०३

(अथ तृतीयकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः)।

अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒
छन्द॑सा त्रि॒वृता॒ स्तोमे॑न रथंत॒रेण॒ साम्ना॑
वषट्का॒रेण॒ वज्रे॑णः पूर्व॒जान्भ्रातृ॑व्या॒नध॑रा

[[1712]]

न्पादया॒म्यवै॑नान्वाधे॒ प्रत्ये॑तान्नुदे॒ऽस्मिन्क्षये॒
ऽस्मिन्भूमिलो॒के यो॑ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं
दवि॒ष्मो विष्णोः॒ क्रमे॒णात्ये॑नान्क्रामा॒मी॑-
न्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टुभेन॒ छन्दसा॑
पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒-
रेण॒ वज्रे॑ण [ १ ] स॒ह॒जान्विश्वे॑मिर्देवेभिः॒
पृत॑ना जयामि॒ जागतेन॒ छन्द॑सा सप्तद॒शेन॒
स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ व-
वज्रे॑णापर॒जानिद्रे॑ण स॒युजों॑ व॒यँ सा॑स-
ह्याम॑ पृतन्य॒तः। घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति। यत्ते॑
अग्ने॒ तेज॒स्तेना॒हं ते॑जस्वी भू॑यासं॒ यत्ते॑ अग्ने॒ हर॒-
स्तेना॒हँ ह॑रस्वी भू॑यासम् [ २ ]
(बृ॒हता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण॒ षट्च॑त्वारँशञ्च)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके द्वितीयोऽनुवाकः॥ ३॥

( अथ तृतीयकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः)।

यद्ब्रह्मत्वं स्तोमभागैर्द्वितिये तदुदीरितम्।
अथ तृतीयानुवाके विष्ण्वतिक्रमा उच्यन्ते। कल्पः — “अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमान्” इति। प्रथममन्त्रपाठस्तु —
अग्निना देवेनेति। देवश्छन्दः स्तोमः साम वज्रश्चेत्येतानि परकीयां पृतनामभिभवितुं साधनानि। पृतना जित्वा भ्रातृव्यानधरान्वादयामि। त्रिविधा हि भ्रातृव्याः पूर्वजाः सहजा अपरजाश्चेति। पितृपितामहादिष्वप्यनुवर्तमानाः पूर्वजाः।

[[1713]]

सपत्नमातृजाः सहजाः। इदानीमेव स्वकार्यघातिनोऽपरजाः। तेषु त्रिविधेषु मध्ये ये पूर्वजास्ताञ्शत्रूनन्तो नीचा यथा भवन्ति तथा संपादयामि। संपाद्य चैतानवायाधे येनावमता यथा भवन्ति तेन तथा शृङ्खलादिना बाधं करोमि। कृत्वा चैनान्प्तिनुदे प्रत्येकं विनाशयामि। किंचास्मिन्क्षये मदीये निवासगृहे। अथवा किमनेन संकोचेनास्मिन्भूमिलोके सर्वस्मिन्यो भ्रातृव्योऽस्मानुदासीनानपि द्वेष्टि। यं च भ्रातृव्यमुदासीनमपि वयं द्विष्मः। एतान्सर्वान्विद्वेषिणो विष्णु रूपस्य यजमानस्य मम क्रमेण पादविन्यासेनातिक्रमामि लङ्वयामि। द्वितीयमन्त्रपाठस्तु —
इन्द्रेण देवेनेति। अत्र भ्रातृव्यानधरान्पादयामीत्यादिकमनुषज्य पूर्ववद्व्याख्येयम्। तृतीयमन्त्रपाठस्तु —
विश्वेभिर्देवेभिरिति। अत्रापि भ्रातृव्यानधरान्पादयामीत्यादिकमनुषज्य व्याख्येयम्। त्रिवृदादिस्तोमानां रथंतरादिसाम्नां च स्वरूपं समिधमातिष्ठेत्यनुवाके दर्शितम्।
कल्पः — “इन्द्रेण सयुजो वयमित्याहवनीयमुपतिष्ठते” इति। पाठस्तु—
इन्द्रेणेति। पृतनामस्मद्विरोधिनीं सेनामात्मन इच्छन्ती पृतन्यतस्याञ्शत्रून्वयं सासह्यामातिशयेन सोढुं शक्ताः स्मः। कीदृशा वयम। इन्द्रेण सयुजः परमैश्वर्ययागादाहवनीय इन्द्रस्तेन सह युज्यन्ते युक्ता भवन्तीति सयुजः। वृत्राणि शत्रूनप्रत्यस्मान्प्रति प्रतिकूलत्वं यथा नास्ति तथा घ्नन्तो वधं कुर्वन्तः। हेऽग्ने ते त्वतीयं यत्तेजः कान्तिरूपं तेनाहमपि कान्तिमान्भूयासम्। वर्चो बलम्। हरो रश्मिरूपं तेजः। अत्र विनियोगसंग्रहः —
यजमानोऽग्निनेन्द्रेण विश्वेभिर्विष्ण्वतिक्रमान्।
क्रामत्युत्तरयोर्भ्रातृव्यानित्याद्यनुषज्यते॥
इन्द्रे पूर्वाग्न्युपस्थानं मन्त्राश्चत्वार ईरिताः।
एते मन्त्रा उरुँ हि राजेत्यनुवाकात्पूर्वं द्रष्टव्याः॥

[[1714]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
तृतीयोऽनुवाकः॥ ३॥
—————–