(अथ तृतीयकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः)।
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम्।
ह॒व्या नो॑ वक्षदानु॒षक्। अ॒यमु॒ ष्य प्र दे॑व॒
युर्होता॑ य॒ज्ञाय॑ नीयते। रथो॒ न योरभीवृ॑तो॒
घृणी॑वाञ्चे ति॒तत्मना॑। अ॒यम॒ग्निरु॑रुष्यत्य॒-
मृता॑दिव॒ जन्म॑नः। सह॑सश्चि॒त्सहि॑यान्दे॒वो
जी॒वातवे कृ॒तः। इडा॑यास्त्वा प॒दे व॒यं नाभा॑
पृथि॒व्या अधि॑। जातवेदो॒ नि धी॑म॒ह्यग्ने॑
ह॒व्याय॒ वोढ॑वे ( १ )। अग्ने॒ विश्वे॑भिः स्व
नीक दे॒वैरूणविन्तं प्रथ॒मः सी॑द॒ योनि॑म्।
कु॒ला॒यिनं॑ घृ॒तव॑न्तँ सवि॒त्रे य॒ज्ञं न॑य॒ यज॑-
मानाय सा॒धु। सीद॑ होतः॒ स्व उ॑ लो॒के
चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒
वयो॑ धाः। नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒-
षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑। अद॑ब्धव्रतप्र-
मति॒र्वसि॑ष्ठः सहस्रंभ॒रः शुचि॑जिह्वो अ॒ग्निः।
त्वं दू॒तस्त्वम् [ २ ] उ॒ नः॒ प॒र॒स्पास्त्वं वस्य॒
[[1739]]
आ वृ॑षम प्रणे॒ता। अग्ने तो॒कस्य॑ न॒स्तने॑
त॒नूनामप्र॑युच्छ॒न्दीद्य॑द्वोधि गो॒पाः। अ॒भि
त्वा॑ देव सवि॒तरीशा॑नं॒ वार्या॑णाम्। सदा॑ऽ
वन्भा॒गमीमहे। म॒ही द्यौः पृ॑थि॒वी च न
इ॒मं य॒ज्ञं मि॑मिक्षताम्। पि॒तृ॒तां नो॒ भराम॑-
भिः। त्वाम॑ग्ने पुष्क॑रा॒दध्यथ॑र्वा॒ निरमन्थत।
मू॒र्ध्नो विश्व॑स्य वा॒घतः॑। तमु॑ [ ३ ] त्वा॒
द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः। वृ॒त्र॒हणं
पुरंद॒रम्। तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे द-
स्यु॒हन्तम॑म्। ध॒नं॒ज॒यँ रणेरणे। उ॒त ब्रु॑व-
न्तु ज॒न्तव॒ उद॒ग्नि॑र्वृं॑त्र॒हाऽज॑नि। ध॒नं॒ज॒यो
रणे॑रणे। आ यँ हस्ते॒ न खा॒दिनँ॒ शिशुं॑
जा॒तं न बिभ्र॑ति। वि॒शाम॒ग्निँ स्वध्व॒रम्।
प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम्। आ स्वे
यौनौ॒ नि षी॑दतु। आ [ आ ] जा॒तं
जा॒तवे॑दसि प्रि॒यँ शि॑शी॒ताति॑थिम्। स्यो॒न
आ गृ॒ह्प॑तिम्। अ॒ग्निना॒ऽग्निः समि॑ध्यते
क॒विर्गृ॒हप॑ति॒र्युवा॑। ह॒व्य॒वाड्जु॒ह्वा॑स्यः। त्वँ
ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण सन्त्स॒ता।
सखा॒ सख्या समि॒ध्यसे। तं म॑र्जयन्त सु॒क्र-
तुं॑ पु॒रोयावा॑नमा॒जिषु॑। स्वेषु॒ क्षये॑षु वा॒जि-
नम्। य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑-
[[1740]]
णि प्रथ॒मान्या॑सन्। ते ह॒ नाकं॑ महि॒मानः॑
संचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः॥
( ५ )॥
(वोढ॑वे दूतस्त्वं तमु॑ सीद॒त्वा यत्र॑ च॒त्वारि॑ च)।
इति कृष्णयदुर्वेदीयतेत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके एकादशोऽनुवाकः॥ ११॥
पूर्ण॒र्ष॑यो॒ऽग्निना॑ दे॒वे॑न॒ ये दे॑वाः॒ सूर्यः॒ सं त्वा॑ वषट्का॒रः स ख॑दिर उ॑पया-
मगृ॑हीतोऽसि॒ यां वै त्वे क्रतुं॒ प्र दे॒वमेका॑दश॥ ११॥
पू॒र्णा॑ सह॒जाँस्तवा॑ग्ने वा॒मीः प्रा॒णैरे॒व षट्त्रिँशत्॥ ३६॥
हरिः॑ ॐ।
इति कृष्णयदुर्वेदीयतेत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमः प्रपाठकः॥ ५॥
इति कृष्णयदुर्वेदीयतेत्तिरीयसंहितायां तृतीयाष्टकः॥ ३ ॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः )।
अतिग्राह्यप्राणनामग्रहा दशम् ईरिताः।
अथेकादशे पाशुकहौत्रोपयोगिमन्त्रा उच्यन्ते। तत्र ब्राह्मणग्रन्थे तृतीयकाण्डे षष्ठप्रपाठकेऽञ्जन्ति त्वामध्वरे देवयन्त इत्यत्र पाशनुकहोत्रमन्त्राः प्रायेणोक्ताः। अवशि-ष्टास्तु मन्त्रा इहामिधीयन्ते। तत्राष्टमिर्यन्त्रैरुत्तरवेदिं प्रत्याग्निं प्रणयेत्। तेषु प्रथममन्त्रमाह —
प्र देव देव्येति। हे ऋत्विग्यजमाना जातवेदसमुत्पन्नस्य जगतो वेदितारं देवं देव्या प्रकाशरूपया विवेकयुक्तया धिया प्रकर्षेण भरत पोषयत। सोऽपि जातवेदा आनुषगनुषक्त आदरयुक्तो नोऽस्माकं हव्या वक्षद्धवींषि वहतु।
[[1741]]
अथ द्वितीयमन्त्रमाह —
अयमु ष्य प्रेति। अयमेव स्यः सोऽग्निर्यज्ञार्थमुत्तरवेदिं प्रति प्रकर्षेण नीयते। कीदृशोऽग्निः। देवानात्मन इच्छतीति देवयुः। होता होमस्य निष्पादकः। रथो न योः रथ इव यवयिता पृथक्कर्ता। यथा रथः स्वस्मिन्नारूढं पुरुषं भूमिष्ठेभ्यः पृथक्कृत्य ग्रामे नयति तथाऽयमग्निः स्वस्मिन्हुतं हविरितरेभ्यो हविर्भ्यः पृथक् कृत्य देवेषु नयति। अभीवृतो यजमानैराभिमुख्येन स्वीकृतः। घृणीवान्रश्मियुक्तः। तादृशोऽग्निस्त्मना चेतति स्वयमेव यजमानभक्तिं जानाति।
तृतीयमन्त्रपाठस्तु —
अयमग्निरिति। अयं प्रणीयमानोऽग्निर्जन्मनो जन्ममात्रेणोरुष्यति प्रबुद्धो भवितुमिच्छति। अमृतादिव। यथा पीतेनामृतेन मरणरहितः प्रवर्तते तद्वत्। किंचायं देवो जीवातवे जीवनौषधाय सहसश्चित्सहीयान्कृतो बलवतोऽप्यतिप्रबलः कृतः। यदाऽयमग्निः प्रबलो भवति तदा स्वयमपि विनाशरहितो जीवति यजमानमपि यज्ञनिष्पादनेन जीवयतीत्यर्थः। चतुर्थमन्त्रपाठस्तु —
इडायास्त्वेति। हे जातवेदाऽग्ने हव्याय वोढवे हवींषि वोढुं त्वां वयं (नि) धीमहि नितरं स्थापयामः। कुत्रेति तदुच्यते — पृथिव्या अध्युपरि नाभा नाभिसदृश आहवनीयायतने। तच्चाऽऽयतनमिडापदसदृशं, यथा गोरूपाया इडाया पदं घृताहुतियुक्तं तादृशे स्थाने स्थापयामः।
पञ्चममन्त्रपाठस्तु —
अग्ने विश्वेमिरिति। विश्वेभिर्देवैः स्वनीक सर्वेऽपि देवा अस्य सेनारूपास्तादृश हेऽग्ने प्रथमो देवानां मध्ये मुख्यस्त्वं योनिं सीद स्थानं प्राप्नुहि। कीदृशं योनिम्। ऊर्णावन्तं, यथा कम्बलास्तरणोपेतो देशो मृदुस्तथाऽयं सेव्यस्तादृशं, कुलायिनं, यथा पक्षिणां नीडः सम्यङ्गनिर्मित एवमयमपि तादृशं, घृतवन्तं घृताहुत्याधारभूतम्। यद्वाऽऽहवनीयाख्यं कुलायोपेतं घृताहुतियुक्तं यज्ञं सवित्रेऽनुष्ठात्रे यजमानाय साधु नय सम्यक्समाप्तिं गमय। षष्ठमन्त्रमाह —
सीद होतरिति। हे होतहोमनिष्पादक चिकित्वानभिजस्त्वं स्वकीयस्थान
[[1742]]
उत्तरवेदिरूपे सीदोपविश। यज्ञं चेमं सुकृतस्य योनौ पुण्यकर्मणो योग्यस्थाने सादय स्थापय। देवान्वेति कामयत इति देवावीर्देवप्रिय इत्यर्थः। तादृशस्त्वं देवान्हविषा यजासि पूजयसि। हेऽग्ने यजमाने बृहद्वयो धा दीर्घमायुः स्थापय। सप्तममन्त्रमाह —
नि होतेति। होतृषदने होमनिष्पादकस्य योग्यस्थान उत्तरवेदिरूपेऽयमग्नि र्नितरामसदत्सम्यगुयविष्टवान्। कीदृशोऽग्निः। होता देवानामाह्वाता। विदानः स्थानाभिज्ञः। त्वेषो दीप्तिमान्। दीदिवान्देवेभ्यो हविषो दाता। सुदक्षोऽत्यन्त कुशलः। अदब्धव्रतप्रमतिरहिंसित कर्मणि प्रकृष्टा मतिर्यस्य स तथाविधः। वसिष्ठोऽतिशयेन वासयिता। सहस्रसंख्याकानि हवींषि भरति पोषयतीति सहस्रंभरः। शुचिः शुद्धा होमयोग्या जिह्वा ज्वाला यस्यासौ शुचिजिह्वः अष्टममन्त्रमाह —
त्वं दूतस्त्वमिति। हेऽग्ने त्वं देवानां दूतोऽसि। अग्निर्देवानां दूत आसीदिति श्रुत्यन्तरात्। त्वमु नः परस्पास्त्मेवास्माकमतिशयेन पालकः। त्वं वस्यस्त्वमेवास्मिन्कर्मणि निवासयोग्यः। हे वृषभ देवश्रेष्ठ, आ प्रणेता त्वमेवाऽऽगत्य यागस्य प्रवर्तकः, तो (नस्तो) कस्यास्मदपत्यस्य तनूनां तने शरीराणां विस्तारेऽप्रयुच्छन्प्रमादमकुर्वन्दीद्यत्तमोनिवारणेन दीपयन्। अथवा देवेभ्यो हविर्ददानो गोपाः पालकः सन्बोधि बुध्यस्वाप्रमत्तो भवेत्यर्थः। एतेऽष्टौ मन्त्रा उत्तरवेदिं प्रतयग्निप्रणयनकाले होत्रा पठनीयाः।
अथाग्निमन्थने पञ्च मन्त्रा पठनीयाः।
अभि त्वेति। हे सवितर्देव प्रेरक परमेश्वर वार्याणां निवारणीयानां विघ्ना नामीशानं विनिवारणे समर्थं त्वामभि प्राप्तुमिति शेषः। सदावऽन्सर्वदा हे रक्षक भागं भजनीयमग्निमीमहे त्वत्प्रसादात्प्राप्नुमः। अथ द्वितीयो मन्त्रः —
मही द्यौरिति। महति द्यौः पृथिवि चेत्येते उभे नोऽस्मदीयमिमं यज्ञं मिमिक्षतामाज्यहोमादिभिर्द्रव्यैः सेक्तुमिच्छां कुरुताम्। भरीमभिर्भरणैर्नोऽस्मान्पिपृतां पूरयताम्। अथ तृतीयः —
त्मामग्न इति। हेऽग्नेऽथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्थत निःशेषेण मथितवान्। अत एव पञ्चमकाण्डे ब्राह्मणमाम्नातम् — ‘पुष्क
[[1743]]
रपर्णे ह्येनमुपश्चितमविन्दत्” इति। कीदृशात्पुष्करात्। मूर्ध्न उत्तमाङ्गवत्प्रश स्तात्। विश्वस्य वाधतः सर्वस्य जगतो वाहकात्। इदं हि पुष्करपर्णमग्निमन्थनयज्ञनिष्पादनादिद्वारा जगन्निवहति। अथ चतुर्थः —
तमु त्वेति। हेऽग्नेऽथर्वणः पुत्रो दध्यङ्नामक ऋषिस्तमु त्वेधे तमु त्वां प्रज्वलितवान्। कीदृशं त्वां वृत्रहणं वैरिविनाशनं पुरंदरं रुद्ररूपेणासुरसंबन्धिनां त्रयाणां पुराणां विदारयितारम्। अत पञ्चमः —
तमु त्वा पाथ्य इति। हेऽग्ने पाथ्यनामकः कश्विदृषिस्तमु त्वा समीधे तमेव त्वां सम्यक्त्रज्वलितवान्। कीदृशः पाथ्यः। वृषा श्रेष्ठः। कीदृशं त्वां, दस्युहन्तमं तस्कराणामतिशयेन हन्तारम्। रणेरणे धनंजय तेषु तेषु संग्रामेषु धनस्य जेतारम्। अथ वह्नौ जात ऋग्द्वयं होता पठेत तत्रैयं प्रथमा —
उत ब्रुवन्त्विति। उत जन्तवः सर्वेऽपि प्राणिनः परस्परमेवं ब्रुवन्तु किमिति, अग्निरुदजनीति। कीदृशोऽग्निः। वृत्रहा शत्रुघाती, रणेरणे धनंजयश्च। अथ द्वितीया —
आ य ँ हस्त इति। खादिनं हविषां भक्षकम्। यमग्निं हस्ते न पाणाविव कस्मिंश्चित्पात्र आबिभ्राति आ निधानादृत्विजो धारयन्ति। कमिव। जातं शिशुं न सद्यः समुत्पन्नं शिशुमिव। कीदृशमग्निं, विशां स्वध्वरं प्रजानां सम्यगहिंसकम्। तमग्निं पुरतः पश्याम इति शेषः।
अस्याग्नेः पूर्वाग्निना सह मेलने प्र देवमित्याद्याः षडृचो होता पठेत्। तत्र प्रथममाह —
प्र देवं देवेति। देववीतये देवानां हविःस्वादनाय देवं दीप्तिमन्तमग्निं भरत हे ऋत्विजः प्रकर्षेण पोषयत। कीदृशं देवं, वसुवित्तममतिशयेन हविर्लक्षणधनाभिज्ञम्। स च देव आगत्य स्वे योनौ पूर्वग्निरूपे स्वकीये स्थाने निषीदतु नितरामुप समीपे प्रविष्टो भवतु। द्वितीयामाह —
[[1744]]
आ जातमिति। हे ऋत्विज इदानीं जातं प्रमयतिथिरूपमेनमग्निं पूर्वमेव स्थिते जातवेदसि शिशीत शयानं कुरुत। कीदृशे जातवेदसि। स्योने सुखरूपे। कीदृशं जातम् आ गृहपतिं सर्वतो गृहस्य पालकम्। तृतीयामाह —
अग्निनाऽग्निरिति। पूर्वसिद्धेनाग्निना सहेदानीमानीतोऽग्निः समिध्यते सम्यक्प्रज्वाल्यते। कीदृशोऽग्निः। कविर्विद्वान्। गृहपतिर्गृहस्य पालयिता। युवा नित्यतरुणः। हव्यं वहतीति हव्यवाट्। जुहूरेवाऽऽस्यं मुखं यस्यासौ जुह्वास्यः। चतुर्थीमाह —
त्वँ ह्यग्ने अग्निनेति। हे नूतनाग्ने त्वं पूर्वेणाग्निना सह सम्यक्प्रज्वाल्यसे। कीदृशस्त्वम्। विप्रा ब्राह्मणात्यभिमानी सत्विनाशराहित्येन सर्वदाऽवास्थितः। सखा सखिवदितरस्मिन्नग्नौ प्रीतियुक्तः। कीदृशेनाग्निना। विप्रेण सता सख्या च पञ्चमीमाह —
तं भर्जयन्तेति हे ऋत्विजस्तमिमं मथितमग्निं मर्जयन्त शोधयत। कीदृशं, सुक्रतुं सुष्ठु क्रतुनिष्पादकम्। आजिषु संग्रामेषु पुरोयावानं पुरतो गन्तारम्। स्वेषु क्षयेषु यजमानसंबन्धिषु स्वकीयगृहेषु वाजिनमन्नसंपादकम्। षष्ठीमाह —
यज्ञेन यज्ञमिति। देवा देवत्वं प्रेप्सवो यजमाना यज्ञेन यज्ञसाधनेन नूतनेनाग्निना सह यज्ञं यज्ञसाधनं पुरातनमग्निमयजन्त पूजितवनः। तानि मिलितानि अग्निद्वयसाध्यानि (धर्माणि) सुकृतानि प्रथमान्यासन्मुख्यान्यभवन्। ते (ह) गहिमानस्ते खलु महान्तो यजमानानाकं सचन्ते स्वर्गं समवयन्तियत्र स्वर्गे पूर्वे यजमानाः साध्याः साध्यफलोपेता देवाः सन्ति ये ( दे ) वा भूत्वा वर्तन्ते, तं नाकं सेव (सच)न्त इति पूर्वत्रान्वयः।
अत्र विधियोगसंग्रहः —
अथ पाशुकहौत्रस्य शेष औत्तरवेदिके।
अग्निप्रणयेन ह्यष्टौ प्र देवमिति मन्त्रकाः॥
अथाग्निमन्थने पञ्च जाते बह्नावुत द्वयम्।
प्र देऽग्न्यौर्मेलने षट् स्युर्मन्त्रा अत्रैकविंशतिः॥
[[1745]]
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-जुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
एकादशोऽनुवाकः॥ ११॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयकाण्डे पञ्चमः प्रपाठकः॥ ५॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधि-
राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरि-
पालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयः काण्डः समाप्तः॥ ३॥
मूलक्रमेण तृतीयाष्टके — प्रं. ५। अ. ५५।
भाष्यक्रमेण तृतीयकाण्डे — प्रं. ५। अ. ५५।
मूलक्रमेणाऽऽदितः समष्ट्यङ्काः — का.। ३ । प्र. १९ अ. २७६।
भाष्यक्रमेणाऽऽदितः समष्ट्यङ्काः — का.। ३ । प्र. १९ अ. २७१।
[[1746]]
समाप्तोऽयं श्रीमत्सायणाचार्यविरचितभाष्य-
सहितकृष्णयजुर्वेदीयतैत्तिरीयसंहिता-
यास्तृतीयः काण्डः ॥ ३ ॥