[अथ चतुर्थकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः]।
सं ते॑ वा॒युर्मा॑तरिश्वा॑ दधातूत्ता॒नायै॒ हृद॑यं॒
यद्बिलि॑ष्टम्। दे॒वानां॒ यश्चर॑ति प्रा॒णथे॑न॒ त-
स्मै॑ च देवि॒ वष॑डस्तु॒ तुभ्य॑म्। सुजा॑तो॒
ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒माऽस॑दः॒ सुवः॑।
वासो॑ अग्ने वि॒श्वरू॑पँ॒ सं व्य॑यस्व विभाव-
सो। उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या कृ॒पा।
दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राऽग्ने॑ याहि
सुश॒स्तिभिः॑ [१] ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒
तिष्ठा॑ दे॒वो न स॑वि॒ता। ऊ॒र्ध्वो वाज॑स्य॒ स-
नि॑ता॒ यद॒ञ्जिमि॑र्वा॒घाद्भि॑र्वि॒ह्वया॑महे । स
जा॒तो गर्मो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒
औष॑धीषु। चि॒त्रः शिशुः॒ परि॒ तमाँस्य॒-
क्तः प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः। स्थि॒
[[1784]]
रो भ॑व व॒ड्वि॑ङ्ग आ॒शुर्भेव वा॒ज्य॑र्वन्। पृ॒थु
र्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑नः । शि॒वो
भ॑व (२) प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वमङ्गिरः।
मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ माऽन्तरि॑क्षं॒
मा व॒नस्पती॑न्। प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑-
दद्रास॑भः॒ पत्वा॑। भर॑न्न॒ग्निं पु॑री॒ष्यं॑ मा पा॒
द्यायु॑षः पु॒रा। रासभो वां॒ कनिक्रद॒त्सुयु॑क्तो
वृषणा॒ रथे॑। स वा॑म॒ग्नि पु॑री॒ष्य॑मा॒शुर्दृ॒तो
वा॑हदि॒तः। वृषा॒ऽग्निं वृष॑णं॒ भर॑न्न॒पां गर्भँ॑
समु॒द्रिय॑म्। अग्न॒ आ या॑हि (३) वी॒तय॑
ऋ॒तँ स॒त्यम्। ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्नि-
मे॒तँ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्मान्। व्यस्य॒
न्विश्वा॒ अम॑ती॒रा॑तीर्नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिँ
ह॑नत्। ओष॑ध॒यः प्रति॑ मोदध्वमे॒नं पुष्पा॑व-
तीः सुपिप्प॒लाः अ॒यं वो॒ गर्भ॑ ऋ॒त्विय॑
प्र॒त्नँ स॒धस्थ॒माऽस॑दत् [४] ।।
(सुशस्तिभिः॑ शिवो भ॑व याहि॒ षट्त्रिँ॑ शच्च) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाऽष्टके
प्रथमप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
[अथ चतुर्थकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाक]।
तृतीयानुवाके मृत्खननमुक्तम्। अथ् चतुर्थे मृदाहरणमुच्यते।
कल्पः—“ स ते वायुरिति मृत्खनेऽप आनीय ” इति। पाठस्तु—
[[1785]]
सं ते वायुरिति। हे पृथिवि उत्तानाया ऊर्ध्वाभिमुखेनावस्थितायास्तव हृदयं हृदयसदृशं यत्खननस्थानं विलिष्टं विशेषेणाल्पीकृतं तत्खननस्थानं वायुः संदधातु तृणादिपूरणसहितेनानेन जलप्रक्षेपणेन वायुर्यथापूर्व सम्यक्करोतु। कीदृशो वायुः। मातरिश्वा मातर्यन्तरिक्षे सर्वप्राणिनामियत्तापरिच्छेदकारिणि शेतेऽवतिष्ठत इति मातरिश्वा। यो वायुर्देवानां प्राणथेन प्राणभावेन चरति व्यवहरति। हे देवि पृथिवि तुभ्यं तस्मै वायवे च वषडस्तु। इदं तृणसहितं जलं हुतमस्तु। अनेन मन्त्रेण साध्यमञ्जलिजलप्रक्षेपं विधत्ते—
“क्रूरमिवा वा अस्या एतत्करोति यत्खनत्यप उप सृजत्यापो वै शान्ताः शान्ताभिरेवास्यै शुचँ शमयति” (सं. का. ५ प्र. १ अ. ५) इति।
भूप्रदेशं खनतीति यत्तदेतत्पृथिव्याः क्रूरमेव करोति। हस्तादिच्छेदव-द्व्यथाहेतुत्वात्। तत्क्रौर्यपरिहाराय मृत्खननप्रदेशेऽपोऽवनयेत्। आपश्च शीतल-त्वेनां शान्ताः। एतादृशीभिरेवास्याः पृथिव्याः खननजन्यं शोकं शमयति।
मन्त्रे देवतान्तरपरित्यागेन वायुकथने प्रयोजनमाह—
“सं ते वायुर्मातरिश्वा दधात्वित्याह प्राणो वै वायुः प्राणेनैवास्यै प्राणँ सं दधाति” (सं. का. ५ प्र. १ अ. ५) इति।
वायोर्देवप्राणत्वात्तेनैवास्याः पृथिव्याः प्राणसंधानं संपद्यते।
पुनरपि वायोरन्यत्प्रयोजनमाह—
“सं ते वायुरित्याह तस्प्राद्वायुप्रच्युता दिवो वृष्टिरीर्ते” (सं. का. ५ प्र. १ अ. ५) इति।
यस्मात्प्रयोजनान्तरमपि विवक्षितमिति वायुशब्दः प्रयुक्तस्वस्मादेव कारणाद्वृष्टिर्दिवः सकाशाद्वायुप्रच्युता सति प्रवर्तते।
मन्त्रस्य चतुर्थपादे वषट्शब्दान्तगतेन षट्शब्देन स्मारितामृतुसंख्या-मुपजीव्य प्रशंसति—
“तस्मै च देवि वषडस्तु तुभ्यमित्याह षड्वा ऋतव ऋतुष्वेव वृष्टिं दधाति तत्मात्सर्वानृतून्वर्षति” (सं. का. ५ प्र. १ अ. ५) इति।
[[1786]]
आत्राऽऽम्नातपाठानुसारेण षकारमभ्युपेत्य षड्वा ऋतव इति व्याख्यातम्।
अथ शाखान्तरपाठानुसारेण षकारं परित्यज्य व्याचष्टे—
“यद्वपट्कुर्याद्यातयामाऽस्य वषऽट्कारः स्याद्यन्न वषट्कुर्याद्रक्षाँ सि यज्ञँ हन्युर्वडित्याह परीक्षमेव वषठ्करोति नास्य यातयामा वषट्कारो भवति न यज्ञँ रक्षाँ सि घ्नन्ति” (सं. का. ५ प्र. १ अ. ५) इति।
अत्रेदं चिन्तनीयम्। किमस्मिन्मन्त्रे वषट्शब्दः प्रयोक्तव्यो न वेति। नाऽऽद्यः। अत्रैव वषट्कारस्य प्रयोगे सति गतसारत्वेन वक्ष्यमाणे वायव्यपश्वादौ वषट्कारासंभवप्रसङ्गात्। न द्वितीयः वज्ररूपस्य वषट्कारस्याभावे रक्षोभिर्यज्ञ-विघातप्रसङ्गात्। एतद्दोषद्वयपरिहाराय षकारं परित्यज्य वडित्येव ब्रूयात्। तथा सति वषट्कारस्य संपूर्णस्यानुक्तत्वान्न गतसारत्वमेकदेशस्योक्तत्वान्न यज्ञघातोऽपि। तदेवं ब्राह्मणेनैव पाठविकल्पस्य व्याख्यातत्वान्नित्यकाम्यप्रयोगविषयतया पाठद्वयं व्यवस्थापनीयम्।
कल्पः—“ समुद्यम्य कृष्णाजिनस्यान्तान्सुजातो ज्योतिषा सहेति क्षौमेण मौञ्जेनार्कमयेण वा दाम्नोपनह्यति” इति। पाठस्तु—
सुजातो ज्योतिषेति। हेऽग्ने सुजातः सुष्ठ्त्पन्नस्त्वं ज्योतिषा त्वदीयेन ज्योतिषा सह शर्म सुखं यथा भवति तथा सुवः स्वर्गसदृशं वरुथं कृष्णाजिन-निर्मितं गृहमासदः प्राप्नुहि। हे विभावसो विभव दीप्तिरेव वसु धनं यस्यासौ विभावसुस्तादृश हेऽग्ने विश्वरूपं बहुप्रकाररूपं वासः कृष्णाजिनरूपं वस्त्रं संव्यय-स्व सम्यक्परिधत्स्व। तमेतं मन्त्रं विनियुङ्क्ते—
“सुजातो ज्योतिषा सहेत्यनुष्ठुभोप नह्यत्यनुष्टुप्सर्वाणि छन्दाँ सि छन्दाँसि खलु वा अग्नेः प्रिया तनूः प्रिययैवैनं तनुवा परि दधाति” (सं. का. ५ प्र. १ अ. ५) इति।
श्रुत्यन्तरे वाग्वा अनुष्टुवित्युक्तत्वाद्वाग्द्वारा सर्वच्छन्दोरूपत्वम्। शाखान्तर आधानप्रकरणे या ते अग्ने पशुषु पवमाना प्रिया तनूरित्यारभ्य या गायत्रे या
[[1787]]
त्रैष्ठुभे या जागत इति च्छन्दःसु प्रिवशरीरावस्थानकथनेन च्छग्दसामाग्निप्रिय-शरीरत्वम्। अतः प्रिययैवानयाऽनुष्टुब्रूपया तनुवा परिधानं कृतवान्भवति।
एतद्वेदनं प्रशंसति—
“वेदुको वासो भवति य एवं वेद” (सं. का. ५ प्र. १ अ. ५) इति।
वेदुको लाभशीलो वासः पर्ति भवति। एतद्वेदिता वस्त्रं प्राप्नोतीत्यर्थः।
कल्पः—“ उदु तिष्ठ स्वध्वरोर्ध्व उ षु ण ऊतय इति सावित्रीभ्यामुतिष्ठति ” इति। तयोः प्रथमामाह—
उदु तिष्ठेति। हे स्वध्वर सुष्ठु यागनिवांहकाग्न उदु तिष्ठोत्तिष्ठैवोत्थाय च नोऽस्मान्देव्या कृपा देवनस्वभावनया क्रीडापरया कृपयाऽव पालय। हेऽग्ने बृहता भासा प्रौढेन तेजसा सुशुक्ननिः सुष्ठु शुचां रश्मीनां वनिता यः सोऽयं सुशुक्वनिः। तादृशः सन्सुशस्तिभिः शोभगकीर्तिभिः सह दृशे सर्वैः प्राणिभिर्द्रष्टुमा-याहि। अथ द्वितीयागाह—
उर्ध्व ऊ ष्विति। हेऽग्ने नोऽस्माकमूतये रक्षणायोर्ध्व ऊ षु तिष्ठोर्ध्व एव कन्नवस्थितो भव। क इव। देवो न सविता, यथा सविता देव ऊर्ध्व एव सन्न-स्मान्रक्षति तद्वत्। यस्त्वमूर्ध्वः स त्वं वाजस्य सनिताऽन्नस्य दाता भव। यद्यस्मा-त्कारणादञ्जिभिमन्त्राभिव्यञ्जकैर्वाधद्भिर्हव्यवाहकैर्ऋत्विग्भिर्विह्वयामहे वयं त्वां विविधमाह्वयामस्तस्मादूर्ध्व एव तिष्ठेति सर्वत्रान्वयः। एतन्मन्त्रद्वयं विनियुङ्क्ते—
“वारुणो वा अग्निरुपनद्ध उदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति सावित्रीम्यामुत्तिष्ठति सवितृप्रसूत एवास्योर्ध्वां यरुणमेनिमुत्सृजति” (सं. का. ५ प्र. १ अ. ५) इति।
योऽयमग्निरत्र कृष्णाजिंनेनोपनद्धः सोऽयं वारुण उपद्रवकारिणो वरुणस्याधीनः। अतस्तत्परिहाराय सवितृलिङ्गकाभ्यामेताभ्यामृग्भ्यां वद्धमग्निं गृहीत्वोत्तिष्ठेत्। द्वितीयमन्त्रे देवो न सवितेत्युक्तत्वादेते सावित्र्यौ, एताभ्यामुत्थाने सवित्रैवानुज्ञातोऽस्याग्नेर्वर्रुणमेनिं वरुणकृतां वाधां परिहरति।
[[1788]]
मन्त्रद्वित्वं प्रशंसति—
‘द्वाभ्यां प्रतिष्ठित्यै’ [सं. का. ५ प्र. १ अ. ५] इति।
कल्पः—‘ स जातो गर्मो असीति हरति ’ इति। पाठस्तु
स जातो गर्भ इति। हेऽग्ने स त्वं द्यावापृथिव्योर्गर्भः सन्निदानीं जातोऽसि। कीदृशस्त्वं, चारुः पूजनीयः। ओषधिषु विभृतो भुज्यमानास्वोषधीषु जाठ-राग्निरूपः सन्विशेषेण पोषितः। चित्रो नानावर्णाभिर्ज्वालाभिर्विचित्ररूपः। इदानीमुत्प-न्नत्वाच्छिशुः। तमांसि पर्यक्तः परिहर्तुमभिव्यक्तः । तादृशस्त्वं मातृभ्य ओवघ्यर्थमधिक-निक्रददधिकं क्रन्दन्प्रगाः प्रकर्णेण गच्छ। यथा लोके शिशुमार्तर मुद्दिश्य क्रन्दन्नादरेण स्वसदने गच्छति तद्वदित्यर्थः।
अस्य मन्त्रस्य प्रथमपादेऽभिहितं द्यावापृथिवीगर्भत्वं विशदयति—
‘स जातो गर्भो असि रोदस्योरित्याहेमे वै रोदसी तयोरेष गर्भो यदग्निस्त-स्मादेवमाह’ (सं. का. ५ प्र. १ अ. ५) इति।
इमे द्यावापृथिव्यावेव रोदःशब्दाभिधेये, तयोर्मध्ये समुत्पन्नत्वात्तद्वर्भत्वम्। यस्मादेवं तस्मान्मन्त्रो युक्तमेवाऽऽह।
द्वितीयपादे विभृतश्चारुरिति पदयोर्निमित्तनैमित्तिकभावेनान्वयं दर्शयति—
अग्ने चारुर्विभुत ओषधीष्वित्याह यदा ह्येतं विभरन्त्यथ चारुतरो भवति’ (सं. का. ५ प्र. १ अ. ५) इति।
यस्मिन्काले जठरे प्रविष्टा ओषधय एतमुदराग्निं विशेषेण पोषयन्ति तदानीमयमग्निश्चारुतरः पटुतरो भवति।
चतुर्थपादे प्र मातृभ्य इत्येतस्य तात्पर्यं दर्शयति—
‘प्र मातृभ्यो अधि कनिक्रद्द्गा इत्याहौषधयो वा अस्य मातरस्ताभ्य एवैनं प्र च्यावयति’ [सं. का. ५ प्र. १ अ. ५] इति।
ओषधीनामुक्तरीत्या जठरग्निजनकत्वान्मातृत्वम्। अतो मात्रर्थमेवैनमग्निं प्रकर्षेण गमयति। अत एवोत्तरत्रौषधयः प्रतिगृह्णीतेति मन्त्रेणौषधीषु स्थापनं विधास्यति।
कल्पः—“स्थिरो भव वीड्वङ्ग इति गर्दभस्य पृष्ठ आदघाति” इति।
[[1789]]
पाठस्तु—
स्थिरो भवेति। अग्नेर्हेतुभूतं पुरीषं यो गर्दभो वहति * तादृश ह्रे गर्दभ, इयर्ति गच्छतीत्यार्वा। हेऽर्वन्गमनकुशल त्वं स्थिरश्चलनरहितो भव। वीड्वङ्गो दृढकाय आयुर्वेगवान्वाज्यन्नहेतुश्च भव। तथा पृथुर्विस्तीर्णपृष्ठः सुषदोऽग्नेः सुखासनश्च भव। तमेतं मन्त्रं विनियुङ्क्ते —
“स्थिरो भव वीड्वङ्ग इति गर्दभ आ सादयति सं नह्यत्येवैनमेतया स्थेग्ने” (सं. का. ५ प्र. १ अ. ५) इति।
गर्दभस्योपरि स्थैर्यार्थमेतयर्चैनमग्निं सम्यग्बद्धवान्भवति। अग्निरूपा मृद्यथा भूमौ न पतति तथा स्थापनीया । गर्दभे स्थापनं प्रशंसति—
“गर्दभेन सं भरति तस्माद्गर्दभः पशूनां भारभारितमः” [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादत्र बलीवर्दादिकमनादृत्य गर्दमेनवै मृदं वाहयन्ति तस्माल्लोकेऽपि गवादीनां पशूनां मध्ये गर्दभ एव भारभारितमः। वाडव्यो द्रव्यविशेषो भारस्तं भरति वारयतीति भारभारी, अतिशयेन भारभारी भारभारितमः प्रौढं भारं वहतीत्यर्थः। प्रकारान्तरेण तदेव प्रशंसति—
“गर्दभेन सं भरति तस्माद्गर्दभोऽप्यनालेशेऽत्यन्यान्पशून्मेद्यात्यन्नँ ह्येनेनार्कँ संभरति” [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादेनेन गर्दभेनाक्रमन्नं संभरन्ति, यागद्वाराऽन्नहेतुत्वादियं मृदेवान्नम्। तच्चार्चनीयत्वादर्कशब्दामिधेयम्। यस्मादन्नं वहति तस्माल्लोके गर्दभो भक्ष्यस्या ल्पत्वेऽप्यन्यान्पशूनतिक्रभ्य भेदस्वी भवति। अनाशब्दो वर्णविकारेणान्नवाची तस्य लेशोऽल्पत्वम्। जीर्णतुषतृणादिभक्षणेनैव गर्दभो जीवति, न तु बलीवर्दाश्वादीनामिव तत्तत्काले घृततैलादिपानं वा चणककुलित्थादिखाद्यभक्षणं वा तस्यास्ति, तथाऽपि मेदस्वित्वम्। एतदन्नसंभरणाल्लभ्यते।
पुनरपि प्रकारान्तरेण तदेव प्रशंसति—
- मन्त्रे पुरीषवाहन इति संबुद्ध्यर्ये प्रथमेत्यभिप्रायेणेदं व्याख्यानम्।
[[1790]]
“गर्दभेन सं भरति तस्माद्गर्दभो द्विरेताः सन्कनिष्ठं पशूनां प्र जायतेऽ-ग्निर्ह्यस्य योनिं निर्दहति” [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादुपरि धार्यमाणो मृद्रूपोऽग्निरस्य गर्दभस्य प्रजोत्पादनसामर्थ्य निर्दग्वं करोति तस्माल्लोके गर्दभो द्विरेता अपि सन्पशूनां मध्ये कनिष्ठमपत्यमुत्पादयति। अश्वादिबद्धहुमूल्यानर्हत्वात्कनिष्ठत्वम्। गर्दभस्य स्वकीयं रेत एकमश्वतरस्य रेतो द्वितीयमिति द्विरेतस्त्वम्। एतच्च सप्तमकाण्डे स्पष्टमाम्नातम् – “ तासां परिगृहीतानामश्वतरोत्यप्रवत तस्यानुहाय रेत आऽदत्त तद्गर्दमे न्यमार्ट् तरमाद्गर्दभो द्विरेताः ” इति। यद्यपि कनिष्ठोत्पादनं निन्दाहेतुस्तथाऽप्यग्निभरणस्य लिङ्गत्वेन प्रशंसैव संपद्यते।
कल्पः—“शिवो भव प्रजाभ्य इत्याहितमभिमन्त्रयते” इति। पाठस्तु—
शिवो भवेति। आङ्गरोभिर्ऋषिभिः पूर्वं संपादितत्वादङ्गसौष्ठवाद्वाऽय-मग्निरङ्गिराः। हेऽङ्गिरोऽग्ने त्वं मानुषीभ्याः प्रजाभ्यः शिवः शान्तो भव। किंच, त्वं द्यावापृथिवी अभिलक्ष्य मा शूशुचः शोकं संतापं मा कार्षीः। तथाऽन्तरिक्षमभि मा शूशुचः। तथा वनस्पतीनभि मा शूशुचः।
प्रजानामर्थे शिवो भवेत्पुक्तायाः शान्तेः प्रसङ्गं दर्शयति—
“प्रजासु वा एष एतर्ह्यारूढः स ईश्वरः प्रजाः शुचा प्रदहः शिवो भव प्रजाभ्य इत्याह प्रजाभ्य एवैनँ शमयति” [सं. का. ५ प्र. १ अ. ५] इति।
यदाऽयमग्निर्गर्दभमारोहत्येतर्हि एतस्मिन्काल एषोऽग्निः प्रजास्वेवाऽरूढो भवति। गर्दभस्य प्रजान्तः पातित्वान्मनुष्यवच्चेतनत्वेन प्रजापतेरुत्पन्नत्वात्तदन्तः—पातित्वम्। ततः प्रजास्वारूढोऽग्निस्ताः प्रजाः संतापेन प्रदग्धुं समर्थः स्यात्। तस्माच्छिवो भवेति प्रार्थनेन प्रजार्थमेवैनमग्निं शान्तं करोति।
तस्य मन्त्रस्य द्वितीयपादे मानुषभ्यि इति विशेषणं मनुत्पादितमृगगवादि कृत्स्नप्रजाविषयमित्येतद्दर्शयति—
“मानुषीभ्यस्त्वमङ्गिर इत्याह मानव्यो हि प्रजाः” [सं. का. ५ प्र. १ अ. ५] इति।
[[1791]]
यथ प्रथमार्धे चेतनविषया शान्तिः प्रार्थिता तथोत्तारर्धेप्यचेदनविषया शान्तिः प्रार्थितेत्येतद्दर्शयति—
“मा द्यावापृथिवी अभि शूशुचो माऽन्तरिक्षं मा वनस्पतीनित्याहैभ्य एवैनं लोकेभ्याः शमयति” [सं. का. ५ प्र. १ अ. ५] इति।
कल्पः “ प्रैतु वाजी कनिक्रददिति तिसृभिरत्वरमाणा अश्वप्रथमाः प्रत्यायन्ति” इति। तत्र प्रथमामाह—
प्रैतु वाजीति। अयं वाजी तुरगः कनिक्रदद्धर्षेण हेषाशब्दं कर्वन्प्रैतु प्रथमं गच्छतु। अथ रासभो गर्दभो नानदद्धर्षेण शब्दं कुर्वन्पत्वा गमनशीलः पुरीष्यमग्निं दाहकं भरन्नपि स्वकीयादायुपः पुरा मा पाद्यपमृत्युना मृतो मा भूत्।
अथ द्वितीयामाह—
रासभो वामिति। हे वृषणा सेचनसमर्थावश्वगर्दभौ वां युवयोर्मध्ये रासभो गर्दभोऽयं कनिक्रदद्धर्षेण भृशं क्रन्दन्रथे सुयुक्तो रथसदृशे भृद्भारे सुष्ठु प्रयुक्तः। वा युवयोर्मध्ये स तादृशो गर्दभो दूतो राजप्रेषितदूतवदाशुः शीघ्रगामी सन्नितोऽस्मात्स्था-नात्पुरीष्यमग्निं वहाद्वहतु। अथ तृतीयामाह—
वृषाऽग्निमिति। वृषां वर्षणे सेचने समर्थो वृषणं फलाभिवर्षणसमर्थमग्निं भरन्वहन्गच्छत्विति शेषः। कीदृशमग्मिम्, अपां गर्भं मेघस्थानां जलानां मध्ये विद्युद्रूपं, समुद्रियं समुद्रे वडवाग्निरूपेणोत्पन्नम् । तादृश हेऽग्ने वतिये प्रजनाद्यर्थमृतं सत्यं च प्रत्यायाहि । ऋतसत्यशब्दाभ्यां मन्त्रब्राह्यणानुसारेण द्यावापृथिव्यौ विवक्ष्येते । अवश्यंभाविनः कृष्यादिफलस्य हेतुत्वात्पृथिव्या ऋतत्वम्। अवश्यंभाविनः कर्मफल-स्य हेतुत्वात्स्वर्गस्य सत्यत्वम्।
अत्र प्रथममन्त्रस्य प्रथमपादे वाजिशब्देनाश्वो विवक्षित इत्येतद्दर्शयति—
“प्रैतु वाजी कनिक्रददित्याह वाजी ह्येषः” [सं. का. ५ प्र. १ अ. ५] इति। हिशब्देन लोकप्रसिद्धिर्दर्शिता।
[[1792]]
द्वितीयपादे गर्दभशब्दपरित्यागेन रासभशब्दप्रयोग ऋषिव्यवहारानु-सारीत्येत द्दर्शयति—
“नानदद्रासभः पत्वेत्याह रासभ इति ह्येतमृषयोऽवदन्” [सं. का. ५ प्र. १ अ. ५] इति। तृतीयपादार्थे प्रत्यक्षप्रसिद्धिं दर्शयति—
चतुर्थपादेऽग्निवहनप्रयुक्ताप मृत्युपरिहारायाऽऽयुष्प्रार्थनं दर्शयति—
“मा पाद्यायुषः पुरेत्याहाऽऽयुरेवास्मिन्दधाति तस्माद्गर्दभः सर्वमायुरेति तस्माद्गर्दभे पुराऽऽयुषः प्रमीते विभ्यति” [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादनेन मन्त्रेणाऽऽयुः स्थापितं तस्मात्तृणादिदुराहारं भक्षयन्नपि गर्दभोऽश्वादिवच्छूलादिना न म्रियते, किंतु सर्वमायुरेति। यस्माच्च गर्दभस्य सर्वायुः प्राप्तिः स्वाभाविकी तस्माल्लोके तिर्यग्विषयवैद्यशास्त्रे प्रसिद्धादायुषः पुरा कदाचि दकस्माद्गर्दभे मृते सत्युत्पातोऽयमिति प्रजा। बिभ्यति।
तृतीयमन्त्रस्य प्रथमपादे गर्दभस्यापत्योत्पादकत्वेन वृषत्वमग्नेश्च फलाभि-वर्षकत्वेन वृषत्वं प्रसिद्धमित्येदद्दर्शयति—
“वृषाऽग्निं वृषणं भरन्नित्याह वृषां ह्येष वृषाऽग्निः” [सं. का. ५ प्र. १ अ. ५] इति।
तृतीयपादे वीतय इतिशब्देन प्रजननाद्यार्थः साक्षाद्विवक्षितः द्यावापृथि-व्योर्वियोगस्त्वग्निकृतप्रजननार्थ इत्येतदभिप्रायं दर्शयति—
“अग्न आ याहि वीयत इति वा इमौ लोकौ व्यैतामग्न आ याहि वतिय इति यदाहानयोर्लोकयोर्वीत्यै” [सं. का. ५ प्र. १ अ. ५] इति।
पुरा द्यावापृथिव्याख्यौ लोकावेकीभावमापन्नौ सन्तो यदा वियुक्तौ भवत-
[[1793]]
स्तदानीमावयोर्गध्ये प्रजननाद्यर्थं हेऽग्ने समायहीत्यनेनाभिप्रायेणाग्निकृतप्रजन-नादिव्यापारस्यावकाशं दातुं वियुक्तावभूताम् । तस्मादयं मन्त्रः प्रजननाद्यर्थमग्न्यागमनं वदंस्तदवकाशप्रदात्र्योर्द्यावापृथिव्योर्वियोगाय संपद्यते।
अस्य मन्त्रस्य चरमभागे गन्तव्यत्वेन निर्दिष्टयोर्ऋतसत्ययोस्तात्पर्यं दर्शयति—
‘प्रच्युतो वा एष आयतनादगतः प्रतिष्ठाँ स एरर्ह्यध्वर्युं च यजमानं च घ्यायत्यृतँ सत्यमित्याहेयं वा ऋतमसौ सत्यमनयोरेवैनं प्रति ष्ठापयति नाऽऽर्तिमार्छत्य-ध्वर्युनं यजमानः’ (सं. का. ५ प्र. १ अ. ५) इति।
एषोऽग्निः खननप्रदेशात्स्वकीयादायतनात्प्रच्युतोऽनयत्रापि न क्वचित्प्रतिष्ठांगतः। सोऽग्निरेतस्मिन्काले कुपितोऽध्वर्युयजमानौ हन्तुं ध्यायति। अतोऽस्य प्रतिष्ठार्थ द्यावापृथिवीविवक्षया मन्त्र ऋतसत्यशब्दौ प्रयुङ्क्ते। तेनानयो-र्लोकयोरग्नेः स्थापनादध्वर्युयजमानौ न विनश्यतः।
कल्पः- ‘उत्तरेण विहारं परिश्रत औषधयः प्रतिगृह्णीताग्निमेतमिति द्वाभ्यामोषधीषु पुष्पवतीषु फलवतीषूपावहरति’ इति। तत्र प्रथमामाह—
ओषधय इति । हे ओषधयोऽत्रास्मिन्परिश्रते देशे युष्मानभिमुखीकृ-त्याऽऽयन्तमागच्छन्तं शिवं शान्तमेतमग्रिं प्रतिगृह्णीत स्वी कुरुत। अयं चाग्नियुंष्मासु निषीदन्नोऽस्माकं दुर्मतिमपहनत्प्रमादालस्यादियुक्तां बुद्धिमपहन्तु। किं कुर्वन्, विश्वा अरातीरमतीर्व्यस्याञ्शत्रुसमाना रोगजन्या बाधाः सर्वाः परिहरन्।
अथ द्वितीयामाह—
ओषधयः प्रतीति। पुष्पावतीः प्रशस्तपुष्पोपेताः सुपिप्पलाः शोभनफलो-पेता हे ओषधय एवमग्निं प्रति मोदध्वं हृष्टा भवत। अयमग्निर्यो युष्माकमृत्विय ऋतु-कालीनो गर्मो भूत्वा प्रत्नं पुरातनं सधस्थं गर्भयोग्यं स्थानमासदत्प्राप्तवान् ।
अथ प्रथममन्त्रस्य प्रथमपाद ओषधिप्रतिग्रहप्रार्थनायां कारणं दर्शयति—
‘वरुणो वा एष यजमानमभ्यैति यदग्निरुपनद्ध ओषधयः प्रति गृह्णीता-ग्निमेतमित्याह शान्त्यै’ (सं. का. ५ प्र. १ अ. ५) इति।
[[1794]]
कृष्णाजिने बद्धो योऽग्निः स ए, बन्धकेन वरुणपाशेन युक्तत्वाद्वरुणः सन्यजमानमभिलक्ष्य बाधितुमागच्छति। अतस्तच्छान्त्यर्थमोषधिप्रतिग्रहः।
तृतीयपादेऽरातिशब्देम राक्षसाः सूचिता इति दर्शयति—
‘व्यस्यन्विश्व अमतीररातीरित्याह रक्षसामपहत्यै’ (सं. का. ५ प्र. १ अ. ५) इति।
चतुर्थपादे दुर्बुद्धिपरिहारोऽनुष्ठाप्रतिष्ठार्थ इति दर्शयति—
‘निषीदन्नो अप दुर्भतिँ हनदित्याह प्रतिष्ठित्यै’ (सं. का. ५ प्र. १ अ. ५) इति।
द्वितीयमन्त्रस्य प्रथमपाद ओषधिप्रतिमोदप्रार्थनया जाठराग्निसमृद्धिरित्येत-द्दर्शयति—
‘ओषधयः प्रति मोदध्वमेनमित्याहौषधयो वा अग्नेभार्गथेयं ताभिरेवैनँ समर्धयति’ (सं. का. ५ प्र. १ अ. ५) इति।
ओषधिस्थापनेनाग्निद्वयस्य समृद्धिः।
द्वितीयपादे सुपिप्पलशब्दतात्पर्यं दर्शयति—
‘पुष्पावतीः सुपिप्पला इत्याह तस्मादोषधयः फलं गृह्णन्ति’ [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादत्र सुपिप्पला इत्युक्तं तस्माल्लोकेऽप्योषधयः स्वकाले संपूर्णं फलं गृह्णन्ति।
द्वितीयार्धे सघस्थमाऽसददित्यस्य तात्पर्यं दर्शयति—
‘अयं वो गर्भ ऋत्वियः प्रत्नँ सधस्थमाऽसददित्याह याभ्य एवैनं प्रच्यावयति तास्वेवैनं प्रति ष्ठायति’ (सं. का. ५ प्र. १ अ. ५) इति।
मृत्खननभूमौ पूर्वमुत्पन्नाभ्यो याभ्य ओषधीभ्यः प्रच्याव्यायमग्निरानीतस्तम-ग्निमुपावहरणप्रदेशे तास्वेवौषधिजातिषु स्थापितवान्भवति।
ओषधयः प्रतिगृह्णीतेत्यादिकं मन्त्रद्वयं विनियुङ्क्ते—
[[1795]]
“द्वाम्यामुपावहरति प्रतिष्ठित्यै” ’ (सं. का. ५ प्र. १ अ. ५) इति।
अत्र विनियोगसंग्रहः—
सं मृत्खनेऽपो निनयेत्सृजो संभृतबन्ध (न) म् ।
उदुद्वाभ्यां समुत्थाय सजातस्त्वाहरेन्मृदम।।
स्थिरो गर्दभ आधाय शिव आहितमन्त्रणम्।
प्रैतुत्रिभिः शनैर्याति ह्योषद्वाभ्यामिमां मृदम्।।
उपाहरेदोषधीषु मन्त्रा द्वादश वर्णिताः ।। इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके
चतुर्थोऽनुवाकः ।। ४ ।।