(अथ तृतीयाष्टके चतुर्थप्रपाठके एकदशोऽनुवाकः)।
त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे।
क॒विर्गृ॒हप॑ति॒र्युवा॑। ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता
नो॑ वि॒भुत्वि॒बावा॑ सु॒दृशी॑को अ॒स्मे। सु॒गा॒-
र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्रिय॒क्सं मि॑मीहि॒
श्रवाँ॑ सि त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं न
म॑रामहे॑। प्रि॒यस्तो॑त्रो॒ वन॒स्पतिः॑। ब्र॒ह्मा
दे॒वानां पद॒वीः क॑वी॒नामडषि॒षिर्विप्रा॑णां महि॒षो
मृ॒गाणा॑म्। श्ये॒नो गृध्रा॑णाँ॒ स्वधि॑ति॒र्वना॑-
नां सोमः॑ [१] प॒वित्र॒मत्ये॑ति॒ रेभ॑न्। आ वि॒-
श्वदे॑वँ सत्प॑तिँ सू॒क्तैर॒द्या वृणीमहे। स॒
त्यस॑व सवि॒तार॑म्। आ स॒त्येन॒ रज॑सा॒ व-
र्त॑मानो निवे॒शय॑न्नमृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न
सवि॒ता रथे॒नाऽऽ दे॒वो या॑ति॒ भुव॑ना वि॒पश्य॑
न। यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒
गवे। यता तो॒काय॑ रु॒द्रिय॑म्र। मा न॑
स्तो॒के तनये॒ मा न॒ आयु॑षि मा नो॒ गोषु॒
मा ( २ ) नो अश्वे॑षु रीरिषः। वीरा॒न्मा
नो रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा
[[1691]]
विधेम ते। उ॒द॒प्रुतो॒ न वयो॒ रक्षमाणा॒ वा
व॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑। गि॒रि॒भ्रजो॒
नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॑र्का अ॑नावन्।
हँ॒सैरि॑व॒ सखि॑भिर्वाव॑दद्भिरश्म॒न्मया॑नि॒ न-
ह॑ना॒ व्यस्य॑न्। बृह॒स्पति॑रभि॒कनि॑क्रद॒द्रा
उत प्रास्तौ॒ दुच्च॑ वि॒द्वा+ अ॑गायत्। एन्द्र॑
सान॒सिँ र॒यिम् [ ३ ] स॒जित्वा॑नँ सदा॒-
सह॑म्। वर्षि॑ष्ठमू॒तये भर। प्र स॑साहिषे पुरु-
हू॒त शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु। इ-
न्द्राऽऽ भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑-
नामसि रे॒वती॑वाम्। त्वँ सु॒तस्य॑ पी॒तये॑ स॒-
द्यो वृ॒द्धो अ॑जायथाः। इन्द्र॒ ज्योष्ठ्या॑य सु-
क्रतो। भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒
विश्वेषु॒ सव॑नेषु य॒ज्ञियः॑। भुवो॒ नँ श्च्यौ॒-
त्नो विश्व॑स्मि॒न्भरे॒ ज्योष्ठ॑श्च॒ मन्त्रः॑ ( ४ )
वि॒श्व॒च॒र्ष॒णे॒। मि॒त्रस्य॑ चर्षणी॒धृतः॒ श्रवो॑
दे॒वस्य॑ सान॒सिम्। स॒त्यं चि॒त्रश्र॑वस्तमम्।
मि॒त्रो चना॑न्यातयति प्रजा॒नन्मि॒त्रो दा॑धार
पृथि॒वीमु॒त द्याम्। मि॒त्रः कृ॒ष्ठीरनि॑मिषा॒ऽ-
मि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम। प्र स
मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒
[[1692]]
शिक्ष॑ति व्र॒तेन॑। न ह॑न्यते॒ न जी॑यते त्वो-
तो॒ नैन॒मँ हो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात्।
यत् [ ५ ] चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व
वरुण व्र॒तम्। मि॒नी॒मसि॒ द्यवि॑द्यवि। य-
क्तिं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नुष्या॑-
श्चरा॑मसि। अचि॑त्ती॒ यत्तव॒ धर्मा॑ यूयो-
पि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः। कि॒-
त॒वासो॒ यद्रिरि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त
यन्न वि॒द्म। सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒-
वाथा॑ ते स्याम वरुण प्रि॒यासः॑ [ ६ ]॥
(सोमो॒ गोषु॒ मा र॒यि मन्त्रो॒ यच्छि॑थि॒रा सप्त च॑ )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठके दशमोऽनुवाकः॥ १०॥
वि वा आ वा॑ यो इ॒मे वै चि॒त्तम॒ग्निर्भू॒तानां॑ दे॒वा वा ऋ॑ता॒षाड्रा-
ष्ट्रका॑माय॒ देवि॑का॒ वास्तो॑ष्प॒ते त्वम॑ग्ने बृ॒हद्वय॒ एका॑दश
॥ ११॥
वि वा इत्या॑ह यथा॒यजुरे॒वैतन्मृ॒त्युर्गन्ध॒र्वोऽव॑
बन्धे॒ त्वम॑ग्ने बृ॒हद्वयः॒ षट्च॑त्वारिँ शत्
॥ ४६॥
हरिः॑ ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थः प्रपाठकः॥ ४॥
[[1693]]
( अथ तृतीयकाण्डे चतुर्थप्रपाठके एकादशोऽनुवाकः)।
वास्तोष्पतियुतो होमो दशमे परिकीर्तितः।
अथैकादशे याज्या (पुरोनुवाक्या) स्तत्र देवसुवामेतानि हवी+ षि भवन्तीति यानि विहितानि तेष्वग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां व्रीहीणामित्यस्य पुरोनुवाक्यामाह —
त्वमग्ने बृहदिति। हेऽग्ने देव त्वं दाशुषे हविर्दत्तवते यजमानाय बृहद्वयो दधासि महदन्नं दीर्घामायुर्वा प्रयच्छसि। कीदृशस्त्वम्। कविर्विद्वान्। गृहयतिर्गृहस्य पालयिता। युवा नित्यतरुणः। तत्रैव याज्यामाह —
हव्यवाडग्निरिति। अयमग्निर्हव्यं वहतीति हव्यवाट्। अजरो जरारहितः। नोऽस्माकं पितोत्पादकः पालयिता वा। विभुर्वापि। विभावा विशेषण भानशीलः। सुदृशीकः सुखदर्शनः। ईदृशो योऽग्नि। स त्वमस्मे अस्माकमिषोऽन्नानी संदिदिही सभ्यक्प्रयच्छ। कथंभूता इषः। सुगार्हपत्याः शोभनगृहपतित्वहेतुभूताः। किंच। अस्मद्रियमस्मादाभिमुख्येनाऽऽगतः सञ्श्रवांसि श्रोतव्यानि यशांसि संमिहीहि सम्यङ्निष्पादय।
अथ सोमाय वनस्पतये श्यामाकं चरुमित्यस्य पुरोनुवाक्यामाह —
त्वं च सोमेति। हे सोम त्वं च त्वमपि नोऽस्माञ्जीवातुं वशो जीवयितुं कामयमानोऽसि। अतो न मरामहे त्वत्प्रसादान्न म्रियामहे। कीदृशस्त्वम्। मियस्तोषः सोमो वा ओषधीनाँ राजेत्यादिस्तुतिप्रियः। वनस्पतिर्वनानां पालकः। तत्रैव याज्यामाह-
ब्रह्मा देवानामिति। देवानां मध्ये ब्रह्मा श्रेष्ठः। पदं वेत्त्यवगच्छतीति पदवीः। कवीनां विदुषां मध्ये पदवीः पदवाक्यप्रमाणामिज्ञः श्रेष्ठः। विप्राणां मध्य ऋषिरनुष्ठानसामर्थ्येनातीन्वियवस्तुद्रष्टा श्रेष्ठः। मृगाणां चतुष्पादानां मध्ये शक्त्याधिक्यान्महिषः श्रेष्ठः। तथैव मृध्राणां पक्षिणा मध्ये शक्त्याविक्या च्छ्येनः श्रेष्ठः। वनानां मध्ये स्वाधिति श्रेष्ठः। स्वधितिशब्देन करवालादिव दूदृढस्रूपो भास्वान्वृक्ष उच्यते। यथा ब्रह्मादयः स्वजातिषु श्रेष्ठा एवं सोमोऽपि पवित्रं शुद्धिहेतुं कुशादिकमत्येत्यतिक्रामति। कीदृशः सोमः। रेमञ्शब्दभावस्तू यमान इत्यर्थः।
[[1694]]
अथ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालमाशूनां व्रीहीणामित्यास्य पुरोनुवाक्यामाह —
आ विश्वदेवमिति। अद्यास्मिन्कर्माणि सवितारं सूक्तैः शोभनवाक्यैरा-वृणीमहे फलसाधानाय प्रार्थयामहे। कीदृशं सवितारम्। विश्वदेवं विश्वे सर्वे देवा यस्य वशे वर्तन्ते सोऽयं विश्वदेवस्तम्। सप्ततिं सन्मार्गवर्तिनां पालकम। सत्यसवममो-धानुज्ञम। तत्रैव याज्यामाह —
आ सत्येनेति। सविताऽऽदित्यो हिरण्ययेन रथेनाऽऽयाति सुवर्णनिर्मितं रथमारुह्य प्रतिदिनं पूर्वस्यां दिश्यागच्छति। किं कुर्वन्, सत्येन रजसाऽऽवर्तमानः। अमोधेन रञ्जकात्मकेन मण्डलेनोदयास्तमययोर्म्राम्यन्नमृतं मर्त्यं च निवेशयन्तेव-शरीरं मनुष्यशरीरं स्वस्वकाले प्रकाशेन तत्तल्लोके व्यवहारक्षमं कुर्वन्भुवना विप-श्यन्सर्वलोकानवलोक्यन्।
अथ रुद्राप्र पशुपतये गावीधुकं चरुमित्येतस्य पुरोनुवाक्यामाह —
यथा नो अदितिरिति। अदितिरखण्डनीयो रुद्रो यथा पश्वे पशुभ्यो नृभ्यो गोभ्यश्व यथा तोकायापत्याय यथा रुद्रियं रुद्रमतिपादितं रक्षणादि यथा करत्पश्वा-दिभ्यः पुत्राद्यपत्याय च येन पर्कारण रक्षणं करोति तथा तमनेन हविषाऽऽराधयाम इति शेषः। तत्रैव याज्यमाह —
मा नस्तोक इति। हे रुद्र त्वं भामितः क्रुद्धः सन्नोऽस्माकं तोके पुत्रादौ तनये तदीयपुत्रेऽश्मत्पौत्रे मा रीरिषो हिंसां मा कृथाः। तथा नोऽस्माकमायुषि मा रीरिषः। तथा नोऽस्माकं वीरान्भृत्यान्मा वधीः। वयं हविष्मन्तो हविर्युक्ताः सन्तस्ते तुभ्यं नम-सा विधेम नमस्कारएम परिचर्यां करवाम।
अथ बृहस्पतये वाचस्पतये नैवारं चरुमित्यस्य पुरोनुवाक्यामाह —
उदप्रतो नेति। एवं बृहस्पतिमभिलक्ष्यार्का अर्चनहेतवोऽस्मदीयां वाग्विशेषा अनावन्स्तुतवन्तः कीदृशा वाग्विशेषाः। उद्पुतो न वयो रक्षमाणा उदकं प्रप्लावयन्ति भूमौ प्रवर्तयन्तीत्युदप्रुतो मेघास्ते यथाऽन्नोदकनिष्पादनद्वरिण मदीयं वय आयुष्यं पालयन्ति तद्वन्मदीयाः स्तुतिरूपा वाग्विशेषास्चापमृत्युपरिहारेणाऽऽ
[[1695]]
युष्मस्य रक्षकाः तथाऽभ्रियस्य घोषा इव वावदतः। आम्राणां समूहोऽभ्रियं तस्य घोषा गर्जनशब्दा यथोच्चध्वनय एवमस्मदीया वाग्विशेषा भृशं वदन्तो भवन्ति। तथा गिरिभ्रजो नोर्मयो मदन्तः। यथा नदीतीरस्थगिरिस्पर्शिन ऊर्मयो नदीपूरणप्रकाशनेन हर्षं जनयन्त्येवमस्मदीयवाग्विशेषा बृहस्पतिमहिमप्रकाशनेन हर्षयन्तो भवन्ति। तत्रैव याज्यामाह —
ह ँ सैरिवेति। अयं बृहस्पतिरभिकनिक्रददाभितोऽस्मदीयहविःस्वीकारपरितोष-द्योतकमुच्चध्वनिमकरोत्। उत गाः प्रास्तौत्। अपि च परितोषद्योतकानि वाक्यान्यु-च्चारितवान्। विद्वानुदगायच्चास्मदीयपरिचर्यामभिजानन्परितुष्ट उत्कर्षेण गानम-प्यकरोत्। किं कुर्वन्। अश्मन्मयानि नहना व्यस्यन्, पाषाणमयद्वारपिधानसदृशानि फलमतिबन्धकानि दुरितान्यपाकुर्वन्। यथा हंसैश्चतुर्थाश्रमवासिभिरभिष्टुतः परमेश्वरः पुरषार्थप्रतिबन्धकमपाकरोत्येवं वावदद्भिरतिशयेन स्तुवद्भिः सखिभिर्ऋत्विग्मिः परितोषितो बृहस्पतिः प्रतिबन्धमपाकरोतीत्यपेक्षितं शेषमध्याहृत्य व्याख्येयम्।
अथेन्द्राय ज्योष्ठाय पुरोडाशमेकादशकपालं महाव्रीहिणामित्यस्य पुरोनुवाक्यामाह —
एन्द्र सानसिमिति। हे इन्द्र रयिं धनमूतये रक्षार्थमाभराऽऽनय। कीदृशं धनम्। सानसिं सनसो दानस्य संबन्धिनं बहुभ्यो दातुं पर्याप्तमित्यर्थः। सजित्वानं जित्वभिर्जयशीलैः पुत्रादिभिरुपेतम्। सदासहं सर्वदा विरोधिनां सोढारं तत्तिरस्कार-क्षममित्यर्थः वर्षिष्ठमतिशयेन प्रवृद्धम्। तत्रैव याज्यामाह —
प्र ससाहिष हति। हे पुरुहूत पुरूषु बहुषु यज्ञेष्वाहूयमान शत्रून्प्रकर्षेण ससाहिषे सर्वदा सहसे तिरस्करोषीत्यर्थः। ते शुष्मो ज्येष्टस्तव बलं प्रशस्तम्। इहा-स्मिन्क्रर्मणि रतिरस्तु। फलदानमस्तु। हे इन्द्र दक्षिणेन हस्तेन वसूनि धनान्यामर* समानय। सिन्धूनां समुद्रसमानानां रेवतीनां प्रजानां पतिरसि।
अथ तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाह —
- सर्वपुस्तकेषु आहार इति पाठः।
[[1696]]
त्व ँ सुतस्येति। हे सुक्रतो शोभनकर्मन्निन्द्र त्वं सुतस्याभिषुतस्य पतिये पानाय सद्यस्तदानीमेव वृद्धोऽजायथाः प्रवृद्धो जातोऽसि। एतच्च सर्वेषां देवानां मध्ये तव ज्यैष्ठ्याय संपद्यते। तत्रैव विकल्पितामन्यां याज्यमाह —
भुवस्त्वमिति। हे इन्द्र त्वं ब्रह्मणा महान्भवः स्तुतिरूपेण वेदवाक्येना-भिवृद्धो भवसि। विश्वेषु सवनेषु त्रिष्वपि प्रातःसवनादिषु यज्ञियो भुवो यज्ञयोग्यो भवसि। नृन्प्रतिकूलाञ्शत्रूंश्च्यौत्नो भुवः प्रच्यावयन्विनाशयन्वर्तसे। हे विश्वचर्षणे विश्वे सर्वेचर्षणयो मनुष्या यस्मासौ विस्वचर्षणिः। सर्वमनुष्यस्वामी त्यर्थः। तादृशस्त्वं विश्वस्मिन्भरे सर्वस्मिन्यागे मन्त्रो मननीयो ज्येष्ठः प्रशास्तश्च भवसि। अथ मित्राय सत्यायाऽऽम्बानां चरुमित्यस्य पुरोनुवाक्यामाह-
मित्रस्येति। चर्षणीधृतो मनुष्याणां धारयितुर्मित्रस्य देवस्य श्रवः श्रोतुं योग्यं यशो महदस्तीति शेषः। सानसिं फलदानशीलम्। सत्यं सत्यवादिनम्। चित्रं श्रवः कीर्तिर्यस्यासौ चित्रश्रवा अतिशयेन तादृशम्। यजामह इति शेषः।
तत्रैव याज्यमाह —
मित्रो जनानिति। अयं मित्रो देवो जनान्सर्वान्यातयति स्वस्वव्यापारेषुप्रयत्नयुक्तान्करोति। प्रजानंस्तत्तदधिदकारं विद्वान्। किंच मित्रः पृथिवीं दाधार धृतवान्। उतापि च द्यां दाधार। किंच मित्रः कृष्टीर्मनुष्याननिमिषा देवां श्चाभिचष्टे सर्वतः पश्यति। सत्ययामोघफलाय तस्मै मित्राय हव्यं चरुलक्षणं घृत वद्घृतयुक्तं विधेम कुर्मः।
तत्रैव विकल्पितामान्यां याज्यामाह —
प्र स मित्रेति। यो यजमानस्तव संबन्धिना ब्रतेन कर्मणा शिक्षति अनुष्ठातुं शक्तो भवितुमिच्छति हे मित्र स मर्तः स मनुष्यो यजमानः प्रयस्वान्कर्मफलयुक्तः प्रकर्षेणास्तु। त्वोतस्त्वया रक्षितः स यजमानो न हन्यते रोगादिना न पीड्यते। न जीयते वैरिभिर्नाभिभूयते। अपि च त्वया रक्षितमेनं यजमान मंहः पाप्माऽन्तितः समीपे नाश्नोति न व्याप्नोति। दूराद्दूरेऽपि न प्राप्नोति।
अथ वरुणाय धर्मपतये यवमयं चरुमित्यस्य पुरोनुवाक्यामाह —
यच्चिद्धि त इति। हे वरुण देव ते त्वदीयं यञ्चिदव्रतं यत्किंचिदपि
[[1697]]
कर्म द्यविद्यवि दिने दिने प्रकर्षेण मिनीमासि तर्कयामहे। तत्र दृष्टान्तः — विशो यथा सर्वाः प्रजाः स्वस्वव्यापारं यथा तर्कयन्ति तद्वत्। हि यस्मात्त्वदीयमेव कर्म सर्वदा तर्कयामस्तस्मास्वां परिचरेमेति शेषः। तत्रैव याज्यामाह-
यत्किंचेदभिति। हे वरुण मनुष्या वयं दैव्ये देवलोकवर्तिने जने यत्किंचेद-मभिद्रोहं स्वल्पमधिकं वा द्रोहमचिन्त्यज्ञानेन चरामसि कुर्मः। किंच यदपि तव धर्मा त्वदीयं कर्म युयोपिम विनाशयामो हे देव तस्मादेनसो द्रोहात्कर्मनाशाच्च नोऽस्मान्मा रिरिषो हिंसा मा कृथाः —
तत्रैव विकल्पितामान्यं याज्यामाह-
कितवास इति। कितवासो धूर्तसमानाः स्वार्थसाधनपरा ऋत्विजो यत्क-र्माङ्गं रिरिषुर्नाशितवन्तो न दिवि न तु देवने सम्यग्व्यवहृतौ प्रवर्तन्ते। वाऽथवा यत्पापं सत्यमवश्यं कृतं ज्ञात्वैव कृतमित्यर्थः। घशब्दः पादपूरणे पापवनाचको वा निपातितः। यद्ध सत्यमित्यन्वयः। उतापि च यद्ध विद्म यत्पापमज्ञानेन कृतमित्यर्थः। सर्वा ता, ऋत्विग्भिर्विनाशितमङ्गं ज्ञात्वा कृतमज्ञानेन कृतं चेति यानि सन्ति तानि सर्वाणि शिथिरेव शिथिलानीव विष्य विनाशयेत्यर्थः। अथानन्तरं हे वरुण ते तव प्रियासः स्याम प्रिया भवेम।
अत्र विनियोगसंग्रहः —
राजसूये देवसुवामिष्टौ याज्या इमाः क्रमात्।
त्वगग्ने बृहदाग्नेये त्वं च सोमेति सौम्यके॥
आ विश्वदेवं सावित्रे यथा न इति रौद्रके।
बार्हस्पत्य उदेत्येतदैन्द्रेऽन्त्यैन्द्रे चतुष्टयम्॥
मित्रस्येति त्रयं मैत्रे वारुणे यदिति त्रयम्।
एकादशेऽनुवाकेऽस्मिन्मन्त्रा उक्ता हि विंशतिः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके एकदशोऽनुवाकः॥ ११॥
[[1698]]
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयकाण्डे चतुर्थः प्रपाठकः॥ ४ ॥
[[1699]]