०४

(अथ तृतीयकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुष॑ पृथि॒व्यामध्या
स॑ते। अ॒ग्निर्मा॒ तेभ्यो॑ लक्षतु॒ गच्छे॑म सु॒कृतो॑
व॒यम्। आऽग॑न्म मित्रावरुणा वरेण्या॒ रा-
त्री॑णां भा॒गो भु॒वयो॒र्यो अस्ति॑। नाकं॑ गृ-
ह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृतीये॑ पृ॒ष्ठे अधि॑
रोच॒ने दि॒वः। ये दे॒वा य॑ज्ञहनो॑ यज्ञ॒मुपोऽ
न्तरि॒क्षेऽघ्यास॑ते। वा॒युर्मा॒ तेभ्यो॑ रक्ष॒तु ग
च्छे॑म सुकृतो व॒यम्। यास्ते॒ रात्रीः॑ सवितः
[१] दे॒वयानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒य-
न्ति॑। गृ॒हैश्च॒ सर्वैः॑ प्र॒जया॒न्वग्रे॒ सुवो॒ रुहा॑-
णास्तरता॒ रजाँसि। ये दे॒वा य॑ज्ञ॒हनो॑ य-
ज्ञ॒मुषो॑ दि॒व्यध्यास॑ते। सूर्ये॑ मा॒ तेभ्यो॑ रक्ष-
तु॒ गच्छे॑म सु॒कृतो॑ व॒यम्। येनेन्द्रा॑य स॒म-
भ॑रः पयाँ॑ स्युत्त॒मेन॑ ह॒विषा॑ जातवेदः। ते
ना॑ग्ने॒ त्वमु॒त॑ व॑र्धये॒मँ स॑जा॒तानाँ॒ श्रैष्ठ्य॒
आ धे॑ह्येनम्। य॒ज्ञ॒हनो॒ वै दे॒वा यज्ञ॒मुषः॑
[२] स॒न्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना
विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य। ये

[[1715]]

दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्यामध्यास॑ते॒ ये अ॒न्तरि॑-
क्षे॒ ये दि॒वीत्या॑हेमाने॒व लो॒काँस्ती॒र्त्वा स-
गृ॑हः॒ सप॑शुः सुव॒र्गं लो॒कमे॒त्यप॒ वै सोमे॑ने-
जा॒नाद्दे॒वता॑श्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यं पञ्च॑क-
पालमुदवसा॒नीयं॒ निर्व॑पेद॒ग्निः सर्वा॑ दे॒वताः॑
( ३ ) पाङ्क्तो य॒ज्ञो दे॒वता॑श्चै॒व य॒ज्ञं चाव॑
रुन्धे गाय॒त्रो वा अ॒ग्निर्गा॒यत्रछ॑न्दा॒स्तं छ-
न्द॑सा॒ व्य॑र्धयति॒ यत्पञ्च॑कपालं क॒रोत्य॒ष्टाक॑-
पालः कार्यो॑ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्नि-
र्गाय॒न्नछ॑न्दा॒ स्वेनै॒वैनं॒ छन्दसा॒ सम॑र्धयति
प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तो॑ य॒ज्ञ
स्ते॒नैव य॒ज्ञान्नैति॑ [ ४ ]॥
( स॒वि॒त॒र्दे॒वा य॑ज्ञ॒मुषः॒ सर्वा॑ दे॒वता॒स्त्रिच॑त्वारिँ शच्च )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके चतुर्थोऽनुवाकः॥ ४॥

( अथ तृतीयकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।
विष्ण्वतिक्रमणे मन्त्रास्तृतीये समुदीरिताः।
अथ चतुर्थेऽतिमोक्षमन्त्रा उच्यन्ते।
कल्पः — “वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतिमोक्षाञ्जपति” इति।
अतिमोक्षशब्देन ये देवा यज्ञहन इत्यादयो मन्त्रा विवक्षिताः। सूत्रकारेणान्यत्र ये देवा यज्ञहन इत्यतिमोक्षा इत्युक्तत्वात्। पाठस्तु —

[[1716]]

ये देवा इति। अत्र यज्ञमुष इति पदं पृथक्कृत्य मन्त्रभेदः कर्तव्यः। तत्र प्रथममन्त्रे पृथिव्यामध्यासत इत्याद्यन्तभागोऽनुषञ्जनीयः। द्वितीयमन्त्रे तु ये देवा इत्ययं पूर्वभागोऽनुषञ्जनीयः। देवानां मध्ये म्लेच्छजातयः केजिद्देवा यज्ञभागार्हाः सन्तो द्रष्टुमसहमानाः केचिद्यज्ञं विनाशयन्ति।अपरे तु यज्ञसाधनान्यपहृत्यान्यत्र गच्छन्ति। तत्र यज्ञविघातिनो ये देवा पृथिव्यां यं कंचिद्देशमधिष्ठायाव तिष्ठन्ते तेभ्यो यज्ञविघातिभ्योऽग्निर्मां रक्षतु। वयं सुकृतः सुष्ठु यज्ञं निष्पादितवन्तो गच्छेम यज्ञफलं प्राप्नुयाम। एवं यज्ञमुषां मन्त्रोऽपि व्याख्येयः। तृतीयमन्त्रपाठस्तु —
आऽगन्यैति। हे वरेण्या मित्रावरुणा श्रेष्ठौ मित्रावरुणौ यज्ञसंबन्धिनीनां रात्रीणां मध्ये वर्तमानायामस्यां रात्रौ युवयोः संबन्धि वशानूबन्ध्यारूपो यो भागोऽस्ति तेन वयं नाकं स्वर्गसुखं गृह्णाना आगन्म सर्वतः प्राप्ताः स्वः। कुत्रैतत्स्वर्गसुखग्रहणमिति तदुच्यते सकृतस्यास्य यज्ञस्य संबधिनि तृतीये लोके। कीदृशे। अधिरोजनेऽधिकं भासमाने। भासमानोऽपि लोकः कुत्रेति तदुच्यते-दिवः पृष्ठे स्वर्गस्योपरि। पृथिव्यन्तरिक्षापेक्षया तृतीयत्वम्। पाताललोकोऽपि तादृशो भवतीति व्यवच्छेदाय दिवः पृष्ठ इत्युक्तम्। रौरवादिनरकव्यावृत्तये सुकृतस्येत्युक्तम्। नरको हि दुष्कृतस्य।
अथ पूर्ववदनुषङ्गभेदभिन्नौ चतुर्थपञ्चममन्त्रामाह —
ये देवा इति। पूर्ववद्व्याख्येयम्। षष्ठमन्त्रवाह —
यास्ते रात्रीरिति। हे सवितर्द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये ते तव संबन्धिन्यो या रात्रीर्यज्ञानुष्ठानयोग्या रात्रयो वियन्ति विशेषेण गच्छन्ति प्रवर्तन्ते। यद्यप्येकैव रात्रिः सुत्याकर्मार्हा तथाऽपि दीक्षोपसत्सहिता बहवो रात्रयो भवन्ति। तासां च सवितृप्रेरितत्वात्तत्संबन्धः। कीदृश्यो रात्रयः। देवयानीर्देवान्यान्तीति देवयान्यो दैविककर्मयुक्ता इत्यर्थः। तासु रात्रिषु कर्मानुतिष्ठन्तः सर्वैर्गृहैश्च प्रजयाऽनु गृहवर्तिभिर्भृत्यैः पुत्रादिना च सार्धं रुहाणाः स्वर्ग सर्वैर्गृहश्चै प्रजयाऽनुगृहवर्तिभिर्भृत्यैः पुत्रादिना च सार्थं सुवो रुहाणाः स्वर्गं प्राप्नुवन्तो यजमाना यूयं रजांसि रञ्जनीयानि सुखानि तरत प्राप्नुत।

[[1717]]

पूर्ववदनुषङ्गभेदभिन्नौ सप्तमाष्टममन्त्रावाह —
ये देवा इति। पूर्ववद्व्याख्येयम्। अथ नवमं मन्त्रमाह —
येनेन्द्रायति। हे जातवेदो येनोत्तमेन हविषोत्तमहविःस्वरुपेण पयांसि क्षीररसस्वादून्सोमरसानिन्द्राय समभरः संभृतवानसि तेन हविषा हेग्ने त्वमिमं यजमानं वर्धय उतापि चैनं यजमानं सजातानां श्रैष्ठ्यै स्वाम्य आधेहि। अथैतान्प्रशंसति-
यज्ञहनो वा इति। कपटरूपधारिणः केचन देवा यज्ञभागरहिता यज्ञशालादाहाद्युपद्रवेण यज्ञघातिनो भवन्ति। अपरे च ग्रहचमससोमरसापहारेण यज्ञमुषो भवन्ति। एवमुभयविधा ये सन्ति ते त्रिष्वप्येतेषु लोकेष्वतिष्ठन्ते। किं कुर्वन्तः। यो यजमानो दक्षिणां ददाति तदीयं दक्षिणाद्रव्यं गवादिकमपहरन्ती (न्त इ ) त्यर्थः। यो यजमानो यजते तदीयं ग्रहचमसादिकं विमथ्नाना भङ्गपरित्यागादितो विलोडयन्तः। तस्योपद्रवस्य सर्वस्यैतैर्मन्त्रैः परिहारं दर्शयति —
ये देवा इति। अत्र यज्ञमुष इत्यत्र पृथङ्मन्त्रत्वं दर्शयितुं तत्पदं परित्यज्यानुषङ्गेण सह यज्ञहन इत्येतावदेवोदाहृतम्। एतैर्मन्त्रैरुपद्रवसहितानिमाल्लोँ-कानुत्तीर्य सगृहः कलत्रपुत्रादिसहितः सपशुर्गवाश्वादिपशुसहितः स्वर्गं प्राप्नोति। त एते मन्त्रा उरुँ हि राजेत्वेतस्यादनुवाकात्पूर्वं द्रष्टव्याः। अथोदवसानीयं विधत्ते —
अप वै सोमेनेति। यः सोमेनेष्टवानभवत्, एतस्माद्देवताश्च यज्ञश्चापक्रामन्ति। अनेन यजमानेन प्रयोजनाभाव मन्वाना एनं परित्यजन्ति। अतस्तदपक्रमणं वारयितुमग्निदेवतया युक्तं पञ्चकपालं तादृशपुरोडाशेन साध्यमुदवसानीयाख्यं कर्म कुर्यात्। अयमग्निः सर्वदेवतात्मको यज्ञश्च पाङ्क्तः पञ्चसंख्योपेतः। “ते देवा बिभ्यतोऽग्निं प्राविशन्” “धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यत” इत्यादिश्रुतिद्वयात्। अत आग्नेयत्वेन सर्वा देवता अवरुन्धे पत्र्चकपालेन यज्ञमप्यवरुन्धे।
अथ पञ्चकपालं दूषयित्वाऽष्टाकपालं विधत्ते —

[[1718]]

गायत्रो वा इति। अग्नेर्गायत्र्याश्च प्रजापतिमुखजन्यत्वेन गायत्रोऽग्निः। पञ्चकपाले सति तमग्निं स्वकीयेन च्छन्दसा वियोजयति। अष्टाकपाले त सति गायत्र्या अष्टाक्षरत्वादग्निं स्वकीयेन च्छन्दसा समृद्धं करोति।
अत्राग्ने तमद्याश्वमित्येते अक्षरपङ्क्त्यौ विधत्ते —
पङ्क्त्यौ याज्येति। अत्र तु गायत्रत्वसिद्धयेऽष्टाकपालः स्वीकृतस्तथाऽपि पाङूक्तमन्त्रपाठेन धानादिद्वारा पाङ्क्तयज्ञादप्ययं यजमानो नापगच्छति।
अत्र विनियोगसंग्रहः —
ये देवा इत्यतीमोक्षान्मन्त्रानेताञ्जपेन्नव।
यज्ञहन्यज्ञमुट्चेति भेदान्मन्त्राभिदेष्यते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः॥ ४॥