[अथ चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः]।
समा॑स्त्वाऽग्न ऋ॒तवो वर्धयन्तु संवत्स॒रा
[[1812]]
ऋष॑यो॒ यानि॑ स॒त्या। सं दि॒व्येन॑ दीदिहि
रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒-
व्याः । सं चे॒ध्यस्वा॑ग्ने प्र च॑ बोधयैन॒मुच्च॑
तिष्ठ मह॒ते सौभ॑गाय । मा च॑ रिषदुपस॒त्ता
ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ माऽन्ये ।
त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने
[१] । सं॒वर॑णे भवा नः। स॒प॒त्न॒हा नो॑
अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन् ।
इ॒हैवाग्ने॒ अधि॑ धा॑रया र॒यिं मा त्वा॒ नि
क्र॑न्पू॒र्वचितो॒ निका॒रिणः॑ । क्ष॒त्त्रम॑ग्ने सु॒य-
म॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धता ते॒ अनि॑ष्टृतः।
क्ष॒त्त्रेणाग्ने॒ स्वायुः॒ सँ रभस्व मि॒त्रेणा॑ग्ने
मित्र॒धेते॑ यतस्व । स॑जा॒तानां॑ मध्यम॒स्था
ए॑धि॒ राज्ञा॑मग्न विह॒व्यो॑ दीदिही॒ह । अति॑
[ २ ] निहो॒ अति॒ स्रिधोऽत्यचि॒त्ति॒मत्यरा॑-
तिमग्ने । विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्म
भ्यँ॑ स॒हवी॑राँर॒यिं दाः॑ । अ॒ना॒धृ॒ष्यो जा॒-
तवेदा॒ अनि॑ष्टृतो वि॒राडा॑ग्निः क्षत्त्र॒भृद्दी॑दिही॒-
ह । विश्वा॒ आशाः॑ प्रमु॒ञ्चन्मानु॑षीर्भि॒यः
शि॒वाभि॑रद्य॒ परि॑ पाहि नो बृ॒धे। बृह॑स्पते
सवितर्बो॒धयै॑नँ॒ सँ शितं चित्संत॒राँ सँ
शि॑शाधि। व॒र्धयै॑नं मह॒ते सौभ॑गाय [३]
[[1813]]
विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः अ॒मु॒त्र॒ भूया॒-
दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।
प्रत्यौ॑हतामश्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने
भि॒षजा॒ शची॑भिः । उद्व॒यं तम॑स॒स्परि॒ प-
श्य॑न्तो॒ ज्योति॒रुत्त॑मम् । दे॒वं दे॒वत्रा सूर्य॒मग॑-
न्म॒ ज्योति॑रुत्त॒मम् [ ४ ] ।।
( इ॒मे शिंवो अ॒ग्नेऽति॒ सौभ॑गाय॒ चतु॑स्त्रिँशञ्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
प्रथमप्रपाठके सप्तमोऽनुवाकः ।। ७।।
[अथ चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः]।
षष्ठेऽनुवाक उखासंस्कार उक्तः । अथ सप्तमेऽनुवाके पञ्चपश्वङ्गभूता आग्निक्यः सामिधेन्य उच्यन्ते।
कल्पः—‘एकर्विंशतिं चतुर्विशतिं वा पराचीः सामिधेनीरन्वाहैकादश प्राकृतीः समास्त्वाऽग्न इति दशाऽऽग्निकीः’ इति । तत्राऽऽद्यामाह—
समास्त्वाऽग्न इति । समाशब्दः संवत्सरवाची । संवत्सरशब्देन तु तदव यवा मासा अर्धमासाश्चोपलक्ष्यन्ते । हेऽग्ने संवत्सर ऋतवो मासा अर्धमासाश्चेत्येते कालविशेषाः । तथर्पयो मन्त्रद्रष्टारः । तथा यानि सत्यानि सत्यवचनानि सन्ति ते सर्वेऽपि त्वां वर्धयन्तु । तैर्वर्धितस्त्वं दिव्येन द्युलोकार्हेण रोचनेन तेजसा संदीदिहि सभ्यग्दीप्यस्व । किंच त्वदीयया दीप्त्या पृथिव्याः संबन्धिनीः प्रदिशः सर्वा दिशो विदिशश्चाऽऽभाहि सर्वतो भासय । अथ द्वितीयामाह—
सं चेध्यस्वाग्न इति । हेऽग्ने त्वं समिध्यस्व च स्वयमपि दीप्तो भव । एनं प्रबोधय च यजमानं कर्मानुष्ठानाय प्रबुद्धं कुरु । महते सौभगायोत्तिष्ठ
[[1814]]
च यजमानस्यात्यन्तसौभाग्यार्थमुद्युक्तोऽपि भव । हेऽग्ने ते तवोपसत्ता परिचारकश्च मत्परिषन्मा हिंस्यताम् । किंच ते त्वदीया ब्रह्माणो ब्राह्मणा ऋत्विग्यजमाना यशसः सन्तु यशरिवनो भवन्तु । अन्ये त्वत्परिचर्याविमुका यशस्विनो मा भूवन् । अथ तृतीयामाह—
त्वामग्न इति । हेऽग्न इमे ब्राह्मणा ऋत्विग्यजमानास्त्वां वृणते संभजन्त आराधयन्ति । हेऽग्ने नोऽस्माकं संवरणेऽपराधानामाच्छादने निमित्तभूते सति शिवः शान्तो भव, अपराधं मा प्रकटयेत्यर्थः । किंच नोऽस्माकं सपत्नहा वीरघाती, अभिमातिजित्पापजयकारी च भूत्वा स्वे गये स्वकीये गृहेऽप्रयुछन्प्रमादमकुर्वन्ञ्जागृहि सावधानो भव । अस्माद्धितं विचारयेत्यर्थः । अथ चतुर्थीमाह—
इहैवाग्न इति । हेऽग्न इहैव गृह एव रयिं धनमधिधारयाधिक्येन संषा-दय । पूर्वचितो येऽस्मत्तोऽपि पूर्वमग्नेश्चेतारस्तेऽस्मान्प्रति निकारिणो निराकर्तारो भृत्वा त्वामस्मामिश्चीयमानमग्निं मा निक्रन्मेमैव निराकुर्वन्तु । हेऽग्ने तुभ्यं तव क्षत्रं बलं सुयममस्तु सुस्थितं भवतु । ते तत्रोपसत्ता परिचारकोऽनिष्टृतः केनापि नित रामहिंसितः सन्वर्धताम् । अथ् पञ्चमीमाह—
क्षत्त्रेणाग्न इति । हेऽग्ने क्षत्रेण त्वदीयेन बलेन स्वायुरस्मदीयं शोभनमायुः संरभस्व संरक्षाऽऽयुःसंरक्षणेऽप्रमत्तो भव । हेऽग्ने मित्रधेये मित्राणामस्माकं धारणे मित्रेणानुग्रहयुक्तेन चित्तेन यतस्व प्रतस्व प्रयत्नं कुरु । अग्निना सह प्रजापतेर्मुखतो जातत्वाद्ब्राह्मणा अग्नेः सजातास्तेषां मध्यमस्था एधि मध्यमे प्रदेशेऽवस्थितो भव । सर्वदा ब्राह्मणान्पूजयेत्यर्थः । हूयतेऽत्रेति हवा यज्ञा विविधाश्च ते हवाश्च विहवाः विहवानर्हतीति विहव्यः । हेऽग्ने त्वमिह भूमौ राज्ञां विहव्यो विविधयज्ञप्रवर्तकः सन्दीदिहि, अतिशयेन दीप्यस्व । अथ षष्ठीमाह—
अति निहो अतीति । निकृष्टानि श्वशुकरादिजन्मानि जिहीते प्राप्नोति यैर्दुरितैस्तानि दुरितानि हकारान्तेन निहशब्देनोच्यन्ते । शरीरशोषणादिहेतवो रोग-विशेषाः स्रिधुशब्दनोच्यन्ते । हेऽग्ने निहो दुरितान्यतिसहस्वातिशयेन विना
[[1815]]
शय । स्त्रिधो रोगांश्चातिसहस्व । अचित्तिं कर्मानुष्ठानविषयज्ञानं चातिसहस्व । अरातिं कर्मविघ्नकारिणं शत्रु चातिसहस्व । हिशब्दोऽपिशब्दार्थः । किंबहुना, हेऽग्ने विश्वान्यपि दुरितान्यनिष्टकारणानि सहस्व विनाशय । अथानन्तरमस्मभ्यं सहवीरां वीरैः पुत्रैः सहितां सयिं धनं दा देहि । अथ सप्तमीमाह—
अनाधृष्य इति । हेऽग्ने त्वमिह कर्मणि दीदिहि दीप्यस्व । कीदृशस्त्वम् । अनाधृष्य इतः परं केनाप्यधर्षणीयः । जातवेदा उत्पन्नसमस्तजगदभिज्ञः । अनिष्टृत इतः पूर्वमपि केनाप्यहिंसितः । विराड्विविधं राजमानः । क्षत्रं बलं बिभर्तीति क्षत्र-भृत् किंच यथोक्तविशेणषविशिष्टस्त्वं शिवाभिः शान्ताभिरनुग्रह दृष्टिभिरद्यास्मिन्क-र्मणि नोऽस्मान्वृधेऽभिवृद्धये परिपाहि सर्वतः पालय । किं कुर्वत् । बिश्वा आशा निषिद्धाचरणविषयाः सर्वास्तृष्णा मानुषीर्भियो मनुष्येषु प्रसक्ता व्याध्यादिभीतीश्च प्रमुञ्चन्प्रकर्षेण निवारयन् । अथाष्टमीमाह—
बृहस्पत इति । अत्र बृहस्पतिसवितृशब्दावग्निपरौ । सामिधेनीनामाग्नेय-त्वात् । बृहस्पतिसवितृभ्यां तुल्य हेऽग्ने एनं यजमानं बोधय कर्मणि बुद्धिमन्तं कुरु। संशितंचित्पूर्वमेव निशितबुद्धिमप्येनं संतरां संशिशाधि पुनरप्यतिशयेन सम्यगनुशा-सनवन्तं कुरु । एनं यजमानं महते सौभगाय वर्धय । विश्वे सर्वेऽपि देवा एनं यज-मानमनुमदन्तु समीचीनोऽयमिति हृष्यन्तु । अथ नवमीमाह—
अमुत्रभूयादिति । भूयो भावः । अमुत्र स्वर्गे भूयोऽमुत्रभूयः । स्वर्गे चि-रावस्तानमित्यर्थः । पञ्चमी निमित्तार्था । अधशब्दो धकारयुक्त इदानीमित्येतस्मिन्नर्थे वर्तते । हे बृहस्पतितुल्याग्नेऽमुत्रभूयात्स्वर्गे चिरावस्थानं निमित्तीकृत्याथेदानीं यम-स्याभिशस्तेर्यमसंबन्धिहिंसानिमित्तात्पापादस्मानमुञ्चो मोचितवानसीति यत्तेनास्माकं परलोकविषये चिन्ता नास्तीति शेषः । हेऽग्ने देवानां भिषजावश्विनौ देवौ शचीभिः। स्वकीयशक्तिभिरस्माद्यजमानान्मृत्युं प्रत्याहैताम्, अपमृत्युमिह लोके निराकुरुताम् । अथ दशमीमाह—
उद्वयं तमस इति । वयं तमस उत्तरं ज्योतिस्तमसो विनाशकत्वेनोत्कृष्ट-
[[1816]]
मग्निसंबद्धं ज्योतिरुत्परि पश्यन्त उत्कर्षेण सर्वतोऽवलोकयन्तो देवत्रा देवेषु मध्ये सूर्यं देवं सृर्यरूपेण वर्तमानमग्निसंबद्धमेवोत्तयं ज्योतिरगन्म प्राप्तास्म ।
अत्र विनियोगसंग्रहः—
समास्त्वा सामिधेन्यः स्युर्दशैता आग्निके पशौ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके
सप्तमोऽनुवाकः ।। ७ ।।