०८

(अथ तृतीयकाण्डे पञ्चमप्रपाठकेऽष्टमोऽनुवाकः)।
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑
ष्मते॒ ज्योति॑ष्मन्तं गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑
रा॒तं देवेभ्योऽग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्ये
ष्ठेभ्यो॒ वरु॑णराज्यभ्यो॒ वातापिभ्यः प॒र्जन्या॑-
त्मभ्यो दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै
त्वाऽपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒
यो नो॑ऽराती॒यति॒ तं ज॑हि प्रा॒णाय॑ त्वाऽपा॒-
नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वाऽस॑ते त्वा॒ऽ
द्भ्यस्त्वौष॑धीभ्यो॒ विश्वे॑भ्यस्त्वा भू॒तेभ्यो॒ यतः॑
प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै॑ त्वा प्र॒जा-
प॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं
जुहोमि [ १ ]

(ओष॑धीभ्य॒श्चतु॑र्दश च)।

[[1730]]

इति कृष्णयदुर्वेदीयतेत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठकेऽष्ठमोऽनुवाकः॥ ८॥

( अथ तृतीयकाण्डे पञ्चमप्रपाठकेऽष्ठमोऽनुवाकः )।
इष्ट्यङ्गानां स्रुचां वृक्षाः सप्तमे समुदीरिताः।
अथाष्टमे दधिग्रहमन्त्रा उच्यन्ते।
कल्पः — “उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीति दधि गृहीत्वा” इति। पाठस्तु —
उपयामगृहीत इति। हे दधिग्रह उपयामेन पार्थिवपात्रेण गृहीतोऽसि। ज्यो-तिष्मते प्रजापतये ज्योतिष्मन्तं त्वा गृह्णामि। दक्षान्कर्मकुशलान्वर्धयतीति दक्षवृधू, तस्मै दक्षवृधे दक्षाय दक्षनाम्ने रातं पूर्वं प्रजापतिना दत्तम्। किंच देवेभ्यो रातं दत्तम्। कीदृशे-भ्योऽग्निजिह्वेभ्यः। अग्निरेव जिह्वा येषां तेऽग्निजिह्वाः। ऋतं सत्यमात्मन इच्छन्तीत्यृ-तायवः। इन्द्रो ज्येष्ठो येभ्यस्त इन्द्रज्येष्ठाः। वरुणो राजा येषां ते वरुणराजानः। वातं वायुमाप्नुवन्तीति वातापिनो वाय्वाहारा इत्यर्थः। पर्जन्य एवा ऽत्मा येषां ते पर्जन्या-त्मानो वृष्ट्यादिसहिष्णव इत्यर्थः। ईदृशेभ्यो देवेभ्यो रातं त्वां गृह्णामि। तथा दिवे द्युलोकप्राप्त्यर्थं त्वां गृह्णामि। एवमन्तरिक्षाय त्वा पृथिव्यै त्वेत्युभयं योज्यम्।
कल्पः — “अपेन्द्र द्विषतो मन इति हरति” इति। पाठस्तु —
अपेन्द्र द्विषत इति। विविधो हि शत्रुर्द्विषञ्जिज्यासन्नरातीयश्चेति। यजमानस्य विद्यमानं द्रव्यादिकं यो विनाशयति स द्विषन्नित्युच्यते। यस्तु द्रव्यमपहर्तुं शक्तोऽप्यस्य वयोहानिं मरणमेवेच्छति स जिज्यासन्नित्युच्यते। रातिर्दा नमरातिरदानं तदात्मन इच्छति देयत्वेन प्राप्तं किमपि न ददातीत्यर्थः। तादृशोऽरातीयन्नित्युच्यते। हे इन्द्र त्वं द्विषतः शत्रोर्मनोऽपजहि। तथा जिज्यासतः शत्रोर्मनोऽपजहि। तथा यो नोऽस्मा-कमरातिमिच्छति तमपजाहि।
कल्पः — “प्राणाय त्वाऽपानाय त्वेति जुहोति” इति। पाठस्तु —

[[1731]]

प्राणाय त्वेति। हे दधिग्रह प्राणाय प्राणप्रीत्यै त्वां जुहोमि। एवमपानाय त्वेत्यादिषु योज्यम्। प्राण ऊर्ध्ववृत्तिः। अपानोऽवाग्वृत्तिः। व्यानो मध्यवृत्तिः। शास्त्री-यमार्गवर्ती पुरुषः संस्तद्विपरीतोऽसन्। आप ओषधयश्च प्रसिद्धः। ओषधीभ्य इत्यत्रा-नाम्नातमपि त्वेतिपदमनुषञ्जनीयम्। विश्वानि भूतानि सर्वप्राणेनस्तेषां सर्वेषां प्रीत्यै त्वां जुहोमि। किंच, यतः प्रजापतेः सकाशात्प्रजाः सर्वा अक्खिदाः खेद्ररहिता उत्पन्नाः स प्रजापतिर्विभुत्मैश्वर्यं ददातीति विभूदावा। सर्वप्रकाशकत्वेन ज्योतिष्मन्तं त्वां जुहोमि।
अत्र विनियोगसंग्रहः —
उपया दधि गृह्णात्यपेन्द्रेति हरति ग्रहम्।
प्राणायेति जुहोत्येवं त्रयो मन्त्रा इहेरिताः॥
एते च मन्त्रा यमग्ने पृत्सु मर्त्यमित्येतस्मान्मन्त्रादूर्ध्वं द्रष्टव्याः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
ष्टमोऽनुवाकः॥ ८॥