१०

(अथ तृतीयकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः)।
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भ-
व॒न्त्यूमाः॑। स्वा॒दोः स्वादि॑यः स्वा॒दुना सृजा॒
समत॑ ऊ॒ षु मधु॒ मधु॑ना॒ऽभि यो॑धि। उ॒प॒

[[1735]]

या॒मगृ॑हीतोऽसि प्र॒जापतये त्वा॒ जुष्टं॑ गृह्णा-
म्ये॒षते॒ योनिः॑ प्र॒जापतये त्वा। प्रा॒ण॒ग्र॒हान्गृ॑
ह्णात्येताव॒द्वा अस्ति॒ याव॑दे॒ते ग्रहाः॒ स्तो
मा॒श्छन्दाँ सि पृ॒ष्ठानि॒ दिशो॒ यावदे॒वास्ति॒
तत् [ १ ] अव॑ रुन्धे ज्ये॒ष्ठा वा ए॒तान्ब्रा-
ह्म॒णाः पु॒रा वि॒दाम॑क्र॒न्तस्मा॒त्तेषाँ॒ सर्वा॒ दि-
शो॒ऽभिजि॑ता अभू॒वन्यस्य॒ते गृ॒ह्यन्ते॒ ज्योष्ठ्य॑-
मे॒व ग॑च्छत्य॒भि दिशों जय॒ति पञ्च॑ गृह्यन्ते॒
पञ्च॒ दिशः॒ सर्वा॑स्वेव दि॒क्ष्वृ॑ध्नुवन्ति॒ नव॑
नव गृह्यन्ते॒ नव॒ वै पुरुषे प्रा॒णाः प्रा॒णाने॒व
यज॑मानेषु दधति प्राय॒णीये॑ चोदय॒नीये॑ च
गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः ( २ ) प्रा॒णैरे॒व
प्र॒यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न्गृह्यन्ते प्रा॒णा
वै प्रा॑णग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत्प्रजा॒-
य॑न्ति॒ यद्वा॑मदे॒व्यं योने॒श्च्यव॑ते दश॒मेऽह॑
न्वामदे॒व्यं योने॑श्च्यवते॒ यद्द॑श॒मेऽह॑न्गृ॒ह्यन्ते
प्रा॒णेभ्य॑ ए॒व तत्प्रा॒जा न य॑न्ति ( ३ )॥
[ तत्प्रा॑णग्रहाः स॒प्तत्रिँशच्च ]।
इति कृष्णयदुर्वेदीयतेत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके दशमोऽनुवाकः॥ १०॥

( अथ तृतीयकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः )।

अनुवाके तु नवमे दधिग्रहविधिः श्रुतः।

[[1736]]

अथ दशमेऽनुवाके गवामयनेऽतिग्राह्यः प्राणग्रहश्चोच्यन्ते।
कल्पः — “अतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशं निहितानि भवन्ति मध्ये पञ्चमम्” इत्युपक्रम्य पञ्चसु पात्रेषु तत्तन्मन्त्रैर्ग्रहणासादने अभिधायेदमुक्तम् — ‘तानन्यस्मिन्पात्र आनीय सर्वान्मध्यमे गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति” इति। पाठस्तु —
त्वे क्रतुपीति। हेऽत्रिग्राह्या त्वे त्वायि क्रतुमपि वृञ्जन्ति सर्वमपि क्रतुम त्विजः समापयन्ति। ग्रहान्तरेभ्योऽस्य को विशेष इति। तदुच्यते-यद्यस्मात्का रणाद्द्विस्त्रि-र्द्विवारं विचारं वेत्येवं पञ्चसु पात्रेषु गृहिता एते रसा विश्वे सर्वे प्यूमरक्षका भवन्ति तस्मात्त्वयि क्रतोः समापनं युक्तम्। अतस्त्वमपि स्वादोरपि रसातिशयेन स्वादु यथा भवति तथा स्वादुना संसृज स्वादुत्वेन संसर्गं कुरु। अत उ षु अतोऽपि सुष्ठु यथा भवति तथा मधु मधुनाऽभियोधि मधुनो भागं मधुना भागान्तरेणाभियोधि। य एवं मधुरस उपयामेन पार्थिवपात्रेण गृहीतोऽसि प्रजापतये जुष्टं प्रियमितरपात्रेभ्य आनीतं त्वां मध्यमपात्रे गृह्णामि। सोऽयं ग्रहणमन्त्रः। एष स्वरप्रदेशस्ते योनिस्ताव स्थानम्। अतः प्रजापत्यर्थं त्वामत्र सादयामि। अनेन मन्त्रेण गवामयनस्य संवत्सरसत्रस्योपान्त्येऽह्नि महाव्रताख्येऽतिग्राह्यं गृह्णीयात्।
अथ चतुर्थकाण्डसमाम्नातैरथं पुरो भुव इत्यादिभिर्मन्त्रैः पृश्निग्रहवत्सोमो-न्मानरूपान्ग्रहान्विधत्ते —

प्राणग्रहान्गृह्णातीति। यथा यत्पृश्नयो गृह्यन्त इत्यत्र वायुरसि प्राणो-नामेत्यादिभिर्मन्त्रैः सोमोन्मानविशेषा एव ग्रहा इत्युक्तमेवमत्राप्ययं पुरो भुवा इत्यादिभिः प्राणमन्त्रैः सोमोन्मानविशेषाः प्राणग्रहा इत्युच्यन्ते। तान्गृह्णीयात्सोमोन्मानं कुर्यादित्यर्थः। एते ग्रहा इति यावत्। एतावदेवात्रापेक्षितमस्ति। स्तोमास्त्रिवृत्पञ्चदशादयः। छन्दांसि गायत्र्यादीनि। पृष्ठानि माध्यंदिनपवमानानन्तरभावीनि स्तोत्राणि। दिशः प्राच्याद्याः। इत्येतादृशं यावदेवापेक्षितमस्ति तत्सर्वमतैग्रहैरवरुन्धे। प्रकारान्तरेण प्राणग्रहान्प्रशंसति —
ज्येष्ठा वा एतानिति। यस्मादेतान्ग्रहान्गृह्णन्तो ब्राह्मणा ज्येष्ठा दिशां जे

[[1737]]

तारश्चाभूवंस्तस्माद्यस्यैते गृह्यन्ते स इतरेभ्यो ज्योष्ठ्यं प्राशस्त्यमेव प्राप्नोति नाना दिक्ष्ववस्थिताश्च पुरुषास्तस्य भवन्ति। प्राणग्रहपर्यायाणां संख्यां विधत्ते —
पञ्च गृह्यन्त इति। अयं पुरो भुव इत्यादिभिर्मन्त्रैः प्रथमः पर्यायः। अयं दक्षिणाविश्वकर्मेत्यादिभिर्द्वितीयः अयं पश्वाद्विश्वव्यचा इत्यादिभिस्तृतीयः। इदमुत्तरात्सुवरित्यादिभिश्चतुर्थः। इयमुपरि मतिरित्यादीभिः पञ्चमः। प्राच्यादय उर्ध्वान्ताः पञ्च दिशः। तासु दिक्षु सर्वास्वनेन पञ्चविधग्रहणेन समृद्धिं प्राप्नुवन्ति। एकैकस्मिन्पर्याये सोमांशुसंख्यां विधत्ते —
नवनव गृह्यन्त इति। शिरोवस्थितेषु सप्तसुच्छिद्रेष्वधोवस्थितयोश्च द्वयोश्छिद्रयोः संचरन्तः प्राणा नवसंख्याकाः। नवांशुग्रहणेन तान्यजमानेषु स्थापयति (न्ति)। अस्य ग्रहणस्य कालं विधत्ते —
प्रायणीय इति। संवत्सरसत्रस्य प्रथममहः प्रायणीयं, चरममहरुदयनीयं, तयोरुभयोर्गृह्णीयात्। तथा सति तेषां ग्रहाणां प्राणरूपत्वात्प्राणैरेव संवत्सरमुपक्रम्य प्राणैरेव समापितवन्तो भवन्ति। कालान्तरं विधत्ते —
दशमेऽहन्निति। संवत्सरसत्रस्य द्वादशाहविकृतित्वात्तदीयान्यहान्यत्र प्रयोक्तव्यानि। तेषु यद्दशममहस्तस्पिन्प्राणग्रहान्गृह्णीयात्। वामदेव्याख्यस्य साम्नः कया निश्चित्र आ भुवदित्येषा योनिः। दशमेऽहनि तुतां योनिं परित्यज्यान्यस्यामृचि तत्साम गीयते। तथा सति वामदेव्यं स्वयोनेश्च्यवत इति यतू, एतेनापराधेन प्रजाः प्राणेभ्यो यन्त्यपगच्छन्ति। तत्र प्राणग्रहाणां प्राणरूपत्वाद्दशमेऽहनि तेषां ग्रहणेन पर्जाः प्राणेभ्यो नापगच्छन्ति।
अत्र विनियोगसंग्रहः —
“त्वे गवामयने पात्रेऽतिग्राह्यग्रहणं भवेत्।
अयं पुरो भुवः प्राणग्रहाणां पञ्च मन्त्रकाः॥
सोमांशवो नव नव ग्राह्याः पर्यायपञ्चके।
कया नश्चित्र एतस्या योनेर्भ्रष्टं तु साम तत्।
अग्निं नर इति ह्यत्र गीयते दशमेऽहनि”॥ इति।

[[1738]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
दशमोऽनुवाकः॥ १०॥