०१

(तत्र प्रथमोऽनुवाकः)
ह॒रिः॑ ॐ।
पू॒र्णा प॒श्चादु॒त पूर्णा पु॒रस्ता॒दुन्म॑ध्य॒तः॑ पौ॑-
र्णमा॒सी जि॑गाय। तस्यां॑ दे॒वा अधि॑ सं॒व
स॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम्। यत्ते॑
दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो म-
हि॒त्वा। सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं
नो॑ धेहि सु॒भगे सु॒वी॑रम्। नि॒वेश॑नी सं॒गम॑-
नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसू॑न्यावे॒शय॑न्ती।
स॒ह॒स्रपो॒षँ सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒-
न्वर्च॑सा [ १ ] सं॒वि॒दा॒ना। अग्नि॑षोमौ प्रथ॒-
मौ वी॒र्ये॑ण॒ वसू॑न्रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम्।
मा॒ध्यँ हि॑ पौ॑र्णमा॒सं जु॒षेथां॒ ब्रह्म॑णा वृ॒द्धौ
सु॑कृ॒तेन॑ सा॒तावथा॒स्मभ्यँ स॒हवी॑राँ र॒यिं
नि य॑च्छतम्। आ॒दि॒त्याशचाङ्गिरसश्वा॒-
ग्नीनाऽदध॑त॒ ते द॑र्शपूर्णमा॒सौ प्रैप्स॒न्तेषा॒म-
ङ्गि॑रसा॒ निरु॑प्तँ ह॒विरासी॒दथा॑ऽऽदि॒त्या
ए॒तौ होमा॑वपश्य॒न्ताव॑जुहु॒वुस्ततो॒ वै ते द॑र्श
पूर्णमा॒सौ ( २ ) पू॒र्व आऽल॑भन्त दर्शपूर्णमा॒-
सावा॒लभ॑मान ए॒तौ होमौ॑ पुरस्ता॑ज्जुहुयात्सा॒-
क्षादे॒व द॑र्शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒-
दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सावा ल॑भेत॒

[[1700]]

य ए॑नयोरनुलो॒मं चं प्रतिलो॒मं च॑ वि॒द्यादि-
त्य॑मावा॒स्या॑या ऊ॒र्ध्वं तद॑नुलो॒मं पौ॑र्णमा॒स्यै
प्र॑तीचीनं तत्प्र॑तिलो॒मं यत्पौ॑र्णमा॒सीं पूर्वा॑-
मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒मुमप॒क्षीय॑-
माण॒मन्वप॑ [ ३ ] क्षी॒ये॒त॒ सा॒र॒स्व॒तौ होमौ॑
पु॒रस्ता॑ज्जुहुयादमावा॒स्या वै सर॑स्वत्यनुलो॒
ममे॒वैना॒वा ल॑भते॒ऽममा॒प्याय॑मान॒मन्वा प्या॑-
यत आग्नवैष्ण॒वमेका॑दशकपालं पु॒रस्ता॒-
न्निर्वपे॒त्सर॑स्वत्यै च॒रुँ सर॑स्वते॒ द्वाद॑शक-
पालं॒ यदा॑ग्ने॒यो भव॑त्य॒ग्निर्वै यज्ञमु॒खं य॑ज्ञ-
मु॒खमे॒द्धि॑ पु॒रस्ताद्धत्ते॒ यद्वै॑ष्ण॒वो भव॑ति
य॒ज्ञो वै विष्णु॑र्यज्ञमे॒वाऽऽरम्य॒ प्र तनु॑ते॒ सर॑-
स्वत्यै च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽ-
मावा॒स्या॑ वै सर॑स्वती पू॒र्णमासः॒ सर॑स्वा॒-
न्तावे॒व सा॒क्षादा र॑भत ऋ॒ध्नोत्या॑भ्यां॒ द्वाद॑-
शकपालः॒ सर॑स्वते भवति मिथुन॒त्वायः॒ प्र-
जा॑त्यै मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै
[४] ॥

[वर्च॑सा॒ वै ते द॑र्शपूर्णमा॒सावप॑ तनुते॒ सर॑स्वत्यै॒ पञ्च॑विँ शतिश्च]।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
पञ्चमप्रपाठके प्रथमोऽनुवाकः॥ १॥

[[1701]]

(अथ तृतीयाष्टके पञ्चमः प्रपाठकः)।

(तत्र प्रथमोऽनुवाकः)

यस्य निःश्विसितं वेदा यो वेदेभ्योऽशिलं जगत।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
प्रपाठके चतुर्थे हि काम्या नैमित्तिकाः श्रुताः।
प्रपाठके पञ्चमे तु सोमेष्ट्योः शेष उच्यते॥
तत्र प्रथमानुवाके दर्शपूर्णमासेष्ट्यङ्गभूतान्वारम्भणीयेष्टिर्विधातव्या।
कल्पः — “पूर्णा पश्चाद्यत्ते देवा अदधुरिति सारस्वतौ होमो हुत्वाऽन्वारम्भणीयामिष्टिं निर्वपति” इति। पाठस्तु —
पूर्णा पश्श्चादिति। पूर्णा पौर्णमास्यभिमानिदेवता पश्चाद्यज्ञभूमेः पश्चिमायां दिश्युज्जिगायोत्कर्षेण जयं प्राप्तवती। अपि च पूर्वस्यां दिशि तयोर्दिशोर्मध्यदेशेऽप्यु-ज्जिगाय तस्यां पौर्णमास्यामधिष्टायेह यज्ञे सम्यग्वसन्तः सर्वे देवा उत्तमे नाके भोग-बहुले स्वर्गे मादयन्तामस्मान्हर्षयन्तु। हेऽमावस्ये यद्यस्मात्कारणात्ते महित्वा महिम्ना सम्यङ्निवसन्तो देवा भागधेयमदधुर्हविर्भागं प्राप्तवन्तस्तस्मात्कारणाद्धे विश्ववारे सर्वानिष्टनिवारिकेऽमावास्याभिमानिदेवते सा त्वं नोऽस्मदीयं यज्ञं पिपृहि पूर्णं कुरु। हे सुभगे सौभाग्ययुक्ते नोऽस्मभ्यं रयिं धनं सुवीरं शोभनपुत्रं च धेहि संपादय। अथ तत्रैव विकल्पितावन्यौ मन्त्रावाह —
निवेशनीति। सा तादृशी देवता नोऽस्मान्प्रत्यागन्नागच्छतु। कीदृशी तदुच्यते, निवेशनी समीचीनेषु गृहेषु नितरामस्मान्प्रवेशयन्ती। वसूनां संगमनी धनानां प्रापयित्री। रूप्यन्ते मणिमुक्तादिभिर्बहुभिः प्रकारैर्निरूप्यन्त इति रूपाणि वसूनीत्यर्थः। तानि वसूनि धनानि विश्वा सर्वाण्यप्यावेशयन्ती, अस्मद्गृहेषु प्रवेशंयंन्ती। सहत्वपोष रराणा सहस्रलक्षादिधनपुष्टिं प्रयच्छन्ती। सुभगा सौभाग्ययुक्ता। वर्चसा संविदाना बलेन संयोजयन्ती। हेऽग्नीषोमौ युवा प्रथमौ देवानां मध्ये मुख्यावतो वीर्येणातो (ण) भवदीयसामर्थ्येनेह कर्मणि वस्तवादीञ्जिन्वतं प्रणियतम्। माध्यं पश्चात्पुरस्ताञ्च पौर्णमासीदेवतया रक्षिते मध्यदेशे क्रियमाणा-

[[1702]]

मिदं पौर्णमासं पौर्णमासीसंबन्धि हविर्जुषेथाम्। कीदृशौ युवां, ब्रह्मणा वृद्धौ स्तुतिरूपेण संतुष्टो सुकृतेन सातौ सम्यगनुष्ठितेनानेन कर्मणा फलस्य दातारौ हविःसेवनानन्तरमस्मभ्यं सहवीरां पुत्रसाहितां रयिं नियच्छतं नितरां प्रयच्छतम्। अथ होमं विधातुं प्रस्तौति —
आदित्याश्चेति। आदित्या देवा अङ्गिरस ऋषयश्चाऽऽधानादूर्ध्वं यदा दर्शपूर्णमासौ प्राप्तुमैच्छंस्तदा तेषामुभयेषां मध्ये येऽङ्गिरसऽऋषयस्ते सारस्वतहो-मावज्ञात्वा प्रथममेवान्वारम्भणीयेष्ट्यर्थं हविर्निर्वापं कृतवन्तः।अथ तदानीमादित्या देवा एतावन्वारम्भणीयेष्ट्यङ्गभूतौ सारस्वतहोमौ कर्तव्याविति निश्चित्य तावजुहवः। ततोऽन्वारम्भणीयेष्टेः साङ्गत्वादाङ्गिरोभ्यः पूर्वभाविन एव सन्तौ दर्शपू-र्णमासावुपक्रान्तवन्तः। इदानीं विधत्ते —
दर्शपूर्णासविति। दर्शपूर्णमासावारब्धुमिच्छन्पुरुष आरम्भणीयेष्टेरुपपक्रमे पूर्ण पश्चादिति मन्त्राभ्यां जुहुयात्। तेन होमेन विलस्बमन्तरेणैव दर्शपूर्णमासावारब्धुं योग्यो भवति। उक्तयोर्होमयोर्देवताविशेषं विधातुं प्रस्तौति —
ब्रह्मवादिन इति। अयेदं चिन्त्यते — किं पौर्णमासी प्रथमालब्धव्या आहो-स्विदमावास्येति। तदर्थमन्यदप्येतच्चिन्तनीयम्-कालस्य स्वरूपं कीदृशमनुलोमं कीदृशं च प्रतिलोममिति। न चेयमप्रस्तुता चिन्ता। यो यजमान एतयोदर्शपूर्णमासासंब-न्धिकालयारेनुलोमं प्रतिलोमं च स्वरूपं वेद स एव दर्शपूर्णमासारम्भे मुख्योऽधिकारी नान्य इति ब्रह्मवादिनः परस्परमाहुः। तत्र कश्चिद्धिमाननुलोमप्रतिलोमभागमेवं ब्रूते। अमावास्याया ऊर्ध्वं शुक्लप्रतिपदमारभ्यानुलोमं कालस्वरूपं दिने दिने चन्द्रस्य वर्धमानत्वात्। पौर्णमास्याः प्रतीचीनमुपरितनं कृष्णप्रतिपदमारभ्य कासस्य यत्स्वरूपं तत्प्रतिलोमं दिने दिने चन्द्रस्यापक्षीयमाणत्वात्। एवं सति यदि पौर्णमासीं पूर्वगामिनीं कृत्वा यागारम्भं कुर्यात्तदा प्रतिलोमस्तरूपेणैव तौ दर्शपूर्णमासावारब्धवान्भवति। तथा सति पौर्णमास्यामारब्धायां सत्यां समनन्तरेव चन्द्रोऽपक्षीयते। तं चापक्षीयमाणमनु यजमानोऽप्यपक्षीयते। अतः प्रातिलोम्यशेषपरिहारकृते देवता-विशेषौ विधत्ते —
सारस्वताविति। आरम्भणीयेष्टेः पुरस्ताद्यौ होमौ तौ सारस्वतौ। सर-

[[1703]]

स्वती च सरस्वांश्च ययोर्होमयोस्तौ। एतदीयहोमेन प्रातिलोभ्यदोषस्य परिहृतत्वा-दानुलोम्येनैव तौ दर्शपूर्णमासयागावारब्धवान्भवति। तथा वर्धमानचन्द्रमनु यजमानो वर्धते।
प्राच्याङ्गरूपौ होमौ विधायाङ्गिरूपष्मन्वारम्भणीयेष्टिं त्रिहत्वेष्कां पिधत्ते —
अग्नावैष्णवमिति। पूर्वत्रामावस्यायाः प्रथमारम्भे सत्यानुलोम्येन भावेऽपि तत्प्राथम्यमुक्ष्य प्रातिलोम्यदोषपरिहारप्रयत्नो विहितस्तदन्यथानुपपत्त्या पौर्णमास्येव प्रथममालब्धव्येति गम्यते। तादृशपौर्णमास्यारम्भात्पुरस्तादिदं हविस्त्रयं निर्वपेत्। तत्राऽऽग्नावैष्णवं प्रशंसति —
यदाग्नेय इति। अग्निमन्तरेण यज्ञस्यानिष्पत्तेरग्निरेव यज्ञस्य मुखमत आग्नेयेन हविषा यज्ञमुखमेवोद्दिश्य प्रथमतः समृद्धिं संपादयति। यज्ञस्य सर्वाङ्ग-व्यापित्वाद्विष्णुत्वमतो वैष्णवेत हविषा यज्ञमेवोपक्रम्य प्रकर्षेण विस्तृतवान्भवति। उत्तरं हविर्द्वयं प्रशंसति —
सरस्वत्या इति। स्त्रीलिङ्गनिर्दशादमावास्यायाः सरस्वतीत्वम्। तथा पुलि-ङ्गशब्दनिर्देशात्पूर्णमासः सरस्वान्। तथा सत्यनेन देवताद्वयेन तदात्प्रकौ दर्शपूर्णमासौ यागावेव व्यवधानमन्तरेणोपक्रान्तवान्भवति। किंचाऽऽभ्यां देवताभ्यां यजमानः समृद्धिं प्राप्नोति।
तृतीये हविषि सारस्वतीं परित्यज्य सरस्वत्स्वीकारं प्रशंसति —
द्वादशकपाल इति। द्वितीयहविषः स्त्रीदेवताकत्वादितरस्य पुंदेवताकत्वं यजमानस्य मिथुनत्वाय संपद्यते। तच्च प्रजोत्पत्त्यर्थं भवति। तत्र दक्षिणां विधत्ते-मिथुनौ गावाविति। अत्र विनियोगसंग्रहः —
पूर्णेत्यारम्भणीयेष्टौ द्वौ सारस्वतहोमयोः।
मन्त्रौ विकल्पितावन्याविति चत्वार ईरिताः॥

अत्र मिमांसा।
नवमाध्यायस्य प्रथमे पादे चिन्तितम् —
“अन्वाधानाङ्गभारम्भो यद्वा पुरु संस्कृतिः।
फलवत्त्वादादिमोऽन्त्यः पुंयोगान्न पृथक्फलम्” इति।

[[1704]]

दर्शपूर्णमासयोरन्वाधानस्य प्रथमपदार्थत्वेनाऽऽरम्भरूपत्वात्। आरम्भपयु क्तेयमिष्टिरन्वाधानस्याङ्गम्। तथा सति यागफलेनैव फलवती स्यात्। कर्तुः संस्कारपक्षे तु पृथक्फलं कल्प्येत। तस्मात्प्रतिप्रयोगमन्त्राधानावृत्तौ तदङ्ग भूतेयमिष्टिरिति प्राप्ते ब्रूमः — आरम्भो नाम पुरुषस्य प्रथमप्रवृत्तिर्नत्वाधानपदार्थः। अतो नाग्न्यन्वाधानाङ्गं किंत्वारप्स्यमानो निर्वपेदिति पुरुषयोगात्तत्संस्कारोऽयम्। न च चलकल्पनाप्रसङ्गः। कृतारम्भस्य पुरषस्य प्रयोगपरिगृहीतत्वेन पृथक्फलाकाङ्क्षाया अभावात्। नन्वेवमति तत्तत्प्रयोगमारप्स्यमानस्य संस्कारायाऽऽवृत्तिः स्यान्मैवम्। प्रयोगमारप्स्यमान इत्यश्रुतत्वात्। दर्शपूर्ण मासावारप्स्यमान इति श्रूयते। तयोश्चैक एवाऽऽरम्भः। तस्मान्नास्त्यावृत्तिः। तत्रैवान्यच्चिन्तितम् —

प्रतिप्रयोग आ (मा) रम्भयजिरास्ते न वाऽस्त्यसौ।
अङ्गत्वेन तत्स्वधर्म आधानवद्भवेत्॥

“आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमानः” इति विहितेयमारम्भणीयेष्टिदर्शपूर्ण (* मासयोर्यावज्जीवमावर्त्यमानयोः प्रतिप्रयोग-मावर्तनीया। कुतः। प्रयाजादिवदङ्गत्वादिति चेत्। नैतद्युक्तम्। कुतः। सर्वप्रयोगसाधा-रणत्वात्। यावज्जीवं मया दर्शपूर्ण) मासौ कर्तव्यावित्यध्यवसाय आरम्भः। स चैक एव। तेन चाऽऽरम्भेण प्रयुक्तेयमिष्टिः। तस्मान्नाऽऽवर्तनीया। यथाऽऽधानं सर्वक्रतुसाधारणत्वात्सकृदेव कर्तव्यं तद्वत्। आधानस्य सकृदनुष्ठानमेकादशस्य तृतीयपादे वक्ष्यते।
दशमाध्यायस्य प्रथमपादे चिन्तितम् —
तस्यां साऽस्ति नऽवाङ्गत्वेऽप्यस्याः पृथगुपक्रमात्।
अस्ति मैवं वचोऽशक्तेर्विधाने चातिदेशने॥
येयमारम्भणीया साऽपीष्टि्वाद्दर्शपूर्णमासप्रकृतिः। अतस्तस्यामपि दर्शपूर्ण मासयोरिवाऽऽप्स्यमानपुरुषसंस्काराय साऽनुष्ठेया न वेति संशयः। चोदक-प्राप्तत्वादनुष्ठेया। ननु सोमाङ्गदीक्षणीयादिवदस्या दर्शपूर्णमासाङ्गत्वेनाऽऽरम्भद्वारं
*धनुश्चिन्हान्तर्गतं न्यायमालास्थम्।

[[1705]]

लुप्यते। न। वैषम्यात्। ऋत्विग्वरणादिना सोममारभ्यानुतिष्ठतः पुरुषस्यानुष्ठानमध्ये दीक्षणीया प्रवर्तते। दर्शपूर्णमासारम्भस्त्वन्वारम्भणयीयायामनुष्ठितायां पश्चात्संपद्यते। ततो दर्शपूर्णमासोपक्रमादन्य आरम्भणीयापक्रम इति द्वारसद्भावादार-म्भणीयामारप्स्यमानस्य(न स्व) संस्कारार्थमन्यामारम्भणीयां कुर्यात्। अनवस्था तु लोकेसिद्धबीजाङ्कुरादिदृष्टान्तेन समाधेयेत्येवं प्राप्ते ब्रूमः आरम्भणीयायामारम्भणीयान्तरं न कर्तव्यम्। कुतः। अङ्गान्तरवदतिदेष्टुमशक्यत्वात्। तथा ही-प्रकृतौ समिधो यजतीत्यादिवाक्यैः प्रयाजाद्यङ्गानां स्वरूपमतिदिश्यते। प्रकरणेन चाङ्गाङ्गिभावो बोध्यते। ततः सौर्यं चरुं निर्वपेदुब्रह्मवर्चसकाम इत्यादिकायां विकृतां निर्वापातुमितं चोदकवाक्यमेवं प्रवर्तते। इष्टिवच्चरौ प्रयाजाद्येङ्गोन्यनुष्ठेयानि। एवं सत्यरम्भणीयायामिदं वक्तव्यं किमाग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमान इत्येदद्वाक्यं समिदादिवदङ्गभूतामारम्भणीयां विदधातु, किंवा यथा सौर्यादिवाक्य-मङ्गातिदेशमनुमापयति तथा दर्शपूर्णमासाङ्गभूतायामारम्भणीयायामन्यस्या आर-म्भणीयाया अतिदेशमनुमापयतु, उत्तोमयं करोत्विति। नाऽऽद्योऽङ्गविधावुपक्षीण-त्वेनातिदेशानुमाने शक्त्यभावात्। न द्वितीयोऽविहितत्वेनातिदेष्टुमयोग्यस्याङ्गस्यातिदेशे शक्त्यभावात्। न तृतीयो वाक्यभेदापत्तेः। नन्वनेन न्यायेन सोर्यवाक्येऽपि वाक्यभेदः प्रसज्येतैकस्यैव वाक्यस्य यागबिध्यङ्गातिदेशयोः प्रवृत्तत्वात्। मैवम् वाक्यद्वयसद्भावात्। प्रत्यक्षं वाक्यं यागविधायकमनुमितं वाक्यमङ्गातिदेशकम्। तर्ह्यत्रापि तादृशे वाक्यद्वयं भवत्विति चेद्वाढम्। अत एवाऽऽरम्भणीयायां प्रयाजा-द्यङ्गान्यनुष्ठीयन्ते तद्वदारम्भणीयान्तररूपमप्यङ्गमनुष्ठीयतामिति चेन्न। दर्शपूर्णमा-सप्रकरणे प्रयाजाद्यङ्गविधायकसमिदादिवाक्यवदारम्भणीयान्तररूपाङ्गविधायिनः कस्यचिद्वाक्यस्याभावात्। नहि प्रकृतावविद्यमानमङ्गं विकृतावातिदेशमर्हति। तस्मात्संप्रतिपन्नस्यैवाऽऽरम्भणीयाविधायिनो वाक्यस्याङ्गस्वरूपविधानाय समिदादिवाक्यस्थानीयत्वमतिदेशाय सौर्य वाक्यस्थानीयत्वं चेत्याकारद्वयं वर्णनीयम्। तथा सत्यावृत्तिलक्षणो वाक्यभेदः केन वार्येत। तस्मादारम्भणी-यायामारप्स्यमानपुरुषसंस्कारायाऽऽरम्भणीया न कर्तव्या॥

[[1706]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
प्रथमोऽनुवाकः॥ १॥