०७

(अथ तृतीयकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः)।
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिन॒त्तस्यै॒
रसः॒ परा॑ऽपतत्स पृ॑थिवीं प्रावि॑श॒त्स ख॑दि-
रो॑ऽभव॒द्यस्य॑ खादि॒रः स्रु॒वो भव॑ति छन्द॑सा
मे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्ताऽऽहु॑तयो
भवन्ति तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒त्तं
गा॑य॒त्र्याऽह॑रत्तस्य॑ प॒र्णम॑च्छिद्यत॒ तत्प॒र्णो॑ऽ
भव॒त्तत्प॒र्णस्य॑ पर्ण॒त्वं यस्य॑ पर्ण॒मयी॑ जुहूः
[ १ ] भव॑ति सौ॒म्या अ॒स्याऽऽहु॑तयो भव-
न्ति जु॒षन्ते॑ऽस्य दे॒वा आहु॑तीर्दे॒वा वै ब्रह्म॑-
न्नवदन्त॒ तत्प॒र्ण उपा॑शृणोत्सु॒श्रवा॒ वै नाम॒
यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒पँ श्लोकँ॑
शृणोति॒ ब्रह्म॒ वै प॒र्णो विण्मा॒रुतोऽन्नं॒ वि-
ण्मा॑रु॒तो॑ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॒त्या-
श्व॑त्थ्युप॒भृद्ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्धेऽथो॒ ब्रह्म॑
( २ ) ए॒व वि॒श्यध्यू॑हति रा॒ष्ट्रं वै प॒र्णो वि
ड॑श्व॒त्थो यत्प॑र्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृ-

[[1727]]

द्रा॒ष्टमे॒व वि॒श्यध्यू॑हति प्रजाप॑तिर्वा अ॑जुहो॒-
त्सा यत्राऽऽहु॑तिः प्र॒त्यति॑ष्ठ॒त्ततो॒ विक॑ङ्कत॒
उद॑तिष्ठ॒त्ततः॑ प्र॒जा अ॑सृजत॒ तस्य॒ वैक॑ङ्कती
ध्रु॒वा भव॑तिः॒ प्रत्ये॒वास्याऽऽहु॑तयस्तिष्ठ॒न्त्यथो॒
प्रैव जा॑यत ए॒तद्वै स्रु॒जाँ रू॒पं यस्यै॒वँरू॑पाः॒
स्रुचो॒ भव॑न्ति॒ सर्वा॑ण्ये॒वैनँ॑ रू॒पाणि॑ पशू॒
नामुप॑ ति॑ष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते
[ ३ ]॥
(ज॒हूरथो॒ ब्रह्म॑ स्रु॒चाँ स॒प्तद॑श च)।
इति कृष्णयदुर्वेदीयतेत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके सप्तमोऽनुवाकः॥ ७॥

( अथ तृतीयकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः )।

षष्ठेऽनुवाके संप्रोक्ता योक्त्रबन्धादिमन्त्रकाः।

अथ सप्तमेऽनुवाके दर्शपूर्णमासाङ्गभृतानां स्रुचां वृक्षविशेषा विधीयन्ते।
तत्र स्रुववृक्षं विधत्ते —
वषट्कारो वा इति। वषट्काराभिमानी देवः केनापि विरोधेन गायत्रियाः शिरश्चिच्छेद। तदा तस्या गायत्र्यश्छिन्नप्रदेशाज्जलं भूमौ पतित्वा खदिरो वृक्षोऽभवत्। अतः स्रुवः खादिरः कर्तव्यः। तथा सति स्रुवेण यद्यदवद्यति तत्सर्व छन्दोरसेनावृत्तं भवति। ततोऽस्य यजमानस्याऽऽहुतयः सरसा भवन्ति।
अथ जुहूणा वृक्षविशेषं विधत्ते —
तृतीयस्यामिति। इतो भूलोकादारभ्य गण्यमानो यो द्युलोकस्तृतीयो भवति तत्र सोमः पूर्वमासीत्। ते च गायत्री समाहरत्। आहरणप्रकारः कद्रूश्चेत्यनुवाके प्रञ्चितः। तस्याऽऽह्रियमाणस्य सोमस्यैकं पर्णं भूमौ पतित्वा पला-

[[1728]]

शवृक्षोऽभवत्। पर्णजन्यत्वात्तस्य वृक्षस्य पर्णनाम संपन्नम। तादृशेन पर्णवृक्षेण जुहूं निष्पादयेत्। तथा सति जुहूणा हूयमाना आहुतयः सर्वाः सोमसंबन्धिन्यो भवन्ति। देवाश्च ता आहुतीः प्रीतिपुरःसराः सेवन्ते।

ते पर्णवृक्षं प्रकारान्तरेण प्रशंसति —
देवा वा इति। यदा देवा ब्रह्मतत्त्वविषये परस्परं संवादं सहसि कृतव न्तस्तदानीं पर्णवृक्षाभिमानी देवस्तद्वृक्षच्छायायामुपविष्टानां देवानां वचनमशृणोत्। तस्मात्सुश्रवा इति तस्य नाम संपन्नम्। यस्मादयं वृक्षः सुश्रवास्तस्माज्जुह्णास्तन्मयत्वे सति यजमानः शोभनं स्तुतिरूपमेव वाक्यं सर्वदा शृणोति न तु कदाचिदपि पापं श्लोकं निन्दावचनं शृणोति।
अथ जुह्णाः पर्णमयीत्वं दृष्टान्तार्थमनुवदन्नुपभृतोऽश्वत्थवृक्षं विधत्ते
ब्रह्म वै पर्ण इति। देवैरुच्यमानस्य ब्रह्मणः श्रवणापर्णवृक्षोऽपि ब्रह्मैव। वैश्यजात्याभिमानित्वेन मरुतां सृष्टत्वान्मरुतोऽपि विड्रूपाः। कृष्यादिपरैर्वैश्यै संपादित-दन्नमपि मरुद्रूपम्। “मरुतां वा एतदोजो यदश्वत्थः” इति श्रवणादश्वत्थस्य मारुतत्वम्। एवं स्थिते सति यो यजमानो जुहूं पर्णमयीं करोति स एवोपभृतमाश्वत्थस्य कुर्यात्। उभयस्मिन्कृते सति जुहूरूपेण ब्रह्मणैवाश्वत्यस्वामिना मरुतां विड्रूपान्नमवरुद्धं भवति। किंच, ब्राह्मणजातिमेव वैश्यजातावधिकत्वेन स्थापयति। तदुभयमपि प्रकारान्तरेण प्रशंसति —
राष्ट्रं वै पर्ण इति। पर्णवृक्षस्वामिब्राह्मणजातिनिवासस्थानत्वादाष्ट्रत्वं पर्ण रूपत्वम्। मरुद्देवताद्वाराऽश्वत्थस्य विड्रूपत्वम्। अतः षूर्वोक्तरीत्या जुहूपभृतोर्वृक्ष द्वयनि-ष्पादितयोः सत्योर्ब्रह्मरूपं राष्ट्रमश्वत्थरूपायां विश्यधिकत्वेन स्थापितं भवति।
अथ ध्रुवाया विकङ्कतवृक्षं विधत्ते —
प्रजापतिर्वा इति। प्रजापतिना पूर्वहुताऽऽहुतिर्यत्र स्थिता तस्माद्देशाद्वि कङ्कतवृक्ष उदपद्यत। तस्माद्विकङ्कताद्यज्ञसाधनभूतात्प्रजा असृजत। तस्माद् ध्रुवां वैकङ्कती कुर्यात्। तथा सत्यस्य यजमानस्याऽऽहुतयः प्रतिष्ठिता भवन्ति। किंचायं प्रजा उत्पादयति। स्रुग्वृक्षविधिमुपसंहरति —
एतद्वै स्रुचामिति। खादिरत्वं पर्णमयीत्वप्राश्वत्थत्वं वैकङ्कतत्वं चेति

[[1729]]

यदतदेव क्रमेण स्रुचां [ स्रुव] जुहूपभृदूध्रुवाणां मुख्यं स्वरूपम्। तथा सति यस्य यजमानस्य स्रुच एवंरूपा भवन्ति, एनं यजमानं गवाश्वादिरूपाणि सर्वाण्यपि प्राप्नुवन्ति। किंचास्य यजमानस्याऽऽत्मन्स्वोदरे किंचिदप्यपत्यमपरूपं विरुद्धस्वरूपोपेतं न जायते, किंतु सर्वमप्यपत्यं सुखरूपमेव जायते॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
सप्तमोऽनुवाकः॥ ७॥