(अथ तृतीयकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः)।
ऋष॑यो॒ वा इन्द्रं॑ प्र॒त्यक्षं॒ नाप॑श्य॒न्तं वसि॑ष्ठः
प्र॒त्यक्ष॑मपश्य॒त्सो॑ऽब्रवी॒द्ब्राह्म॑णं ये वक्ष्यामि॒
यथा॒ त्वत्पु॑रोहिताः प्र॒जाः प्र॑र्जनि॒ष्यन्तेऽथ॒
मेत॑रेभ्य॒ ऋषिभ्यो॒ मा प्र वोच॒ इति॒ तस्मा॑
ए॒तान्त्स्तोम॑भागानब्रवी॒त्ततो विसि॑ष्ठपुरोहिताः
प्र॒जाः प्रजा॑यन्त॒ तस्मा॑द्वासिष्ठो ब्र॒ह्मा का॒-
र्यः॑ प्रैव जायते र॒श्मिर॑सि क्षया॑य त्वा॒ क्षयं॑
जि॒न्वेति॑ [ १ ] आ॒ह॒ दे॒वा वै क्षयो॑ दे॒वेभ्य॑
ए॒व य॒ज्ञं प्राऽऽह॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्म॑
जि॒न्वत्या॑ह मनु॒ष्या॑ वै धर्मो मुनु॒ष्ये॑भ्य ए॒व
यज्ञं प्राहाऽऽन्वि॑तिरसि दि॒वे त्वा॒ दिव॑ जि॒-
न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो य॒ज्ञं प्राऽऽह॑ वि-
ष्टम्भोऽसि॒ वृष्टयै॑ त्वा॒ वृष्टिं॑ जिन्वे॒त्या॑ह॒ वृ-
ष्टि॑मे॒वाव॑ ( २ ) रु॒न्धे॒ प्र॒वाऽस्य॑नु॒वाऽसी-
त्या॑ह मिथु॒नत्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसू॑-
ञ्जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑-
शाऽऽदि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञं
प्राऽऽहौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तृञ्जि॒न्वेत्या॑ह
[[1707]]
दे॒वाने॒व पि॒तृ़ननु सं त॑नोति॒ तन्तुर॑सि प्र॒जा-
भ्य॑स्त्वा प्र॒जा जि॑न्व [ ३ ] इत्या॑ह पि॒तृने॒व
प्र॒जा अनु॒ सं त॑नोति पृतना॒षाड॑सी पशुभ्य॑
स्त्वा प॒शूञ्जि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शून॒नु सं
त॑नोति रे॒वद॒स्योष॑धीभ्य॒स्त्वाषै॑धीर्जि॒न्वेत्या॒-
हौष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयत्यभि॒जिद॑सि
यु॒क्तग्रा॒वे॒न्द्रा॒य त्वेन्द्रं॑ जि॒न्वेत्या॑हा॒भिजि॑त्या॒
अधि॑ तिरसि प्रा॒णाय॑ त्वा प्रा॒णम् ( ४ )
जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान्द॑धाति त्रि॒वृ-
द॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ सँरो॒हो॑ऽसि
नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा॑त्यै वसु॒को॑ऽसि वेष॑-
श्रिरसि॒ वस्य॑ष्टिर॒सीत्याह प्रति॑ष्ठित्यै [ ५ ]॥
(जि॒न्बेत्यव॑ प्र॒जा जि॑न्व प्राणं त्रिँ शञ्च॑ )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके द्वितीयोऽनुवाकः॥ २॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः)।
इष्टरन्वारम्भणीया समन्त्रा प्रथमे श्रुता।
अथ द्वितीयानुवाके सौमिकब्रह्मत्वाविधिरुच्यते।
यदुक्तं सूत्रकारेण “वासिष्ठो ब्रह्मा ज्योतिष्टोमे यो वा कश्चित्स्तौमभागान्विद्यात्” इति। तदेतद्विधातुं प्रस्तौति-ऋषयो वा इति। वसिष्ठप्रमुखाः सर्वेऽप्यृषयः कदाचिदिन्द्रमुखा मन्त्रविशेषानवगन्तुमागतास्तदानीमिन्द्रोऽनधिकारिभ्यो मन्त्रा न वक्तव्या यत्यभिप्रेत्यान्तर्हितोऽभूत्। अन्त
[[1708]]
र्धानं प्राप्यावस्थितं तमिन्द्रमृषयश्चक्षुषा नापश्यन्। तदानीं योगसामर्थ्ययुतो वसिष्ठो दिव्येन चक्षुषा तमिन्द्रमपश्यत्। स इन्द्रस्तं वसिष्ठं प्रत्येवमब्रवीत्। सौमिकब्रह्मत्वो-पयोगिमन्त्रजातं यस्मिन्प्रतिपाद्यते तादृशं ब्राह्मणमहं तुभ्यं वक्ष्यामि। त्वमेव पुरोहितो मन्त्रोपदेष्टा यासां प्रजानां तास्त्वत्पुरोहितास्तथाविधाः प्रजा यथो त्पत्स्यन्ते यथा-विधमेतद्वक्ष्यमाणस्य ब्राह्मणस्य सामर्थ्यात्। तादृशं ब्राह्मणं श्रुत्वाऽथानन्तरं त्वं मामितरेभ्यो मन्त्रानधिकारिभ्य ऋषिभ्यो मा प्रवोच इत्युक्त्वा तस्मै वसिष्ठायैता-न्रश्मिरसीत्यादिकान्स्तोमभागनामकान्मन्त्रानब्रवति्। स्तोमा बहिष्पवमानादीनि स्तोत्राणि तान्त्सतोमान्भजन्त इति स्तोमभागाः। एतान्हि मन्त्रानुच्चार्य ब्रह्मा स्तोत्राण्यभ्यनुजानाति। तस्मादेते स्तोमभागा इत्युच्यन्ते। तत इन्द्रप्रसादात्सर्वाः प्रजा वसिष्ठपुरोहिता उत्पन्नाः। वसिष्ठं गुरुत्वेन पुरस्कृत्य वर्तन्त इत्यर्थः। इदानीं विधत्ते —
तस्माद्वासिष्ठ इति। यस्माद्वसिष्ठस्य ब्रह्मत्वोपयुक्तं सर्वमिन्द्र उक्तवां-स्तिस्मात्सोमयागं चिकीर्षुणा परुषेण यो वसिष्ठगोत्रोत्पन्नस्तदयिविद्यासंप्रदायेन स्तोमभागभिज्ञो वा भवति स एव ब्रह्मा कार्यः। तथा सत्ययं यजमानस्तथाविधाः प्रजा जनयति। ते च स्तोमभाममन्त्राश्चतुर्थकाण्डस्य चतुर्थप्रपाठकादौ समाम्राताः। ते चैकत्रिंशत्संख्याकाः। तेष्वेकैको मन्त्र एकैकं स्तोत्रमभ्यनुज्ञातुं ब्रह्मणा प्रयोक्तव्यः। अत एव सूत्रकार आह – “रश्मिरसि क्षयाय त्वा क्षयं जिन्वो स्तुतेति प्रसौति सर्वस्तोत्राणामेष कल्प उत्तरमुत्तरं स्तोमभागानां दधाति द्वादशाग्निष्टोमे पश्चादशोक्थ्ये षोडश षोडशिनि सप्तदश वाजपेय एकोनत्रिंशतमतिरात्रे त्रयस्त्त्रिंशत्तमाप्तोर्न्यामे” इति तत्रैकत्रिंशं स्तोमभागं त्रिरावृत्य [ वर्त्म] त्रयस्रिंशत्संख्याऽप्तोर्यामे पूरणीया।
तत्र प्रथमं स्तोमभागमनूद्य व्याचष्टे —
रश्मिरसीति। पञ्चमकाण्डोक्तब्राह्मणे रश्मिरित्येवाऽऽदित्यमसृजत प्रेतिरिति धर्ममित्यादिना मन्त्राणामादित्यसृष्टिहेतुत्वाभिधानादादित्यादिपरतया मन्त्रा व्याख्येयाः। हे आदित्य त्वं रश्मिरसि रश्मियुक्तोऽसि। देवा यस्मिन्संघे क्षियन्ति निवसन्ति सोऽयं संघः क्षयस्तस्मै क्षयाय देवसंघाय तत्प्रीत्यर्थं हे आदित्य त्वां
[[1709]]
स्मरामि। अतः देवसंघ जिन्व प्रीणय। अस्मिन्मंत्रे क्षयशब्दस्य देवा एवार्थः। अतो देवेभ्य एवैनं यज्ञं होता प्रोक्तवान्भवति।
द्वितीयस्तोमभागे धर्मानुष्ठातृत्वान्मनुष्या धर्मशब्देन विवक्षिता इत्येतद्दर्शयति —
प्रतिरसीति। हे धर्माभिमानिदेव त्वं प्रेतिरसि प्रकृष्टोतिर्गतिः प्राण्युप-काररूपा यस्यासौ प्रेतिः। अतो धर्मानुष्ठातृपुरुषार्थं त्वां स्मरामि। तं धर्मानुष्ठातृ-पुरुषंप्रीणय। अनेन मन्त्रेण धर्मोपलक्षितमुष्यार्थमिमं मन्त्रमुक्तवान्भवति।
तृतीयचतुर्थपञ्चमस्तोमभागानां तात्पर्यं दर्शयति —
अन्वितिरसीति। हे द्युलोकाभिमानिदेव त्वमन्वितिरसि। देवानामनुकूलेति र्गतिर्यस्यासावन्वितिः। तादृशं त्वा द्युलोकार्थं स्मरामि। तं च द्युलोकं प्रीणय। यद्यप्यन्तरिक्षभूलोकप्रतिपादकौ चतुर्थपञ्चमौ स्तोमभागावत्र नानूदितौ तथापि तृतीयस्य तदुपलक्षकत्वमभिप्रेत्यैभ्य एव लोकेभ्य इति समुदायतात्पर्यं दर्शितम्। षष्ठस्तोमभागं वृष्टिप्राप्तिहेतुत्वेन प्रसंसति —
विष्टम्भोऽसीति। हे वृष्ट्यभिमानिदेव त्वं विष्टम्भो सि विशेषेणोदकस्य धारकोऽसि। सप्तमाष्टमस्तोमभागयोः प्रतीकद्वयमनुद्याह्नो रात्रेश्च प्रतिपादकत्वेन मिथुनत्वसंपतिं दर्शयति —
प्रवाऽस्यनुवाऽसीति। हेऽहरभिमानिदेव त्वं प्रवाऽसि। जगत्प्रवास-कत्वरूपेण प्रकर्षेण वाति गच्छति प्रवर्तत इति प्रवा। हे रात्र्यभिमानिदेव त्वमनुवा-ऽसि। निद्रादिव्यवहारस्यानुकूलत्वेन वाति गच्छति वर्तत इत्यनुवा। तयोर्द्वंद्वेन मिथुनत्वप्राप्तिसाधनत्वम्।
नवमदशमैकादशस्तोमभागानां संग्रहेण तात्पर्यं दर्शयति —
उशिगसीति। हे वसुगणपालक त्वमुशिगसि। उसिक्कामयमानः। रुद्रा-
[[1710]]
दित्यप्रतिपादकयोरपि स्तोमभागयोर्वसुविषयस्तामेभागनैवोपलक्षितत्वात्संगृह्य तात्पर्याभिधानम्।
देवप्रतिपादकेभ्यस्त्रिभ्यः स्तोमभागेभ्य ऊर्ध्वं पितृप्रतिपादकस्य द्वादशस्य स्तोमभागस्याभिधानाद्देवानां पितृणां च नैरन्तर्यं संपादितं भवतीत्यतेद्दर्शयति —
ओजोऽसीति। हे पितृपालक देव त्वमोजोऽसि बलरूपोऽसि।
पितृप्रतिपादकस्तोमभागादूर्ध्वं प्रजापतिपादकस्य त्रयोदशस्य स्तोमभागस्याभिधानात्पितृणां च नैरन्तर्यं सिध्यतीत्येतद्दर्शयति।
तन्तुरसीति। हे प्रजाभिमानिदेव त्वं तन्तुरसि पुत्रपौत्रादिविस्तारहेतुरसि। पशुप्रतिपादकेन चतुर्दशेन स्तोमभागेन प्रजानां च पशूनां च नैरन्तर्यं सिध्यतीत्येतद्दर्शयति —
पृतनाषाडसीति। हे पशुपालक देय त्वं पृतनाषाडसि। पृतनां परकीयसेना मस्मत्पशूनामपहन्त्री सहते विनाशयतीति पृतनाषाट्।
ओषधिप्रतिपादकेन पञ्चदशेन स्तोमभागेन पशुस्तोमभागानन्तरभाविनां पशूनामोषधीषु प्रतिष्ठापनं भवतीत्येतद्दर्शयति।
रेवदस्योषधीभ्य इति। हे ओषधिपालक देव त्वं रेवदसि धनवानसि। पञ्चमकाण्डे रश्मिरित्येवाऽऽदित्यमसृजतेत्यारभ्य रेवदित्योषधीरित्यन्तेषु पञ्चदशेषु (शसु) मन्त्रेष्वसृजतेति ब्राह्मणेन व्याख्यातत्वात्तदभिमानिदेवपरत्वेन मन्त्राणामा-दिवाक्यान्यस्माभिर्व्याख्यातानि। अथ षोडशस्तोमभागस्याऽऽदिवाक्यं वज्रपरत्वेन तत्रैव व्याख्यातमतोऽत्रापि वज्रसाध्याभिजयार्थत्वं दर्शयति —
अभिजीदसीति। हे वज्र त्वमभिजिद्युक्तग्रावाऽसि। अभितो जयती-त्यभिजित्। युक्ताः संयुक्ता ग्रावाणो यस्यासौ युक्तग्रावा। यथा पाषाणा दृढ एवमस्यापि दृढत्वात्पाषाणगुणेन दार्ढ्येन संयोग एव ग्रावसंयोग इत्युच्यते।
सप्तदशेन स्तोमभागेन प्राणानां स्थापनं दर्शयति—
अधिपतिरसीति। हे प्राणाभिमानिदेव त्वमधिपतिरसि प्राणानामाधिक्येन पालयिताऽसि। अपानचक्षुःश्रोत्रप्रतिपादकानामष्टादशैकोनविंशविंशानां प्रयाणस्तोमभागानां प्राणपतिपादकस्तोमभागेनैवापलक्षितत्वमभिप्रेत्य संग्रहेण तात्पर्यं दर्शयितुं प्राणानिति बहुवचनं निर्तिष्टम्।
[[1711]]
एकाविशद्द्वाविंशस्त्रयोविंशञ्चतुर्विंशानां स्तोमभागानां चतुर्णीं मिथु-नत्वसंपादकत्वं दर्शयति —
त्रिवृदसीति। हे मिथुनीभाव त्वं त्रिगुणोऽसि पर्वर्तकश्चासि। पुमान्योषित्संयोगश्चैवं त्रैगुण्यम्। संयोगानन्तरभावी मन्थनव्यापारः प्रवृत्तिः। एताभ्यां त्रैगुण्यप्रवृत्तिप्रतिपादकाभ्यां मन्थनसमाप्तिविश्लेषपूरमिथुनीभावा-वयवद्वयप्रतिपादकावुत्तरावपि स्तोमभागावुपलक्ष्येते। संवृन्मन्थनव्यापारसमाप्तिः। विवृद्दपत्योर्विश्लेषः। अनेन स्तोमभागचतुष्ट्येन मिथुनत्वं साकल्येन संपादितम्।
पञ्चविंशषड्विंशसप्तविंशाष्टाविंशानां स्तोमभागानां चतुर्णां प्रजोत्पादनपरत्वं दर्शयति —
सँरोहोऽसीति। हे प्रजननव्यापार त्वं संरोहोऽसि नीरोहश्चासि। शुक्रशोणितसंश्लेषेण गर्भाभिव्यक्तिः संरोहः। निःशेषाणामवयवानामभिव्यक्तिर्नीराहेः एताभ्याभुभाभ्यां स्तोमभागाभ्यां प्ररोहप्रतिपादकावन्यात्रपि स्तोमभागावुपलक्ष्येते। प्रथमस्यापत्यस्योत्पत्तिः प्ररोहः। पश्चाद्भाविनामपत्यानामुत्पत्तिरनुरोहः। एतेन स्तोमभागचतुष्टयेन प्रजोत्पत्तिः संपद्यते॥
एकोनत्रिंशैकत्रिंशस्तोमभागौस्त्रिभिरुत्पन्नानां प्रजानां प्रतिष्ठां दर्शयति —
वसुऽकोसीति। हे उत्पन्नप्रजाभिमानिदेव त्वं वसुको वासयिताऽसि। वेषायानुकूला श्रीर्यस्य सः। व्याप्तिसमर्थश्चासि वसेर्निवासस्याष्टिर्व्याप्तिर्यस्यासौ वस्यष्टिः। अनेन स्तोमभागत्रयेण प्रजानां प्रतिष्ठा संपद्यते।