचि प्रथमं पदं प्रथमः पाद एकेनाक्षरेण न्यूनं तस्मान्मनुष्या वाचः स्वरूपमनाप्‍तमसंपूर्णमुपजीवन्ति । मूलाधारादुत्पन्नो वायुर्मूर्धपर्यन्तं प्रसृता वक्‍त्रे तत्तत्स्थानेषु वर्णानुत्पादयति । तदिदं वर्णाभिव्यक्तिलक्षणं वाचश्चतुर्थं पदम् । पूर्वाणि तु त्रीणि पदानि कण्ठादध एव गृढत्वान्नाभिव्यञ्जयितुं शक्यन्ते । तथा चाऽऽन्नयते—“गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति” इति। तुरीयं वैखर्याख्यवाचो रूपम् । एते नासंपूर्णे वाग्व्यवहारसामर्थ्थे दर्शितम् । किंचेय-मृगुत्तरेषु पादेष्वक्षरसंपूर्णा । तेन सृष्टिपूर्णप्रजापतिसाम्यात्तत्प्राप्‍तये भवति । प्रथम-पादे यदक्षरऱ्यूनत्वं तेन सृष्टिशून्यजगद्वीजसाम्यात्तत्प्राप्‍तये भवति । हि यस्मान्नितरा-मूनात्प्रलीनविकारादुपादानात्प्रजा असृजत ।
कल्पः—“यत्प्राङ्‍मुष्टिकर्मणस्तत्कृत्वा शृणकुलायेन मुञ्जकुलायेन वौखां प्रच्छाद्य मा सु मित्था इति द्वाभ्यामाहवनीये प्रवृणक्ति” इति। तत्र प्रथमामाह—
मा सु मित्थेति । हे उखे त्वं मा भित्था भिन्ना मा भव । तदिदमाभिन्नत्वं सुष्टु कर्तव्यम् । तथा मा रिषः स्फुटितेनापि हिंसिता मा भव । तदेतदफुटनं सुष्टु कर्तव्यम् । सर्वात्मना द्वैधीभावो भेदः । लेशस्य पृथग्भावः स्फुटनं,

[[1834]]

तदुभयं तव मा भूदित्यर्श्चः । दृंहस्य भेदाभावाय दृढा भव । सुवीडयस्व स्फुठना-भावाय स्वाङ्गानि सुष्ठु दृढी कुरु । हे धृष्णु घर्षणयुक्ते हेऽम्ब मातृसदृशि वीरयस्व वीरवदाचर । अग्निश्च त्वं च मिलित्वेदमस्मदीयं कर्म करिष्यथः । अथ द्वितीयामाह—
दृँहस्य देवीति । हे पृथिवि देवि, मृत्कार्यत्वात्पृथिवीरूपत्वं, मन्त्रैर्निष्पा-द्यवाद्देवतात्वं, तथाविधे हे उखे स्वस्तये यजमानार्थं दृंहस्व दृढा भव । आसुरी माया शम्बराद्युसुरनिर्मितमायेव स्वधया कृताऽसि, कव्यप्रदानवाचिना स्वधाशब्देनान्नमात्र-मुपलक्ष्यते, अन्नेन निमित्तभूतेन तद्धेतुयागसिद्ध्यर्थेत्वं निष्पादिताऽसि । आसुरी माया यद्वदचिन्त्यरचनारूपं चित्रं वस्तु सहसा भूत्वा प्रतिभाति तद्वत्त्वमपि द्विस्तन-त्वादिरचनायुक्ता निष्पन्ना सीत्यर्थः । त्वन्मुखान्निष्पत्स्यमानमिदं हव्बं देवानां जुष्ठं प्रियमस्तु । त्वमप्यरिष्टा केनाप्यहिंसिता सत्यस्मिन्यज्ञ उदिह्युद्गता भव । अस्यामुखा-यां परितोऽङ्गारानोप्य तापनं विधत्ते—
“यदर्चिषि प्रवृञ्ज्याद्भूपमव रुन्धति यदङ्‍गारेषु भविष्यदङ्गारेषु प्र वृ-णक्ति भविष्यदेवाव रुन्धे भविष्यद्धि भूयो भूतात्” (सं. का. ५ प्र. १ अ. ९) इति।
यदि ज्वालायामुखां प्रतपेत्तदानीं यदस्य गृहे भूतं पूर्वे विद्यमानं धनमस्ति तदेव स्वाधीनं भवति, न तु भविष्यत् । यदि, अङ्गारेषु प्रतपेत्तदानीं गृहे भविष्यद-विद्यमानं धनं प्राप्‍नोति । हि यस्माज्‍जना भविष्यद्धनं भूताद्भूयोऽधिकं मन्यन्ते । न खलु कश्चिदपि भूतार्थं प्रति यतते भविष्यदर्थं तु सवोऽपि प्रयतते । अङ्गारेषु काष्ठै समिन्धनेन ज्वाला भाविनी । अतोऽङ्गाराणां भाविधनहेतुत्वं युक्तम् । वस्मिन्प्रताप-ने मा सु भित्था इत्यादिमन्त्रद्वयं विनियुङ्क्ते—
“द्वाभ्यां प्र वृणक्ति द्विपाद्यजमानः प्रतिष्ठित्यै” [सं. का. ५ प्र. १ अ. ९] इति।
कल्पः—“मित्रैतामुखां तपेति प्रदक्षिणमङ्गारैः परीन्धे” इति। पाठस्तु—

[[1835]]

मित्रैतामुखामिति । हे मित्रैतामुखां तप तप्‍तां कुरु । एषोखा मा भेदि मा भिद्यताम् । अभि ये भङ्गाबावार्थंमेतामुखां ते तव हस्ते परितो ददामि ।
देवतान्तरपरित्यागेन मित्रायैवोखायाः परिदाने कारणं दर्शयति—
“ब्राह्मण वा एषा यजुषा संभृता यदुखा सा यद्भिद्येताऽऽर्तिमार्छेद्याजमानो हन्येतास्य यज्ञो मित्रैतामुखां तपेत्याह ब्रह्म वै मित्रौ ब्रह्मन्नेवैनां प्रतिष्ठापयति नाऽऽ-र्तिमार्छति यजमानो नास्य यज्ञो हन्यते” [सं. का. ५ प्र. १ अ. ९] इति।
येयमुखा सैषा परब्रह्मस्वरूपेण वसवस्‍त्‍वा कृण्वन्वित्यादिना यजुषा संपा-दिता। परब्रह्मण उत्पन्नत्वाद्यजुषो ब्रह्मत्वम् । तथाविधेन यजुवोत्पन्नाया उखायाः—कदाचिदपि भेदो न युक्तः । कुलालेन निर्मितादयजुऽकाद्घटाद्विलक्षणत्वात् । एवं सति यदि कदाचित्प्रमादाद्भिद्येत तदानीं यजमानो म्रियेत यज्ञोऽपि विनश्येत् । मि-त्रायोखायाः परिदाने तु मित्रस्य परब्रह्मरूपत्वाद्ब्रह्मण्येवोखा प्रतिष्ठापिता भवति । ततो यजमानस्य यज्ञस्य च नास्ति हानिः ।
अथ भेदे सति प्रायश्चितं विधत्ते—
“यदि भिद्येत तैरेव कपालै सँ सृजेत्सैव ततः प्रायाश्चित्तिः” (सं. का. ५ प्र. १ अ. ९) इति।
षक्वाया उखाया भेदे तदीयैरेव कपालैमृंदन्तरं मिश्रीयत्वा पुनरप्युखां निष्पादयेत् । सैव पुनर्निष्पादितोखा ततो भेदरूपादपराधात्प्रायश्चिर्त्तिर्विमोचनहेतुः । पूर्व सामान्याकारेणोखायाः प्रतपनमाहवतीये विहितम् । अथ गतश्रियो विशेषं विधत्ते—
“यो गतश्रीः स्यान्मथित्वा तस्याव दध्यादभूतो वा एष स स्वां देवतामुपैति” [सं. का. ५ प्र. १ अ. ९] इति।
योऽग्निचयने प्रवृत्तो गतश्रीः शुश्रुवान्ग्रामणी राजन्यो वा भवेत्तस्य मथित-मग्निमुखायामवदध्यात् । न त्वाहवनीय उखायाः प्रवृञ्जनं कार्यम् । एष त्रयाणां

[[1836]]

गतश्रियां मध्येऽन्यतमो भूतो भूतिमानैश्वर्योपेतः । अतः प्रभुत्त्वात्स स्वकीयामेव मथितारिनरूपां देवतागुपैतुमर्हति न त्वाहवनीयदेवतान्तराम् ।
यस्तु गतश्रीः सन्पुनर्भूतिं कामयेत तस्य मथिताग्निमपोद्य पूर्ववत्प्रवृञ्जन-मपि विधत्ते—
“यो भूतिकामः स्याद्य उखायै संभवेत्स एव तस्य स्यादतो ह्येष संभवत्यषे वै स्वयंभूर्नाम भवत्येव” (सं. का. ५ प्र. १ अ. ९) इति।
आहवनीये प्रतप्तायामुखायां योऽग्निः संभवेत्स एव तस्य भूतिकामर्स्यं गत श्रियः कार्यो न तु मथितः । हि यस्मादत उखायामेष संभवति तस्मान्मथनापेक्षा मन्तरेण स्वयमेवोत्पन्नत्वादेष स्वयंभूरित्युच्यते । एवं सति यजमानो भवत्येव भूतिं प्राप्‍नोत्येव । यजमानद्वेषिणोऽध्वर्योः प्रकारान्तरं विधत्ते
“यं कामयेत भ्‍रातृव्यमस्मै जनयेयमित्यन्यस्तस्याऽऽहत्याव दघ्यात्साक्षादे-वास्मै भ्‍रातृव्यं जनयति” [सं. का. ५ प्र. १ अ. ९] इति।
यमुद्दिश्य शत्रुमस्मै जनयेयमिति कामयेताध्वर्युस्तस्यान्यतो गृहान्तरादिप्रदे-शादग्रिमानीयोखायां प्रक्षिपेत् । तथा सति विलम्बमन्तरेणैव भ्‍रातृव्यं जनयति ।
अथ कामनाविशेषेणान्यमग्निं विधत्ते—
“अम्बरीषादन्नकामस्याव दध्यादम्बरीषे वा अन्नं भ्‍रियते सयोन्येवान्नमव रुन्धे” [सं. का. ५ प्र. १ अ. ९] इति।
घृतादिना शाकादिभर्जनार्थे यल्लौकिकं लोहदिपात्रं तदम्बरीषं तस्मिन्प्रतप्ते घृतप्रक्षेषेण प्रौढा ज्वालोत्पद्यते । ततोऽग्निमाहृत्योखायामवदध्यात् । लोके हि तस्मिन्नम्बरीषे शाकादिकमन्नं धार्यते । अतः काम्यमानेनान्नेनैतस्याग्नेः समानयोनि-त्वाद्यजमानोऽन्नं प्राप्‍नोत्येव।
तदेवं प्रवृञ्जनप्रसंङ्गागतान्विधन्पिरिसमाप्य प्रकृतप्रवृञ्जनोपयुक्तं द्रव्यं विधत्ते—
“मुञ्चानव तधात्यूर्ग्वै मुञ्जा ऊर्जमेवास्मा अपि दधाति” (सं. का. ५ प्र. १ अ. ९) इति।

[[1837]]

शुष्कान्मुञ्जाख्यांस्तृणविशेषानुखायां प्रक्षिपेत् । महिष्यादिभिर्भक्ष्यत्वान्मुञ्जा ऊर्ग्रूपाः । अन्नमेव यजमानाय संपादयति ।
कल्पः—“दूब्रन्नः सर्पिरासुतिरिति तस्यां क्‍रुमुकमुल्लिखितं घृतेनाङ्क्त्वाऽ-वदधाति मुञ्जश्चि” इति । पाठस्तु—
द्‍ब्रन्नः सर्पिरिति । अत्रोत्पत्स्यमानोऽग्निरेतैर्विशषेणैः प्रशस्यते । द्रुशब्देन वृक्षा उच्यन्ते । “द्रुषदमित्याह । वनस्पतयो वै द्रु । वनस्पतीनामेवैतेन सूयते” इति श्रुत्यन्तरात् । द्रुशब्दाभिधेया वृक्षा अन्नं यस्यासौ द्‍ब्रन्नः । सर्पिरेवाऽऽहारत्वेन सूयते प्रक्षिप्यतेऽस्मिन्‍निति सर्पिरासुतिः । प्रत्‍नः पुरातनः । होता देवानामाह्‍वाता । वरेण्यो वरणीयः । सहसो बलस्य पुत्रः । मथनहेतुना बलेनोत्पद्यमानत्वात् । अद्‍भुत आश्चर्यरूपः ।
अनेन मन्त्रेण साध्यं क्‍रुमुकावधानं विधत्ते—
“अग्निर्देवेभ्यो निलायत स क्‍रुमुक्तं प्राविशत्क्‍रुमुकमव दधाति यदेवास्य तत्र न्यक्तं तदेवाव रुन्धे” [सं. का. ५ प्र. १ अ. ९] इति।
क्‍रुमुकमल्पं काष्ठशकलम् । न्यक्तं विलीनमग्निरूपम् । तत्र तस्मिन्‍नेव शकलेऽस्याग्‍नेर्यदेव रूपं न्यक्तं विलीनं तत्प्‍राप्‍नोति । चूर्णरूपं क्‍रुमुकमिति सूत्रका-रेणोक्तम् । अस्य क्‍रुमुकस्य घृताक्तत्वं विधत्ते—
“आज्येन सं यौत्येतद्वा अग्नेः प्रियं धाम यदाज्यं प्रियेणैवैनं धाम्‍ना समर्ध-यत्यथो तेजसा” [सं. का. ५ प्र. १ अ. ९] इति।
संयौति तत्क्‍रुमुकं संमिश्रयेत् । आज्यस्याग्निस्थानत्वम् “आ प्यायत। घुतयोनिरग्निः” इत्यादिमन्त्रवर्णाद्घृतेन ज्वालोत्पत्तेश्चावगन्तव्यम् । ज्वालेत्पत्तिरेवा-त्राथो तेजसा समर्धयतीत्युच्यते ।
कल्पः—“परस्या अधि संवत इति वैकङ्कतीं समिधमादधाति” इति ।
पाठस्तु—
परस्या अधीति । सम्यग्वनुते देवान्भजते यस्यां क्रियायां सा क्रिया संवत्। परस्याः संवतोऽध्युत्कृष्टाया इष्ठेरधीष्ठानं त्वमवरान्‍निकृष्ठानप्यस्मानभ्यात-

[[1838]]

राऽऽभिमुख्येनाऽऽगत्य दुःखात्तारय । यत्र येषु बन्धुष्वमहस्मि तानपि बन्धूनव रक्ष। अनेन मन्त्रेण साध्यं समिदाधानं विधत्ते—
“वैकङ्कतीमा दधाति मा एवाव रुन्धे” [सं. का. ५ प्र. १ अ. ९] इति।
आग्‍नेयी दीप्तिर्विकङ्कतवृक्ष एवावतिष्ठते । अत एवाऽऽधानब्राह्मणे स्तूयते—
“अग्नेः सृष्टस्य यतः । विकङ्‍कतं मा आर्छत्” इति । पाठस्तु—
परमस्या इति । परायच्छब्दो तूरदेशवाची । हेऽग्‍ने परमस्याः परावतोऽ-त्यन्तदूरदेशादिहास्मिकर्मणि त्वमागहि आगच्छ । कीदृशस्‍त्‍वं, रोहिदश्वो लोहित-वर्णोऽश्वो यस्यासौ रोहिदश्व । अत एवान्यत्राप्याग्‍नायते “रोहितेन त्वाऽग्निर्देवतां गमयतु” इति । पुरीषमुखाहेतुभूतं पांसुमर्हतीति पुरीष्यः । पुरूणां यजमानानां प्रियः पुरुप्रियः । तादृशस्त्वं मृधः शत्रूंस्तरातिलङ्‍घय ।
अनेन मन्त्रेण साध्यं समिदाधानं विधत्ते—
“शमीमयीमा दधाति शान्त्यै” (सं. का. ५ प्र. १ अ. ९) इति।
शमीवृक्षस्याग्निदाहशमनहेतुत्वात्तदीया समिधा शान्तिर्भवति । अत एषाऽऽधानब्राह्मणे पाठ्यते—“प्रजापतिरग्निमसृजत । सोऽबिमेत्प्र मा धक्ष्यतीति । तँश म्याँशमयत् । तच्छम्यै शमित्वम्” इति।
कल्पः—“सीद त्वं मातुरस्या उपस्थ इति तिसृमिर्जातमुख्यमुपतिष्ठते” इति। तत्र। प्रथमामाह—
सीद त्वं मातुरिति । हेऽग्‍ने त्वं मातृसगानाया अस्या उखाया उपस्थ उत्सङ्गे सीदोपविश । कीदृशस्त्वं, विश्वानि वयुनानि सर्वाञ्ज्ञानोपायान्विद्वानेना मुखामाचषा त्वदीयदीप्‍त्या मा शूशुचोऽत्यन्तं मा दीपय । तपसा संतापेनाभि मा शूशुचः । अर्चिः कारणं तपः कार्ये, कारणेनेपत्तापो भवति, कार्येण तु भूयान् । तदुभयं मा कुर्वित्यर्थः । अस्यामुखायामन्तः शुक्रज्योतिर्निर्मलप्रकाशः सन्विमाहि विशेषेण दीप्यस्व । अथ द्वितीयामाह—

[[1839]]

अन्तरग्ने रुचेति । हेऽग्‍ने उखायै तस्या उखाया अन्तर्मध्ये स्वे सदने स्वकीये स्थाने रुचा दीप्‍त्यां युज्यस्वेति शेषः । हे जातवेदस्त्वं तस्या उखायाः शिवो भव सुखप्रदो भव । किं कुंर्वन् । हरसा तेजसा तपञ्ज्वलन् । अथ तृतीयामाह।
शिवो भूत्वेति । हेऽग्‍ने मह्यं मदर्थं शिवः शान्तो भूत्वा थो अनन्तरं त्वं शिवः सन्सीद सर्वान्प्रत्ति शान्तः सन्‍नुपविश । सर्वा दिशः शिवाः शान्ताः कृत्वेहा-स्यामुखायां स्वां योनिं स्वकीयं स्थानमासद आगत्योपविश ।
एतान्मन्त्रान्विनियुङ्क्ते—
“सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुप तिष्ठते त्रय इमे लोका एष्वेव लोकेष्वाविदं गच्छत्यथो प्राणानेवाऽऽत्मन्धत्ते” (सं. का. ५ प्र. १ अ. ९) इति।
आविदं ख्यातिम् । किंच प्राणापानव्यानानां त्रित्वात्तानपि त्रिसंख्यया स्वात्मनि स्थापयति । अत्र विनियोगसंग्रहः—
आकूतिं सप्‍तभिर्दीक्षाहुतिर्मा स्विति च द्वयात् ।
पूर्वाग्नौ प्रवृणक्त्योखां मित्राङ्गारैः समिध्यते ।।
द्व्नन्नः क्‍रुमुकमाधत्ते परं वैकङ्‍कतीं परम् ।
शमीमयीं सीद जातं तिसृभिश्चोपतिष्ठते ।।
नवमे त्वनुवा॑केऽस्मिन्मन्त्राः षोडश वर्णिताः ।।
अत्र मीमांसा।

दशमाध्यायस्य तृतीयपादे चिन्तितम्—
षड्‍‍‍भिर्दीक्षयतीत्यग्निगतं प्राकृतबाधकम् ।
समुच्‍चितं वा बाधः स्यात्कार्यैक्यात्पाठवाक्यतः ।।
अग्नौ होमाङ्गता क्‍लृप्‍तेरतिदिष्टेन तुल्यता ।
विनाऽऽवृत्तिं द्वादशत्वसिद्ध्ये स्यात्समुच्‍चयः ।।
अग्निचयने दीक्षाहुतयः श्रूयन्ते– ‘षड्‍‍भिर्दीक्षयति” इति। प्रकृतावपि-

[[1840]]

“स्त्रुषेण चतस्त्रो जुहोति दीक्षितत्वाय” इत्यादिना दीक्षाहुतयः षड् विहिताः । तत्र मन्त्रा भिन्नाः- “आकूत्यै प्रयुजेऽग्‍नये स्वाहा” इत्यादयः प्राकृता मन्त्राः, “आकूति-माग्निं प्रयुजँ स्वाहा” इत्यादत्यो वैकृताः । तत्र वैकृतमाहुतिम त्रषद्कं प्राकृतस्य वाधकं किंवा प्राकृतेन समुच्चितमिति संशये बाधकमिति तावत्प्राप्‍तम् । कुतः । कार्यैक्यात् । दीक्षणीयाङ्गभूताहुत्युपकारलक्षणं यत्कार्यं प्राकृतानां मन्त्राणां तदेव वैकृतानामपि । न च विकृतौ तन्न प्रतीयत इति शङ्कनीयम् । स्वाहान्तपाठरूपेण लिङ्गेन मन्त्राणामाहुत्युषकारकत्वप्रतीतेः । आहुतीनां च षड्‍‍भिर्दीक्षयतीति वाक्येन दीक्षणीयाङ्गत्वप्रतीतेः । तस्माच्छूयमाणैर्मन्त्रैरतिदिष्टानां बाध इति पूर्वः पक्षः । अग्नौ मन्त्राणां स्वरूपं यद्यपि श्रुतिसिद्धं तथाऽपि होमाङ्गत्वं लिङ्गेन कल्पनीयम् । तथा चातिदेशकल्प्यैर्मन्त्रैस्तुल्यबलत्वान्न बाध्य बाधकता । एवमपि न समुच्‍चये प्रमाणम-स्तीति चेत् । अस्त्येव । द्वादश जुहोतीति संख्याविधानेन तत्सिद्धेः । न च वैकृता-नामेव षण्णामावृत्त्या संख्या सिघ्वतीति वाज्यम् । आवृत्तेरश्रुतत्वात् । न च सा कल्पयितुं शक्यतेऽन्यथाऽपि संख्योपपत्तेः । तस्मात्समुच्‍चय इति राद्धान्तः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके
नवमोऽनुवाकः ।। ९ ।।