(अथ तृतीयकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः)।
यां वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्त-
रि॒तस्तस्या॒ आ वृ॑श्च्येते प्राजाप॒त्यं द॑धि
ग्र॒हं गृ॑हणीयात्प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒व-
ता॑भ्य ए॒व नि ह्नु॑वाते ज्ये॒ष्ठो वा ए॒ष ग्रहा॑-
णां॒ यस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति॒ सर्वा॑-
सां॒ वा ए॒तद्दे॒वता॑नाँ रू॒पं यदे॒ष ग्रहो॒ यस्यै॒ष
गृ॒ह्यते॒ सर्वा॑ण्ये॒वैनँरू॒पाणि॑ पशू॒नामुप॑ ति-
ष्ठन्त उप॒यामगृ॑हीतः [ १ ] अ॒सि॒ प्र॒जाप॑-
तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मतं गृह्णा॒मी-
[[1732]]
त्या॑ह॒ ज्योति॑रे॒वैनँ समा॒नार्ना॑ करोत्याग्नि-
जि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑है॒ताव॑ती॒र्वै दे॒वता॒
स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृहणा॒त्यपे॑न्द्र द्वि-
ष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑
त्वाऽपा॒नाय॒ त्वेत्या॑ह प्रा॒णाने॒व यज॑माने द
धाति॒ तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने ज्यो
ति॑ष्मते॒ ज्योतिष्मन्तं जुहोमि ( २ ) इत्या॑ह
प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः॒ सर्वा॑भ्य ए॒वैनं॑ देवता॑
भ्यो जुहोत्याज्यग्र॒हं गृह्णीया॒त्तेज॑स्कामस्य॒
तेजो॒ वा आज्यं॑ तेज॒स्व्ये॑व भ॑वति सोमग्र॒हं
गृ॑ह्णीयाद्ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सं वै
सोमो॑ ब्रह्मवर्च॒स्ये॑व भ॑वति दधिग्र॒हं गृ॑ह्णी
यात्पशुका॑मस्यौग्वै दध्यूर्क्पशव॑ ऊ॒र्जैवास्मा॒
ऊर्ज॑ ष॒शूनव॑ रुन्धे [ ३ ]॥
[ उप॒या॒मगृ॑हीतो जुहोमि॒ त्रिच॑त्वारिँ शञ्च ]।
इति कृष्णयदुर्वेदीयतेत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके नवमोऽनुवाकः॥ ९॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः )।
दधिग्रहस्य ये मन्त्रा अष्टमे ते प्रकीर्तिताः।
अथ नवमेऽनुवाके ते मन्त्रा व्याख्यातव्याः।
तत्राऽऽदौ दधिग्रहं विधत्ते —
यां वा अध्वर्युरिति। सोमयागे देवताबाहुल्यादध्वर्युयजमानो प्रमादेन
[[1733]]
यस्या देवताया अन्तरायं कुर्वाते तस्या देवताया उभौ विच्छिन्नौ भवतस्तस्या देवताया अपराधिनावित्यर्थः। अतोऽपराधपरिहाराय प्रजापतिदेवताकं दधिग्रहं गृह्णीयात्। प्रजापतिश्च स्रष्टृत्वात्सर्वदेवतारूपः। अतस्तस्मै ग्रहं दत्त्वा सर्वदेवताभ्योऽन्नवन्तावित्वेवं निह्नवमपलापं कुरुतः। तेनापलापेन देवता द्वेषं मुञ्चति।
अस्य ग्रहस्य सर्वग्रहेभ्यः प्राथम्यं विधत्ते —
ज्येष्ठो वा इति। ग्रहाणां मध्ये ज्येष्ठः प्रथमभावी। तस्मात्प्रथमं गृह्णीयादित्यर्थः। यस्य यजमानस्यैष ग्रहः प्रथमं गृह्यते स यजमानो ज्यैष्ठ्यमेव गच्छति सर्वेषां यजमानानां मध्ये मुख्यत्वं प्राप्नोत्येव।
तस्य ग्रहस्य प्रजापतिदेवताकत्वं प्रशंसति —
सर्वासां वा इति। एष प्रजापतिदेवताको ग्रह इति यदेतत्सर्वासामेव देवतानां स्वरूपम्। प्रजापतेः सर्वदेवतात्मकत्वात्। अतो यस्य यजमानस्यैष गृह्यत एनं यजमानं पशूनां सर्वाणि रूपाणि गवाश्वदीनि प्राप्नुवन्ति।
अत्र ग्रहणमन्त्रस्य पूर्वभागे ज्योतिर्विशेषणं प्रशंसति —
उपयामगृहीत इति। एनं यजमानं समानानां मध्ये ज्योतिरेव तेजोयुक्तमेव करोति।
उत्तरभागे प्रजापत्यवयवभूतानां देवतानां प्रतिपादकान्यग्निजिह्वेभ्य इत्या-दीनि नवसंख्याकानि चतुर्थ्यन्तपदानि, तेषां तात्पर्यं संगृह्य दर्शयति —
अग्निजिह्वेभ्य इति। हरणमन्त्रगतस्यापजहीत्येतस्य तात्पर्यं दर्शयति —
अपेन्द्र द्विषत इति। होममन्त्रपूर्वभागे प्राणादिपदतात्पर्यं दर्शयति —
प्राणाय त्वेति। प्रजापतिपदतात्पर्यं दर्शयति —
तस्मै त्वेति। एनं दधिग्रहम्।
अत्र काम्यान्गुणविशेषांस्त्रीन्विधते —
आज्यग्रहं गृह्णीयादिति। स्पष्टोऽर्थः।
अत्र मीमांसा।
चतुर्थाध्यायस्य चतुर्थपादे चिन्तितम् —
[[1734]]
नित्ये (त्य) नैमित्तिकत्वे वा नित्यतैव दधिग्रहे।
देवान्तरायाज्ज्यैष्ठ्याय स्यादस्योभयरूपता॥
निमित्तत्वद्योतिनोऽत्र यदिशब्दादयो नहि।
अतोऽस्य न निमित्तत्वं केवला नित्यतोचिता॥
ज्योतिष्टोमे श्रूयते — “यां वै कांचिदध्वर्युर्यजमानश्च देवतामन्तरितस्तस्या आवृश्च्येते यत्प्रजा त्यं दधिग्रहं गृह्णाति शमयत्येवैनाम्” इति। सोऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः। कुतः। आकारद्वयसद्भावात्। देवतान्म रायेण तद्देवताक्षोभ-मुपन्यस्य ग्रहेण समाधानाभिधानादन्तरायो निमित्तं ग्रहो नैमित्तिक इति प्रतिभाति। तथा ज्येष्ठत्वमाम्नातम् — “ज्येष्ठो वा एष ग्रहाणाम्” इति। ज्येष्ठत्वं नाम प्रशस्तत्वं, तच्च नित्यत्वे सत्युपपद्यते। नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम्। तस्माद्धेतुद्वयबलादु-भयात्मक इति चेन्मैवम्। देवतान्तरायस्यनिमित्तत्वात्। निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयेत, यच्छब्दो वाऽन्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत। “यदि रथं तरसामा सोमः स्मादैद्रवायवाग्रान्गृह्णीयाद्भिन्ने जुहोति यो वै संवत्सरमुख्यमभृत्वाऽग्निं चिनुते” इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात्। तस्मात्केवल नित्यत्वमव दधिग्रहस्योचितम्। देवताक्षोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेऽर्थवादः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
पञ्चमप्रपाठके नवमोऽनुवाकः॥ ९॥