(अथ तृतीयकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः)।
सं त्वा॑ नह्यामी॒ पय॑सा घृ॒तेन॒ सं त्वा॑
नह्याम्य॒प ओष॑धीभिः। स त्वा॑ नह्यामि प्र-
जया॒ऽहम॒द्य सा दी॑क्षि॒ता स॑नवो॒ वाज॑म॒स्मे।
प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिं॒ वर्णे॑न सीदतु। अथा॒-
हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह। सु॒प्र॒-
जस॑स्त्वा व॒य ँ सु॒पत्नी॒रुप॑ सेदिम। अग्ने
सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम्। इ॒मं वि-
व्या॑मि॒ वरु॑णस्य॒ पाश॑म् ( १ ) यमब॑ध्नित स-
वि॒ता सु॒केतः॑। धा॒तुश्च॒ योनौ॑ सुकृतस्य॑
लो॒के स्यो॒नं मे॑ सह पत्या॑ करोमि। प्रेह्यु-
देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्रं॑ नय॒त्वदिति॒र्मध्यं॑
ददताँ रु॒द्राव॑सृष्टाऽसि यु॒वा नाम॒ मा मा॑
हिँसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे-
भ्यो वो देवेभ्यः॑ प॒न्नेजनी॑र्गृह्णामि य॒ज्ञाय॑
वः प॒न्नेज॑नीः सादयामि॒ विश्व॑स्य ते॒ विश्वा॑-
वतो॒ वृष्णि॑यावतः [ २ ] तवा॑ग्ने वा॒मीरनु॑
सं॒द्दशि॒ विश्वा॒ रेताँ॑सि धिषी॒याम॑न्दे॒वान्यज्ञो
[[1723]]
नि दे॒वीर्दे॒वेभ्यों य॒ज्ञम॑शिषन्न॒स्मिन्त्सु॑न्व॒ति
यज॑मान आ॒शिषः॒ स्वाहा॑कृताः समुद्रे॒ष्ठा
ग॑न्ध॒र्वमा ति॑ष्ठतानु॑। वातस्य॒ पत्म॑न्नि॒ड ई॑-
डि॒ताः (३ )॥
(पशुं॒ वृष्णि॑यावतास्त्रिँ॒शञ्च॑)।
इति कृष्णयदुर्वेदीयतेत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके षष्ठोऽनुवाकः॥ ६॥
[ अथ तृतीयकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः ]।
आदित्यग्रहमन्त्रा ये ते पञ्चप उदीरिताः।
अथ षष्ठेऽनुवाके पत्नीविषया मन्त्रा उच्यन्ते।
कल्पः- “अत्र दर्शपूर्णमासवत्पत्नीँ संनह्यति सं त्वा नह्यामीति विकारः” इति। पाठस्तु —
सं त्वा नह्यामीति। हे पत्नि त्वां पयसा घृतेन च निमित्तभूतेन संनह्यामि तदुभयसिद्ध्यर्थं सम्मग्योक्त्रेण बध्नामि। तथौषधीभिः सहिता अप उद्दिश्य तदुभय-सिद्ध्यर्थं त्वां संनह्यामि। प्रजया निमित्तभूतयाऽहमध्वर्युरद्यास्मिकन्कर्मणि त्वां संनह्यामि। अस्मे अस्मासु वाजमन्नं सनवः सनितुं दातुं सा पत्नी दीक्षिता भवतु।
कल्पः — “प्रेतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता पत्नीमुदानयति”। पाठस्तु —
प्रैतु ब्रह्मण इति। ब्रह्मणो ब्राह्मणस्य यजमानस्य पत्नी प्रैतु पत्नीशालाया निर्गत्य प्रकर्षेण गच्छतु गत्वा प्राप्नोतु।
कल्पः — “अथाहमनुकामिनीति पत्नीं शालामुखीयमुपोपविश्य” इति। पाठस्तु —
अथाहमन्विति। अथाहमिह स्वे लोके स्थाने विशा उपविशामि। कीदृशी। अनुकामिनी यजमानस्याऽऽनुकूल्यं कामयमाना।
कल्पः — “सुप्रजसस्त्वा वयमिति जपति” इति। पाठस्तु —
[[1724]]
सुप्रजसस्त्वेति। हेऽग्ने सुप्रजसः शोभनापत्याः सुपत्नीर्धर्मपत्न्यो वयमदब्धासः केनाप्यतिरस्कृताः सत्यस्त्वामुपसेदिम तव समीप उपविष्टाः स्मः। कीदृशं त्वां, सपत्नदम्भनं वैरिनाशकम्। अदाभ्यं केनाप्यतिरस्कार्यम्।
कल्पः — “विचचृत इमं वि ष्यामीति पत्नी योक्त्रम्” इति। पाठस्तु —
इमं वि ष्यामीति। सुकेतः शोभनज्ञानयुक्तः सविता प्रेरकोऽन्तर्यामी यं योक्त्ररूपं वरुणस्य पाशं पूर्वमबध्नीत तमिमं विष्यामि विमुञ्चामि। तत सुकृतस्य फलभूत उत्तमे लोके धातुश्च परमेश्वरस्य योनौ स्थाने पत्या सह मे स्योनं सुखं करोमि।
कल्पः “प्रदेह्युहीति नेष्टा पत्नीमुदानयति” इति। पाठस्तु —
प्रेह्युदेहीति। हे पत्नि प्रेहि शालामुखीयस्थानान्निर्गत्य पन्नेजनीरप आनेतुं प्रकर्षेण गच्छोदेहि विलम्बमकृत्वोत्थाय गच्छ। ऋतस्य वामीर्यज्ञस्य प्रेरकोऽयमग्निस्ते गमनमनुमन्यमानोऽग्रं नयतु परतः प्रेरयतु। अदितिर्भूमिश्च मध्यं ददताम्। उभयोः पार्श्वयोर्मध्येऽवस्थितं मार्गं प्रयच्छतु। त्वं च रुद्रावसृष्टाऽसि क्रूरेणोपद्रवकारिणा देवेन विमुक्ताऽसि। अतो युवा नामासि युवतिर्वा बाधकेभ्यः पृथग्भूता वाऽसि। इत्थकामाकारयन्तं मां नेष्टारं मा हिंसीर्मा बाधस्व।
कल्पः- “पन्नेजनीर्गृह्णाति प्रत्यङ्क्ति (ङ्ति)ष्ठन्ती सुभ्यो रुद्रेभ्य आदित्येभ्य इति”। पाठस्तु —
वसुभ्यो रुद्रेभ्य इति। हे आपो वो युष्मान्पन्नेजनीर्गृह्णामि। किमर्थं वस्वादिदेवप्रीत्यर्थमपि पन्नेजनीर्वो गृह्णामि।
सादयामीति। कल्पः — “पत्नी पन्नेजनीः सादयति प्रत्यङ्क्ति (ङ्ति) ष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति” इति।
अत्र सादयामीत्येतावानाम्नातो मन्त्रः। तस्य च शेषत्वेन वसुभ्य इत्यादिकं गृह्णामीतिपदव्यतिरिक्तं सर्वमनुषज्य पूर्ववद्व्याख्येयम्।
कल्पः — “विश्वस्य ते विश्वात्रत इति हिंकारमनृदुगात्रा पत्नीं संख्यापयति” इति।
[[1725]]
हिंकारमुञ्चार्यानन्तरमुद्गाता यथा पत्नीं पश्यति तथाऽध्वर्युरिमं मन्त्रमुच्चा-रयन्प्रदर्शयेदित्यर्थः। पाठस्तु —
विश्वस्य त इति। हेऽग्ने विश्वस्य ते संदृशि विश्वात्मकस्य तव कटाक्षवीक्षणे सति तथा विश्वमस्यास्तीति विस्ववान्। वृष्णियं बलमस्यास्तीति वृष्णियावान् तादृशस्य तव वीक्षणे सति वामीर्वनयीयस्यानुष्ठानस्य प्रवर्तकोऽहं विश्वा रेतांसि बहुपुत्रकारणानि सर्वाण्यपि वीर्याणि धिषीयानुक्रमेण पत्न्यां स्थापयेय।
कल्पः- “अगन्देवानिति च पत्न्यप उपप्रवर्तयति” इति। पाठस्तु—
अगन्देवानिति। अयं यज्ञो देवानगन्प्राप्नोत्। देवीर्द्योतमाना आपो देवेभ्ये-ऽस्मदीयं यज्ञं नितरामशिपन्विस्पष्टमुक्तवत्यः। अस्मिन्यजमाने सुन्वति सौमाभिषवं कुर्वति स्वाहाकृताः स्वाहाकारेण संपादिताः समुद्रसमाने स्वर्गऽवस्थिता आशिषः फलविशेषा ये संपद्यन्ते ते सर्वैऽप्यनुक्रमेण गन्धर्वं पत्न्या मम गन्धर्वत्प्रियं यजमान-मातिष्ठत प्राप्नुवन्तु। वातस्य यज्ञप्रवर्तकस्य वायो। “वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते” इत्य-न्यत्राऽऽम्नातम्। तस्य वायोः पत्मन्पतने प्रेरणे सतीडः फलसाधनभूताः स्तोत्रविशेषा ईडिता ऋत्विग्भिः प्रयुक्ताः। तस्मात्तत्फलं सर्वं यजमानः प्राप्नोत्विति तात्पर्यार्थः। अत्र सं त्वा नह्यमीत्ययं योक्त्रबन्धनमन्त्रो दीक्षाप्रकरण इन्द्रस्य योनिरसीत्येतस्मान्मन्त्रात्पूर्वं द्रष्टव्यः। तत्रैवाथाहं सुप्रजस इत्येतौ द्रष्टव्यौ। इमं वि ष्यामीति मन्त्रोऽवभृथानुवाके देवीराप एष व इत्येतस्मात्पूर्वं द्रष्टव्यः। प्रेह्युदेहीति मन्त्रो हृदे त्वेत्यनुवाके देवीरापो अपां नपादित्ये तस्मात्पूर्वं द्रष्टव्यः। वसुभ्य इति ग्रहणसादनमन्त्रौ समुद्रस्य वोऽक्षित्या उन्नय इत्येतस्मादूर्ध्वं द्रष्टव्यौ।
अत्र विनियोगसंग्रहः —
स त्वा पत्न्यां योक्त्रबन्धः प्रैतु शालामखे नयेत्।
अथाइमुपविश्यैषा सुप्रजेति जपेदथ॥
इमं काले योक्त्रमोकः प्रेहि पत्नीमुदानयेत्।
वसु पन्नेजनीः पत्नी गृहीत्वा तेन सादयेत्।
[[1726]]
विश्वस्य पत्नीमुद्गात्रासंख्यापयति सा त्वगन्।
अपः प्रवर्तयन्नू (त्यू)रावत्र मन्त्रा दश स्मृताः॥