०५

(अथ तृतीयकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।

सूर्यो॑ मा दे॒वो दे॒वेभ्यः॑ पातु वा॒युर॒न्तरि॑क्षा॒द्य-
ज॑मानो॒ऽग्निर्मा॑ पातु॒ चक्षु॑षः। सक्ष॒ शूष॒
सवि॑त॒र्विश्व॑चर्षण ए॒तेभिः॑ सोम॒ नामभिर्वि-
धेम ते॒ तेभिः॑ सोम॒ नाम॑भिर्विधेम ते। अ॒हं
परस्ता॑द॒हम॒वस्ता॑द॒हं ज्योति॑षा॒ वि तमो॑ व
वार। यद॒न्तरि॑क्षं तदु॑ मे पि॒ताऽभू॑द॒हँ सू-
र्य॑मु॒भयतो॑ ददर्शा॒हं भू॑यासमुत्त॒मः स॑मा॒ना
ना॑म् ( १ ) आस॑मु॒द्रादाऽन्तरि॑क्षात्प्र॒जाप॑ति-
रुद॒धिं च्या॑वया॒तीन्द्रः॒ प्र स्नौ॑तु म॒रुतो॑ व-
र्ष॒यन्तून्न॑म्भयं पृथिवीं॑ भि॒न्दीदं दि॒व्यं नमः॑।

[[1719]]

उ॒द्गो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒
दृति॑म्। प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो
यद॒ग्निरोष॑धीः॒ प्रास्या॒ग्नावादि॒त्यं जु॑होति
रु॒द्रा॑दे॒व प॒शून॒न्तर्द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒
शून् [ २ ] प्रति॑ ष्ठापयति क॒विर्य॒ज्ञस्य॒ वि
त॑नोति॒ पन्थां॒ नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने
दि॒वः। येन॑ ह॒व्यं वह॑सि॒ यासि॑ दू॒त इ॒तः प्र
चे॑ता अ॒मुतः॒ सनी॑यान्। यास्ते॒ विश्वाः॑ स॒-
मि॒ध सन्त्य॑ग्ने याः पृ॑थि॒व्या ब॒र्हि॒षि सूर्ये॒
याः। तास्ते॑ गच्छ॒न्त्वाहु॑तिं घृ॒तस्य॑ देवाय॒ते
यज॑मानाय॒ शर्म॑। आ॒शासा॑नः सु॑वीर्यँरा॒य-
स्पोषँ॒ स्वश्वि॑यम्। बृह॒स्पति॑ना रा॒या स्व॒-
गाकृ॑तो॒ मह्यं॒ यज॑मानाय तिष्ठ [ ३ ]॥

(स॒मा॒नाना॒मो ष॑धीष्वे॒व प॒शून्मह्यं॒ यज॑माना॒यैकं॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके पञ्चमोऽनुवाकः॥ ५॥

( अथ तृतीयकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।
अतीमोक्षजपे मन्त्राश्चतुर्थे समुदीरिताः।
अथ पञ्चमेऽनुवाक आदित्यग्रहमन्त्रा उच्यन्ते।
कल्पः — “सूर्यो मा देव इति दर्मैर्हस्तेनपिधायोत्तिष्ठति” इति। पाठस्तु —
सूर्यो मा देव इति। अयमादित्यग्रहः सूर्यवाय्वात्मकोऽतः सूर्यरूपोऽयं देवो यज्ञविघातिभ्यो मां पातु। तथा वायुरूपोऽयं विघ्नकारिदेवयुक्तादन्तरिक्षा-

[[1720]]

न्मां पातु। तथा यजमानो यामहेतुरयमग्निश्चक्षुषो विरोधिदेवदृष्टेः सकाशान्मां पातु। हे सोम सक्षादीनि चत्वारि यानि तव नामानि एतैर्नामभिस्ते तव विधेम परिचयाँ करवाम। यानि च पूर्वोक्तानि सूर्यवाय्वग्निनामानि तेभिस्तैश्च नामभिस्तव परिचर्यां करवाम। हे सक्ष पात्रसङ्ग, [ हे ] शूष लवन्, हे सवितः प्रेरक हे विश्वचर्षणे सर्वमनुष्यानुग्राहक। एतैः सबोधनरूपैर्नामभिर्विधेमेत्यन्वयः।
कल्पः — “अहं यजमानः परस्तात्परभागे ग्रहमन्वारभ इति शेषः। अहमवस्तादचरभागेऽपि ग्रहमन्वारभे। अहमस्याऽऽदित्यग्रहस्य ज्योतिषा विशेषेण तमो ववार वारितवानस्मि। उपरिभागाधोभागयार्मेध्यवर्ति यदन्तरिक्षं तदु तदपि मे पिता पितृवत्पालकमभूत्। अहं सूर्यमादित्यग्रहमुभयत ऊर्ध्वाधो भागयोर्दक्षिणोत्तरभागयोर्वा ददर्श दृष्टवानस्मि। अतोहं समानानां यजमानानां मध्य उत्तमो भूयासम्।
कल्पः — “आसमुद्रादिति दर्भैराच्यावयति” इति। पाठस्तु —
आ समुद्रादिति। प्रजापतिरिमं ग्रहं चतुर्दिक्ष्वा समुद्रात्समुद्रपर्यन्तं दर्भैरा च्यावयतीति। तथैवोर्ध्वभागेऽन्तरिक्षपर्यन्तमुदधिं समुद्रसमानमादित्यग्रहं च्यावयति। इन्द्रो गवामूध इत्र ग्रहं प्रस्नौतु प्रस्नुतं करोतु। मरुतो वर्षयन्तु मेधा इव संततधाराः कुर्वन्तु।
कल्पः — “उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात्” इति। पाठस्तु —
उन्नम्भय पृथिवीमिति। हे आदित्य पृथिवीमुन्नम्भयोत्कर्षेण क्लिन्नां कुरु। इदं दिव्यं नभो भिन्धि द्युलोकस्थाकाशवर्तिमेधमिव ग्रहं भिन्धि भिन्नं कुरु। दिव्यस्य दिवि भवस्योदन् उदकस्य समृद्धिं नोऽस्मभ्यं देहि। ईशानः समर्थस्त्वं दृतिं विसृज जलविधारकं दृतिसमानं मेघं विमुञ्च। अथ विधत्ते —
पशवो वा इति। आदित्यग्रह इति यदेते पशवो वै तस्य पशुप्राप्तिहेत्वात्। अग्निरिति यदेष क्रूरो देवस्तस्मात्क्रौर्यपरिहारायाग्नावोषधीः प्रक्षिप्य पश्चादादित्यग्रहं जुहोति। तथा सति रुद्ररूपाग्निसकाशादित्यग्रहरूपान्पशूनन्तर्हितानेव करोति। किंचौषधीष्ववाऽऽदित्यग्रहरूपान्पशून्प्रतिष्ठितान्करोति।

[[1721]]

कल्पः — “कविर्यज्ञस्य वि तनोति पन्थामिति ग्रहं हत्वा” इति। पाठस्तु —
कविर्यस्योति। यज्ञस्य कविर्विद्वानयमादित्यग्रहा नाकस्य पन्थां वितनोति स्वर्गस्य मार्गं वितनोति विस्तृतं करोति। कुत्रेति। तदुच्यते-अधिरोचन आधिक्येन भासमान दिवः पृष्ठे द्युलोकस्योपरि। हेऽग्ने येन पथा हव्यं वहसि दवानां दूतस्त्वमितो निर्गत्य येन पथा यासि तादृशं पन्थानं वितनोतीति पूर्वत्रान्वयः। कीदृशो दूतः। प्रकर्षेण चेतते कर्मानुष्ठातारं जानातीति प्रचेताः। अमुतोऽमुष्मिन्स्वर्गे सनीयानतिशयेन फलस्य दाता।
कल्पः — “यास्ते विश्वाः समिधः सन्त्यग्र इति दर्भानाहवनीये प्रास्य” इति। पाठस्तु —
यास्ते विश्वा इति। हेऽग्ने त्वदीयाः समिधः सम्यग्दीप्यमाना ज्वाला याः सन्ति ता एव विशेषाकारेणोच्यन्ते- पृथिव्यां भूलोके बर्हिषि यज्ञदेशे या दीप्तयः सन्ति सूर्ये च या दीप्तयः सन्ति ते त्वदीयास्ता दीप्तयो घृतस्याऽऽहुतीर्गच्छन्तु प्राप्नुवन्तु। देवानात्मन इच्छतीति देवायंस्तस्मै देवायते यजमानाय शर्म सुखं प्रयच्छतु। आदित्यग्रहविषयास्त एते मन्त्रः कदाचन स्तरीरसीत्यनुवाकादूर्ध्वं द्रष्टव्याः।
अथ कल्पे — “यूपं यजमान उपतिष्ठते नमः स्वरुभ्यः” इत्युपक्रम्यान्ते पठितम् — “आशासानः सुवीर्यमिति चोपस्थाय” इति। पाठस्तु —
आशासान इति। हे यूप त्वं यजमानाय मह्यं रायस्पोषमाशासानस्तिष्ठ कीदृशं पोषम्। सुवीर्यं शोभनेन भोगसामर्थ्येनोपेतं स्वश्वियं शोभनैरश्वैरुपेतम्। कीदृशो यूपः। बृहस्पतिना देवेन रायाद्यनेकधननिमित्तं स्वगाकृतो यजमानस्य स्वगतो यथा भवति तथा कृतः। सोऽयं मन्त्रः पशुप्रकरणगतात्समुद्रं गच्छेत्यनुवाकादूर्ध्व द्रष्टव्यः। अत्र विनियोगसंग्रहः —
सूर्यो तृतीयसवन आदित्यग्रहहस्तकः।
उत्तिष्ठेदहमित्यस्मात्स्वाम्यन्वारभते ग्रहम्॥
आ समुञ्चावयेद्दर्भैरुन्नं वृष्ट्यर्तिहोमकः।
कविर्हरेदग्रहं यास्ते वह्नौ प्रास्यति दर्भकान्॥
आशा यूपोपस्थितिः स्यात्सप्त मन्त्रा इहेरिताः॥

[[1722]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
पञ्चमोऽनुवाकः॥ ५॥