०१

(तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः)।

ह॒रि॑ ॐ ।

यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धियः।
अ॒ग्निं ज्योतिर्नि॒चाय्य॑ पृथि॒व्या अघ्याऽ -
भ॑रत्। यु॒क्त्वाय॒ मन॑सा दे॒वान्त्सुव॑र्य॒तो धि॒या
दिव॑म्। बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्र
सु॑वाति॒ तान्। यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑

[[1748]]

सवि॒तुः स॒वे। सु॒व॒र्गेया॑य॒ शक्त्यै॑। यु॒ञ्जते॒ मन॑
उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒-
श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ इत् (१)
म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः । यु॒जे वां॒ ब्रह्म॑
पू॒र्व्यं नमो॑मि॒र्वि श्लोका॑ यन्ति प॒थ्ये॑व॒
सुराः॑ । शृ॒ण्वन्ति॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा
आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः । यस्य॑
प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒-
मान॒मर्च॑तः। यः पार्थि॑वानि विम॒मे स
एत॑शो॒ रजाँ॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना।
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्रसु॑व [२] य॒ज्ञप॑तिं॒
भगा॑य दि॒व्यो ग॑न्ध॒र्वः। के॒त॒पूः केतं॑ नः पुना-
तु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः। इ॒मं नो॑
देव सवितर्य॒ज्ञं प्र सु॑व देवा॒युवँ॑ सखि॒विदँ॑
सत्रा॒जितं॑ धन॒जितँ॑ सुव॒र्जित॑म्। ऋ॒चा स्तो-
मँ॒ सम॑र्धय गाय॒त्रेण॑ रथंत॒रम्। बृहद्गा॑य॒त्रव॑-
र्तनि। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र्बा॒हु-
भ्यां॑ पू॒ष्णो हस्ता॑भ्यां गाय॒त्रेण॒ छन्द॒साऽऽ
द॑देऽङ्गिर॒स्वदभ्रि॑रसि॒ नारिः॑ (३) अ॒सि॒ पृ॒-
थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र॒
त्रैष्टु॑मेन त्वा॒ छन्द॒साऽऽ द॑देऽङ्गिर॒स्वद्बभ्रि॑र॒सि
नारि॑रसि॒ त्वया॑ व॒यँ स॒धस्थ॒ आऽग्निँ श॑केम॒

[[1749]]

खनि॑तुं पुरी॒ष्यं॑ जाग॑तेन त्वा॒ छन्द॒साऽऽद॑देऽ-
ङ्गिर॒स्वद्धस्त॑ आ॒धाय॑ सवि॒ता विभ्र॒दभ्रिँ॑ हि-
र॒ण्ययी॑म्। तया॒ ज्योति॒रज॑स्र॒मिद॒ग्निं खा॒त्वी
न॒ आ भ॒राऽऽनु॑ष्टुभेन त्वा॒ छन्द॒साऽऽ द॑देऽङ्गि-
र॒स्वत् [४] ।।
[इद्य॒ज्ञं प्र सु॑व॒ नारि॒रानु॑ष्टुभेन त्वा॒ छन्द॑सा॒ त्रीणि॑ च] ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके प्रथमोऽनुवाकः ।। १ ।।

[अथ चतुर्थकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः]।
तत्राभ्न्यादानप्रतिपादके प्रथमानुवाके प्रथमं तावद्धोममन्त्रा उच्यन्ते।
कल्पः—“ जुह्णामष्टगृहीतं गृहीत्वा युञ्जानः प्रथमं मन इति यजुरष्टमाभि-
र्ऋग्भिरेकामाहुतिं जुहोति ” इति। तत्र प्रथमामृचमाह—
युञ्जान इति। सविता प्रेरकः परमेश्वरः प्रथममग्निचयनाविषये मनो युञ्जानः समादधानो धिय इष्टाकादिविषयाणि ज्ञानानि तत्वाय तनित्वा विस्तार्याग्निं ज्यो-तिर्निचाय्य चीयमानग्निं सफलानां कर्मणां प्रकाशनसाधनभूतं निश्चित्य पृ-
थिव्या अध्याभरद्भूमेरुपर्यानीतवान्। अनन्तरं तमग्निमुखालक्षणपृथिव्यां स्थाप-
येतुमुखानिर्माणाद विमं करोमीति भागः। अथ द्वितीयामाह—
युक्त्वाय मनसेति। सविता तानिन्द्रियविशेषान्प्रकर्षेण सुवाति प्रेरयति। किं कृत्वा, देवान्क्रीडापरत्वेन चपलानिन्द्रियविशेषान्मनसा युक्त्वाय विषयेभ्यो नियम्य। कीदृशानिन्द्रियविशेषान्, सुवर्यतः स्वर्गं मच्छतः स्वर्गप्राप्त्यर्थमु-
द्यतानित्यर्थः। बृहज्ज्योतिः प्रौढं चीयमानमग्निं धिया दिवं करिष्यतस्तत्तदिष्ट कादिविषयया प्रज्ञया द्योतमानं कर्तुमुद्यतान्। अथ तृतीयमाह—
युक्तेन मनसेति। यस्मात्पूर्वोक्तरीत्या सवितेन्द्रियाणि प्रेरयति तस्माद्वयं

[[1750]]

सवितुर्देवस्य प्रेरणे सति युक्तेन विषयेभ्यो नियमितेन मनसा सुवर्गेयाय स्वर्गलोके गीयमानस्याग्नेः संपादनाय शक्त्यै शक्ता भूयास्मेति शेषः। अथ चतुर्थीमाह—
युञ्जते मन इति। विप्रस्य ब्राह्मणस्य यजमानस्य संबन्धिनो विप्राऋत्विजो मनो युञ्जते प्रथमं स्वकीयं मनो विषयेभ्यो निवर्त्य समाहितं कुर्वन्ति। उतापि च धिय इष्टकादिविषयज्ञानानि युञ्जते संपादयन्ति। कीदृशस्य विप्रस्य। बृहतः प्रभूताग्निचयनोद्योगेनाभिवृद्धस्य विपश्चितो विदुषः प्रयोगाभिज्ञस्य। कीदृशा विप्राः। होत्रा होमशीलाः। कर्मण्यालस्यरहिता इत्यर्थः। एक इदेक एव सविता विदधे सर्वमिदं निर्मितवान्। कीदृशः सविता। वयुनावित्, ऋत्विग्यजमानाभिप्रायाभिज्ञः। कथमेक एव सर्वमिदं कृतवानिति न विस्मेतव्यम्। यतः सतितुर्देवस्य परिष्टुतिर्मही परितः सर्वेषु वेदेषु श्रूयमाणा स्तुतिर्महती । अथ पञ्चमीमाह—
युजे वां ब्रह्मेति। यजमानः पत्नी चेत्येतौ हे दंपती वां युवयोरर्थे पूर्व्यं पुरातनैर्महर्षिभिरनुष्ठितं ब्रह्म परिवृढमग्निचयनाख्यं कर्म नमोभिर्नमस्कारपूर्वकैरि-ष्टकोपधानादिभिर्युजे संपादयामि। तस्मिन्संपादिते सति श्लोका यजमानस्य कीर्तयो वियन्ति भूमौ विविधं प्रसरन्ति। तत्र दृष्टान्तः—पथ्या सूरा इव गीर्वाणमार्गेऽन्तरिक्षे सूर्यरश्मयो यथा प्रसरन्ति तद्वत्। किंच, अमृतस्य प्रजापतेः पुत्रा ये देवा दिव्यानि धामान्यातस्थुः प्राप्तवन्तस्तेऽपि विश्वे सर्वे शृण्वन्ति। यजमानस्य कीर्तिमिति शेषः। अथ षष्ठीमाह—
यस्य प्रयाणमिति। यस्य सवितुः प्रयाणं प्रवृत्तिमन्ये सर्वे देवा अनुय-
युरिदवश्यमनुगच्छन्त्येव। किं कुर्वन्तः। अस्य देवस्य महिमानमर्चतोऽर्चयन्तः। किंच, यः सविता पार्थिवानि रजांसि विममे पृथिवीगतान्परमाणून्विशेषेण गणयित्वा निश्चितवान्स सविता देवो महित्वना महत्त्वेनैतशो व्याप्तवानेति सर्वत्र गच्छतीत्येतशः। अथ सप्तमीमाह—
देव सवितरिति। हे सवितर्देव यज्ञं प्रसुव प्रकर्षेण प्रेरय, यज्ञपतिं यज-

[[1751]]

मानं च प्रसुव। किमर्थम्। भगाय सौभाग्याय। दिव्यो दिवि स्वर्गे भवः कश्चिद्गन्धर्वः केतपूः केतं परकीयचित्ते वर्तमानं ज्ञानं पुनाति शोधयतीतिकेतपूः । स च नोऽस्माकं केतं चित्तवर्तिज्ञानं पुनातु भ्रान्तिपरिहारेण शोधयतु। वाचस्पतिरद्यास्मिन्कर्मणि नोऽस्मदीयां वाचं स्वदाति स्वदयतु।
इत्थमृचः सप्तोक्त्वाऽष्टमं यजुराह—
इमं नो दवेति। हे सवितर्देव नोऽस्मदीयमिमं यज्ञं प्रसुव। कीदृशं, देवै-
र्योति मिश्री भवतीति देवायुस्तं देवायुवं, सखायं स्वनिष्पादकं यजमानं वेत्तीति सखिवित्तम्। सत्राणि द्वादशाहादीनि जयति वशी करोतीति सत्राजित्तम्। तानि हि चीयमानमग्निमपेक्षन्ते। धनं जयति फलरूपेण संपादयतीति धनजित्तम्। सुवः स्वर्गं जयति फलरूपेण संपादयतीति सुवर्जित्तम्।
अग्निचयनार्थानां चतुर्थकाण्डगतानां मन्त्राणं पञ्चमकाण्डे क्रमेणैव ब्राह्म-णमाम्‍नातम्। तत्राऽऽदौ युञ्जान इत्यादिभिर्मन्त्रैर्होमं विधत्ते—
“सावित्राणि जुहोति प्रसूत्यै” (सं. का. ५ प्र. १ अ. १) इति।
सविता येषु मन्त्रेषु प्रतीयते तानि सावित्राणि, तैर्होमे सति यजमानं सविता कर्मणि प्रसौति। द्रव्यं विधत्ते—
“चतुर्गृहीतेन जुहोति चतुष्पादः पशवः पशूनेवाव रुन्धे” (सं. का. ५ प्र. १ अ. १) इति। चतुःसंख्यां पुनः प्रशंसति-
“चतस्रो दिशो दिक्ष्वेत प्रतितिष्ठति” (सं. का. ५ प्र. १ अ. १) इति। पुनरपि प्रकारान्तरेण प्रशंसति—
“छन्दाँसि देवेभ्योऽपाक्रामन्न वोऽभागानि हव्यं वक्ष्याम इति। तेभ्य एत-ञ्चतुर्गृहीतमधारयन्पुरोनुवाक्यायै याज्यायै देवतायै वषट्‍काराय यञ्चतुर्गृहीतं जुहोति छन्दाँस्येव तत्प्रीणाति तान्यस्य प्रीतानि देवेभ्यो हव्यं बहन्ति” [सं. का. ५ प्र. १ अ. १] इति।
नानाविधच्छन्दोयुक्तपुरोनुवाक्याद्यभिमानिनो देवा हविर्भाग्म्यो देवेभ्योऽपरक्ताः सन्तोऽन्यत्रागच्छन्। किं ब्रुवन्तो गत इति, तदुच्यते—हे देवा भागरहितानि वयं छन्दांसि वो युष्मदीयानि हवींषि न वक्ष्यामो हविर्वहनं न करिष्याम इति ब्रुवन्तः।

[[1752]]

तदानीं देवा विचार्य होमकाले यञ्चतुर्ग्रहणं तच्छन्दसां प्रीतिकरं भवत्विति तेषां भागमकल्पयन्। तत्र प्रथमग्रहणं पुरोनुवाक्याख्याया गायत्रीदेवतायास्तुष्टिकरं, द्वितीयग्रहणं याज्याख्यायास्त्रिष्टुब्देवतायास्तुष्टिकरं, तृतीयग्रहणं देवताख्याया जगतीदेवतायास्तुष्टिकरं, चतुर्थग्रहणं वषट्‍काराख्याया अनुष्टुब्देवतायास्तुष्टि-
करम्। अतश्चतुर्गृहीतेन होमे सति च्छन्दोदेवताः प्रीणयति। ताश्च प्रीताः सत्यो हव्यं वहन्ति। सूत्रकारेण तु शाखान्तरमाश्रित्याष्टगृहीतत्वमुक्तम्।
अत्रेदं चिन्तनीयम्-किमेकैकं मन्त्रमुञ्चार्य जुहुयात्, आहोस्वित्सर्वाणि मन्त्राण्यु (?) च्‍चार्येति। तव हेयोपादेयावुभौ पक्षौ क्रमेण दर्शयति
“यं कामयेत पापीयान्त्स्यादित्येकैकं तस्य जुहुयादाहुतीभिरेवैनमप गृह्णाति पापीयान्भवति यं कामयेत वसीयान्त्स्यादिति सर्वाणि तस्यानुद्रुत्य जुहुयादाहत्यैवनैमभि क्रमयति वसीयान्भवत्यथो यज्ञस्यैवैषाऽभिक्रान्तिः” [सं. का. ५ प्र. १ अ. १)] इति।
पापीयानतिशयेन पापो दरिद्र इत्यर्थः। एकैकं मन्त्रमुञ्चार्य होमे सति संश्लेषाभावात्परस्परमपरक्ताभिराहुतीभिरेनं यजमानमगृह्‍णाति धनादपेतं करोति। ततो दरिद्रो भवति। वसीयान्वसुमत्तरः। सर्वाण्युञ्चार्य होमे तु मन्त्राणां परस्परसंश्लेषादेक-यैवाऽऽहुत्या यजमानमभिक्रमयति अभिव्याप्तं करोति। ततो धनिको भवति। अपि च येममभिक्रमणहेतुरेकाऽऽहुतिरेषा यज्ञस्यैवाग्निचयनरूपस्यैवाभिक्रान्तिः स्वाधीनो यज्ञो भवति। मन्त्रागतामष्टसंख्यां प्रशंसति—
“एति वा एष यज्ञमुखादृद्ध्या योऽग्नेर्देवताया एत्यष्टावेतानि सावित्राणि भवन्त्यष्टाक्षरा गायत्री गायत्रोऽग्निस्तेनैव यज्ञमुखादृद्ध्या अग्नेदर्वैतायै नैति” [सं. का. ५ प्र. १ अ. १] इति।
यो यजमानोऽग्निरूपाया देवताया एत्यपगच्छति एष यजमानो यज्ञोपक्रमा-दारभ्य यज्ञफलरूपाया ऋद्ध्या एत्यपगच्छति। अग्निर्वै यज्ञमुखमिति श्रुत्यन्तरादग्नेरपगम एव यज्ञमुखादपगमः। कस्तर्ह्यग्नेः सकाशादपगमस्य परिहार इति, तदुच्यते—प्रारम्भे सावित्राणां मन्त्राणामष्टत्वे सत्यष्टाक्षरा गायत्री संपद्यते।

[[1753]]

अग्निश्च गायत्रः। उभयोर्मुखजन्यत्वात्। ततो गायत्रीसंपत्तिरेवाग्निसंपत्तिरिति यज्ञमुखादग्निरूपादनपेतः सन्समृद्धेरपि नापैति।
अष्टमत्रोपेतामेकामाहुतिं प्रशंसति।
“अष्टौ सावित्राणि भवन्त्याहुतिर्नवमी त्रिवृत्तमेव यज्ञमुखे वि यातयति” (सं. का. ५ प्र. १ अ. १) इति।
त्रिवृत्स्तामे ह्यृचो नवसंख्याका अतोऽत्राष्टमन्त्रविशिष्टाहुतिगतया नवसंख्याया त्रिवृत्स्तोममेव यज्ञमुखे वियातयति विशेषेण प्रसारितवान्भवति।
अत्रेदमपरं चिन्तनीयम्-किमृग्रूपान्षण्मन्त्रानुच्‍चार्येमं नो देव सवितरिति यजुः सप्तमं कृत्वा पश्चद्देव सवितरित्यृचमन्तिमां कुर्यात्। किं वैतामृचं सप्तमीं कृत्वा तद्यजुरन्तिमं कुर्यादिति। हेयोपादेयपक्षौ क्रमेण दर्शयति—
“यदि कामयेत छन्दाँसि यज्ञयशसेनार्पयेयमित्युचमन्तिमां कुर्याच्छन्दा-
स्येव यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमिति यजुरन्तम् कुर्याद्युजमानमेव यज्ञयशसेनार्पयति ” (सं. का. ५ प्र. १ अ. १ ) इति।
यज्ञयशसं यज्ञफलमर्पयेयम् संप्रोजयेयम्। छन्दोबद्धाया ऋचस्त्वन्तिमत्वे यज्ञफलं छन्दःसु गच्छेत्। यजुषस्तु च्छन्दोरहितत्वेन यज्ञफलं छन्दोगामि न भवति, किंतु यजमानगाम्येव भवति। तस्माद्यजुरेवान्तमं कुर्यादित्यर्थः।
कल्पः—ऋचा स्तोमँ समर्धयेत्यपरं चतुर्गृहीतं गृहीत्वा ” इति। जुहोतीत्य-नुवर्तते। पाठस्तु—
ऋचा स्तोममिति। हेऽग्ने स्तोत्रहेतुसामाधारभूतयर्चा स्तोमं स्तोत्रमृगावृत्तिरूपं संघातं वा समधर्य समृद्धं कुरु। गायत्रेण साम्‍ना सह रथंतरं साम समर्घय। गायत्रसामैव वर्तनी मार्गो यस्य बृहत्साम्‍नस्तद्रायत्रवर्तनि, गायत्रसामसहितं बृहत्साम समर्धय। अस्मिन्मन्ते समर्धयेति पदस्य तात्पर्यं दर्शयति—
ऋचा स्तोमँ समर्थयेत्याह समृद्ध्यै ” [सं. का. ५ प्र. १ अ. १ ] इति।
कल्पः—“देवस्य त्वा सवितुः प्रसव इति चतुर्मिरभ्रिमादत्ते वैणवीं कल्माषीं

[[1754]]

सुषिरामसुषिरां बोभयतःक्षण्मन्यतरःक्ष्णूं वा प्रादेशमात्रीमरत्‍नीमात्रीं व्याममात्री-मपरिमितां वा” इति। पाठस्तु—
देवस्य त्वेति। अत्रोखां निर्मातुं मृत्खननीया । खननहेतुः काष्ठविशेषोऽग्निः। हेऽभ्रे सवितुर्देवस्य प्रेरणे सत्यश्विनोः संबन्धिभ्यां मणिबन्धपर्यन्ताभ्यां बाहुभ्यां पूष्णः संबन्धिभ्यां साङ्‍गुलिभ्यां हस्ताभ्यां साधानभूताभ्यां सहायभूतेन गायत्रेणच्छन्दसा युक्तः संस्त्वामाददे स्वी करोमि। तत्र दृष्टान्तः—अङ्गिरस्वदङ्गिरस ऋषयः पूर्वं यथा स्वीकृतवन्तस्तद्वत्। त्वं चाभ्रिरसि खननहेतुः काष्ठविशेषोऽसि। तथा नारिरसि न विद्यतेऽरिर्यस्यास्तव सेयं नारिः खननकाले पाषाणादिना तव नास्ति कुण्ठीभाव इत्यर्थः। अङ्गिरस्वच्छब्देन प्रथमयजुषः समाप्तत्वादभ्रिरसीत्यादिकं द्वितीयं यजुः। शत्रुरहिते हेऽभ्रे पृथिव्याः सधस्थादुत्सङ्गात्पुरीष्यमग्निमाभर। पुरीषशद्वेन पांसुरूपा शुष्का मृदुच्यते, तदर्हतीति पुरीष्योऽग्निः। मृदमादायोखां कृत्वा तस्यामग्निरवस्थाप्यते। अतो मृदाग्न्योर-भेदोपचारेण मृदाहरणमेवाग्न्याहरणमिति विवक्षितत्वात्पुरीष्यमग्निमाहरेत्युच्यते । अयं चोपचारोऽग्निचयनप्रकरणे सर्वत्रानुवर्तिष्यते।
अत एव पञ्‍चमकाण्डान्ते चोद्यपरिहारौ भविष्यतः—
“ब्रह्मवादिनो वदन्ति यन्मृदा चाद्भिश्चाग्निश्वीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यग्नयो वै छन्दाँसि तस्मादग्‍निरुच्यते” [सं. का. ५ प्र. ७ अ. ९] इति।
अतः पांसुरूपमग्निमाहर्तुं त्रैष्टुभेन च्छन्दसा सहकारिणा युक्तस्त्वामाददे। अङ्गिरस्वदिति दृष्टान्तः पूर्ववत्। मृदाहरणे भ्ऱ्यादाने च दृष्ठान्तत्वाय द्विरङ्गिर-स्वदित्युक्तम्। अथ तृतीयं यजुरुच्यते। हेऽभ्रे त्वं बभ्रिर्भरणकुशला मृत्संपादन-कुशलाऽसि। नारिरसीति पूर्ववत् त्वया वयं सधस्थे पृथिव्या उत्सङ्ग आ समन्तादग्निं पुरीष्यां खनितं शकेम शक्ता भवेम, अतो जागतेन छन्दसा सहकारिणा युक्तस्त्वामाददे। अङ्गिरस्वदिति दृष्टान्तः पूर्ववत्। अथ् चतुर्थं यजुरुच्यते। सविता प्रेरकः परमेश्वरः परा हिरण्मयीं सुवर्णनिर्मितामम्रिहस्ते स्थापयित्वा विभ्रत्पोषितवत्‍न। अतस्तया हिरण्मयाभ्ऱ्या युक्ता त्वजस्त्रमित्सर्वदैव ज्योतिः प्रकाश-

[[1755]]

मानमग्निं खात्वी, अग्नित्वेनोपचारितां मृदं खनित्वा नोऽस्मदर्थमाभराऽऽनय।आनुष्टुभेन च्छन्दसा सहकारिणा युक्तेऽहं त्वामाददे। अङ्गिरस्वदिति दृष्टान्तः पूर्ववत्। एतैर्मन्त्रेरभ्‍रूयादानं विधत्ते—
“चतुर्भिरभ्निमा दत्ते चत्वारि छन्दाँसि छन्दोभिरेव” (सं. का. ५ प्र. १ अ. १) इति।
गायत्री त्रिष्टुब्‍जगत्यनुष्टुविति च्छन्दसां चतुष्टयम्। मन्त्रेषु तेषां सहकारित्वे-नाभिधानाच्छन्दोभिरेवाभ्रेरादानं कृतवान्भवति।
मन्त्रे प्रसवशब्दस्याभिप्रायं दर्शयति—
“देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै” (सं. का. ५ प्र. १ अ. १) इति। वंशनिर्मिताया अभ्रेरन्तः सुषिरत्वं विधत्ते—
“अग्निर्देवेभ्यो निलायत स वेणुं प्राविशत्स एतामूतिमनु समचरद्यद्वेणोः सुषिरँ सुषिराऽभ्रिर्भवति सयोनित्वाय” [सं. का. ५ प्र. १ अ. १] इति।
पुरा कदाचित्केनापि निमित्तेनापरक्तोऽग्निर्देवेभ्यो निरगच्छन्निर्गत्य देवानां दर्शनं वारयितुं वेणुं प्राविशत्। वेणोर्मध्ये सुषिरं स्थानं यदस्त्येषैव मूषिकस्य भूबिलवदूति-स्तामेतामूतिं वेणुमध्यगतच्छिद्ररूपामनुक्रमेण सुम्यगचरत्। अतोऽग्नेः सुषिरवेणुप्रिय-त्वादभ्‍रिः सुषिरा कार्या। तञ्च सुषिरत्वं सयोनित्वाय संपद्यते। योनिरग्‍नेः स्थानं तत्सहितत्वं सयोनित्वम्।
अथाभ्‍रेः कृष्णविन्दुलाञ्छितत्वं विधत्ते—
“स यत्रयत्रावसत्तत्कृष्णमभवत्कल्माषी भवति। रूपसमृद्ध्यै” [सं. का. ५ प्र. १ अ. १] इति।
वेणुमध्ये संचरन्नग्निर्यस्मिन्यस्मिन्स्थाने वासमकरोत्तत्स्थानं दाहेन कृष्णम-भवत्। अतोऽग्निनिवासद्योतनायाभ्रिः कल्माषी कृष्णबिन्दुलाञ्छिता कर्तव्या। तथा सत्यभ्रिरूमस्य चित्रत्वात्समृद्धिर्दृश्यते। यजमानस्य च रूपसमृद्धिर्भवति। अभ्रेरुभयोरन्तयोस्तीक्ष्णत्वं विधत्ते—

[[1756]]

“उभयतःक्ष्णूर्भवतीतश्चामुतश्चार्कस्यावरुद्ध्यै” (सं. का. ५ प्र. १ अ. १) इति।
क्ष्णु तेजन इत्यस्माद्धातोरुत्पन्नः क्ष्णुशब्दस्तीक्ष्णत्वमाचष्टे। उभयोरग्रमूल-योस्तीक्ष्णाभ्‍रिरुभयतःक्ष्णूस्तदृशी कार्या। तदेतदुभयतस्तीक्ष्णत्वमितश्चामुतश्चलोकद्व-येऽव्यर्कस्यावरुद्ध्यै पूजायाः संपत्यै भवति।
अभ्रेर्दैर्ध्यपरिगाणं विधत्ते—
“व्याममात्री भवत्येतावद्वै पुरुषे वीर्यं वीर्यसंमिता” (सं. का. ५ प्र. १ अ. १) इति।
चतुर्भिररत्‍निभिस्तुल्यो व्यामः। एतावती कार्या। उत्थिते पुरुषे वीर्यमेताव-देव। अत इयं वीर्यसंमिता भवति। पक्षान्तरं विधत्ते—
“अपरिमिता भवत्यपरिमितस्याविरुद्ध्यै” [सं. का. ५ प्र. १ अ. १] इति।
नियतपरिमाणरहितत्वमपरिमितत्वम्। तच्‍चापरिमितस्य बहुलस्यान्नादेः संपत्त्यै भवति। तादृश्या अभ्‍रेर्वेणुकार्यत्वं विधत्ते—
“यो वनस्पतीनां फलग्रहिः स एषां वीर्यवान्फलग्राहिर्मेणुर्वैणवी भवति वीर्य-स्यावरुद्ध्यै” (सं. का. ५ प्र. १ अ. १) इति।
फलानि बहूनि गृहणातीति फलग्राहिः। वनस्पतीनां मध्ये यः फलग्रहिरस्ति-एषां फलग्रहीणामपि मध्ये स वेणुरतिशयेन फलग्रहिः । ब्रीह्याद्यग्रवद्वेणूनां समाप्ति-संवत्सरे गोधूमसदृशैर्बहुभिर्वीजैरुपेतत्वात्। त्वचि सारोपेतत्वेन वीर्यवांश्च। तस्मात्दियमभ्‍रिर्वैणवी कार्या। तच्‍च वैणवत्वं वीर्यसंपत्त्यै भवति।
अत्र विनियोगसंग्रहः—
युञ्जाष्ठकेनैकहोम ऋचा स्तोमं पुनर्हुतिः।
देवेत्यभ्‍रिं चतुय्केणाऽऽदत्ते मन्त्रास्त्रयोदश।।
अत्र मीमांसा।
द्वादशाध्यायस्य तृतीयपादे चिन्तितम्—
चतुर्मिरभ्‍रिमित्यत्र विकल्पो वा समुच्‍चयः।
विकल्पः पूर्ववन्मैवं समूहे करणत्वतः।।

[[1757]]

अग्नौ श्रूयते- “चतुर्भिरभ्‍रिमादत्ते” इति। अत्र पूर्वोक्तविभागमन्त्रवत्प्रतिमन्त्रं पृथक्करणत्वं नास्ति। चतुःसंख्यया समूहे करणत्वप्रतीतेः। तस्मान्मन्त्रान्ते कर्मसंनि-पातस्य बाधेनैव समुच्‍चयः स्यात्। न च पूर्वत्यैकैकमन्त्रस्यान्ते संनिपांतेना (नै) (व समुच्‍चयः) स्यादिति शङ्कनीयम्। वाचनिकसंख्यया न्यायसिद्धस्य तस्य बाधितत्वात्।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्‍चमप्रपाठके
प्रथमोऽनुवाकः ।। १ ।।