(अथ तृतीयाष्टके चतुर्थप्रपाठके दशमोऽनुवाकः)।
वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो
अ॑नमी॒वो भ॑वा नः। यत्त्वेम॑हे॒ प्रति॒ तन्नो॑
जुषस्व शं नं॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे। वा-
स्तो॑ष्पते श॒ग्मया॑ सँ॒सदा॑ ते सक्षी॒महि॑ र॒-
ण्वया॑ गातुमत्या॑। आवः॒ क्षेम॑ उ॒त योगे॒
वरं॑ नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः। य-
त्सा॒यंप्रा॑तरग्निहो॒त्रं जु॒होत्या॑हुतीष्ट॒का ए॒व
ता उप॑ धत्ते [ १ ] यज॑मानोऽहोरा॒त्राणि॒
वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यत्सा॒यंप्रा॑दर्जु॒-
होत्य॑होरा॒त्राण्ये॒वाऽऽप्त्वेष्ट॑काः कृ॒त्वोप॑ ध-
[[1684]]
त्ते॒ दश॑ समा॒न्त्र॑ जुहोति॒ दशाक्ष॑रा विराड्-
वि॒राज॑मे॒वाऽऽप्त्वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽथो॑
वि॒राज्ये॒व त॒स्मा॑द्यत्र दशो॑षि॒त्वा प्र॒याति॒ तद्य॑-
ज्ञवा॒स्त्ववा॑स्त्वे॒व तद्यत्ततो॑ऽर्वा॒चीन॑म् [ २ ]
रु॒द्रः खलु॒ वै वा॑स्तोष्पतिर्यदहु॑त्वा वास्तो
ष्प॒तीयं॑ प्रया॒याद्रु॒द्र ए॑न भू॒त्वाऽग्निर॑नू॒त्थाय॑
हन्याद्वास्तोष्प॒तीयं॑ जुहोति भाग॒धेये॑नै॒वैनँ॑
शमयति॒ नाऽऽर्ति॒मार्छति॒ यज॑मानो॒ यद्यु॒क्ते
जु॑हु॒याद्यथा॒ प्रया॑ते॒ वास्ता॒वाहुतिं जु॒होतिं
ता॒दृगे॒व तद्यदयु॑क्ते दुहु॒याद्यथा॒ क्षेम॒ आहु॑र्ति
जु॒होति॑ ता॒दृ॑गे॒व तदहु॑तस्य वास्तोष्प॒तीँ
स्यात् ( ३ ) दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽ-
यु॒क्तोऽथ॑ वास्तोष्प॒तीयं॑ जुहोत्यु॒भय॑मे॒वाक॒र-
प॑रिवर्गमेवै॒नँ॑ शमयति॒ यदेक॑या जु॒हुयाद्द॑
र्विहो॒मं कु॑र्यात्पुरोनुवा॒क्या॑म॒नुच्य॑ या॒ज्य॑या
जुहोति सदेव॒त्वाय॒ यद्धु॒त आ॑द॒ध्याद्रु॒द्रं
गृ॒हान॒न्वारोहये॒द्यद॑व॒क्षाणा॒न्यसं॑प्रक्षाप्य प्र-
या॒याद्यथा॑ यज्ञवेश॒सं वा॒ऽऽदह॑नं वा ता॒दृ-
गे॒व तद॒यं ते॒ योनि॑र्ऋ॒त्विय॒ इत्य॒रण्योः॑ स॒
मारोहयति [ ४ ] ए॒ष वा अ॒ग्नेर्योनिः॒ स्व
ए॒वैनं॒ योनौ॑ स॒मारो॑हय॒त्यथो॒ खल्वाहु॒र्यदर॒-
[[1685]]
ण्योः॑ स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निः सी॑देत्पुन-
रा॒धेयः॑ स्या॒दिति॒ या ते अग्ने य॒ज्ञियात॒नू
स्तयेह्या रो॒हेत्या॒त्मन्त्स॒मारो॑हयते॒ यजमानो॒
वा अ॒ग्नेर्योनिः॒ स्वाया॑मे॒वैनं॒ योन्याँ समा-
रो॑हयते [ ५ ]॥
(ध॒त्ते॒ऽर्वा॒चीनँ स्यात्स॒मारो॑हयति॒ पञ्चचत्वारिँशाच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठके दशमोऽनुवाकः॥ १०॥
( अथ तृतीयकाण्डे चतुर्थप्रपाठके दशमोऽनुवाकः)।
नवमे देविकाख्यानि हर्वीष्युक्तानि विस्तरात्।
अथ दशमे प्रयाणं करिष्यताऽग्निहात्रिणोऽग्निसमारोपणमभिवीयते।
कल्पः — “सगृहः प्रयास्यन्वास्तोष्पतीयं जुहोति वास्तोष्पत इत्यनुद्रुत्योत्तर य गार्हपत्ये जुहोति” इति। प्रथममन्त्र पाठस्तु—
वास्तष्पते प्रतीति। अग्निहोत्रिणो गार्हपत्याग्निरेव गृहस्थानीयः। तेन सह यदा प्रयास्याति तदानीं पत्नीसहितोऽग्निं गृहीत्वा प्रयास्यन्नुत्तरेण मन्त्रेण होतुमिमां पुरोनुवाक्यामनुब्रूबात्। तस्य मन्त्रस्यायमर्थः वास्तोरग्निहोत्रनिवासस्थानस्य गृहस्य ह्रे पते पालक गार्हपत्यास्मान्प्रतिजानीहि ग्रामान्तर यियासून्प्रतिबुध्यस्व। ततोऽमाकं स्वावेशःऋ सुखेनऽऽवेशयिता वासयिता भव। अनमीवो रोगनिवारकश्व भव। यक्तार्यमुद्दिश्य त्वां वयमीहे प्राप्नुमः प्रार्थयामह इत्यर्थः। नोऽस्मदर्थं तत्कार्यं चुषस्व प्रीतिपूर्वकं सेवस्व। ततोऽस्माकं द्विपदे मनुष्याय चतुष्पते पशवे च शमेधि सुखे हेतुर्भव। द्विपदे शं भव चतुष्पदे च शं भवेति वाक्वभेदाय शमित्यस्य द्विःपाठः। द्वितीयमन्त्र पाठस्तु —
[[1686]]
वास्तोप्पते शग्भयेति। हे वास्तोष्पते संसदा त्वदीयया सभया सक्षीमहि वयं संसक्ता भूयास्म। कीदृश्या संसदा, शग्मया सर्वार्थसाधनशक्तया। रण्वयां रमणीयया। गातुमत्या गातुर्गतिरवगतिस्तद्युक्तया सर्वज्ञयेत्यर्थः। त्वं नोऽस्माकं योगे योगनिमित्तं वरमावः सम्यग्रक्ष। उतापि च क्षेमे क्षेमनिमित्तं सम्यग्रक्ष। अलब्धस्यापेक्षितस्य लाभो योगः। लब्धस्य सर्वार्तस्य परिपालनं क्षेमः। यूयमिति पूजार्थं बहुवचनम्। मे यूयं नोऽस्मान्स्वस्तिमिर्नानाविधश्रेयोभिः पात रक्षत। अथैनं होमं विधातुं प्रस्तौति —
यत्सायं प्रातरिति। अग्निहोत्री कालद्वयेनाग्निहोत्रं जुहोतीति यत्ताः स्रवा आहुतिरूपा इष्टका एव यजमान उपधत्ते। यद्यप्यत्र मृन्मया इष्टका न सन्ति तथाऽपि यः पुरु, आहिताग्निर्भवति एतस्याहोरात्राण्येवेष्टकाः संपद्यन्ते। अतो यदि सायंप्रातर्नियमेन जुहोति तदानीमनुष्ठानेनाहोरात्राण्येव प्राप्तकालारूपा इष्टकाः कृत्वोपधानं कृतवान्भवति। पुनः प्रकारान्तरेण प्रस्तौति —
दश समानत्रेति। समानत्रेकत्र दश दिनानि स्थित्वा यदाऽग्निहोत्रं जुहोति तदा दशसंख्यासामान्याद्विराट्संपद्यतेऽग्निहोत्री विराजमेव प्राप्य तां विराजमेवेष्टकां कृत्वोपधानं कृतवान्भवति। अपि च विराजि लब्धायामग्निष्टोमयज्ञं प्राप्नोति। अत एव सप्तमकाण्डेऽग्निष्टोमप्रस्तावे विराजमभिसंपद्यत इति वक्ष्यते। तदेवमस्या-ग्निहोत्रिणश्वचित्यश्वचित्यो भवति। त्रिविधाश्वचित्याग्नयः संपद्यन्ते। सायंप्रातर्होमाहुति-रूपाभिरिष्टकामिश्चित। एकोऽग्निः। अहोरात्रकालरूपाभिरिष्टकाभिश्चितो द्वितीयोऽग्निः। विराड्रूपेष्टकया चितस्तु तृतीयोऽग्निः। एवमस्य विविधचित्याग्निसंपत्तिः इदानीं विधत्ते —
तस्माद्यत्रेति। यस्मादेकत्र दशाहोरात्रहोमेन विराट्संपत्तिस्तस्माद्यत्र दश दिनान्युषित्वा पश्वादग्निहोत्री प्रयाति स देशो यज्ञभूमिस्ततोऽर्वाचनिं कालं यत्र वसति सेयमयज्ञभूमिरेव। अतो दशरात्रिरेकत्रोषित्वा यत्पश्वात्प्रयाणं तद्धोमति मित्तम। तस्मिन्होमे रुद्वशब्दामिधेयो मार्ह+त्याग्निदेवता। तस्य वास्तोष्पतित्वात्। एवं सति यदि वास्तोष्पतीयहोममकृत्वा प्रयाणे कुर्यात्ततो गार्हपत्योऽग्निः क्रूरो श्रूत्वा यजमानमनूत्थाय हन्यात्। अतस्तत्परिहाराय प्रमाणकाले वास्तोष्पतीयं
[[1687]]
जुहुयात। तेन होमभागं दत्त्वा तगमग्निं शान्तं करोति। ततो यजमानो न म्रियते। प्रयाणार्थस्य शकटस्य दक्षिणबलीवर्दयोजतादूर्ध्वं सव्यबलीवर्दयोजनात्प्रगेव होमावसर इत्येतद्विधत्ते —
यदुक्ते जुहूयादिति। यदि बलीवर्दद्वये युक्ते सति पश्वाज्जुहुयात्तदा तावतैव वास्तुर्यज्ञदेशः प्रयातो भवति। तस्मिन्प्रयाते सति अयज्ञदेशे लौकिके यथां होमस्तथैतत्स्यात्। तर्ह्ययुक्ते बलीवर्दद्वये जुहोत्विति चेत्। तदप्यसंगतम्। यथा क्षेमे सति प्रयाणप्रसङ्गमन्तरेण जुहोति तथैतत्स्यात्। उभयथाऽप्यहुतमस्य वास्तोष्पतीयं भवेत्। प्रयास्याता हि वास्तोष्पतीयं होतव्यम्। उभययोगे हि प्रयाणस्य निष्पन्नत्वान्नायं प्रयास्यन्भवति। तयोरुभयोरप्ययोगे प्रयाणप्रसङ्गस्याभा वान्नेव प्रयास्यान्यवति। तक्षिणबलीवर्द एकस्मिन्नेव युक्ते तु प्रयाणस्य प्रसक्तत्वादनतीतत्वाच्चायं प्रयास्यन्भवति। अतस्तदा वास्तोष्पतीयं जुहुयात्। तथा सत्युभयमेव कृतवान्भवति। प्रयाणस्य प्रसक्तत्वमेकमनिप्पन्नत्वं द्वितीयमित्युभयम्। एनं क्रूरमग्निं तथाविधेन होमेनापरिवर्गमेव शमयति क्षमनीयस्यांसश्य कस्यचिदपि वर्जनमकृत्वा सर्वात्मना शान्तमेनं कृतवान्भवति।
वास्तोष्पते प्रतिजानीहि वास्तोष्पते शग्मवेत्यत्यस्य मन्त्रद्वयस्य होमाङ्गतः विधत्ते —
यदेकयेति। आश्रावयेत्वादिर्वौषडित्यान्तो मन्त्रसंघो याज्यापुरोनुवाक्ययो सहाये (यो) वर्तते। याज्यापुरोनुवाक्ये तु प्रधानभूते। तत्पूर्वको होमो देवानां प्रियस्तद्रहितस्तु दर्विहोमः। अग्नये स्वाहेत्येवं मन्बमुच्चार्याऽऽश्रावादिभिर्विना केवलया दर्व्या हुयमानत्वात्तादृशो देवानामत्यन्तं प्रियो न भवति। एवं सत्यत्र यद्येकयैव दर्व्या चुहुयात्तदानीमाश्रावणादिमन्त्राणामवकाशाभावेन दर्विहोमः त्यात्। अतो दर्विहोमत्वं मा भूदित्यभिप्रेत्य वास्तोष्पते प्रतिजानीहीत्येतां पुरोवाक्यामनुच्य वास्तोष्पते शग्मयेत्यनया याज्वया जुहुयात। तथा सति देवानात्यन्तप्रियत्वाद्दे [त्सदे] -वत्वं भवति।
अथ क्रमेण शकटे भाण्डस्थापनमरण्योरग्निसमारोहणं च विधत्ते—
यद्धुत आदध्यादिति। यद्यग्निहोत्रे हुते सति पश्वाद्भाण्डानि शकटे
[[1688]]
स्थापयेत्तदानीं गृहोपकरणानि भाण्डादीन्युन रुद्रनामकमग्निमपि शकटे स्थापयेत्। ततः शकटं दह्येत। नहि होमादुध्वर्भग्निः पूर्वदेशे तिष्ठति, पूर्वं तु होमार्थं विष्ठत्येव। तस्मादहुतेऽग्निहोत्रे तद्धोमात्प्रागेव भाण्डानि शकटे स्थापयेदिति विधिरुन्नीयते। ज्वलितानि काष्ठान्यङ्गाररूपाण्यवक्षाणशब्दाभिधेयानि। यदि तान्यसंप्रक्षाप्याग्नि-राहित्यं यथा न भवति तथा शान्तान्यकृत्वा प्रयाणं कुर्यात्तदाकेनचिद्यज्ञविधातः कृतो यथा वा गृहदहनं कृतं तादृशमेव तदङ्गारणामशमनं स्यात्। अतस्तत्परिहारार्थमयं ते योनिरिति मन्त्रेण तमग्निमरण्योः समारोह यत्। एयोऽरण्योः संद्यो वन्हेः कारणं ताभ्बामुत्पन्नत्वात्। ततस्तमग्निं स्वकीये योनौ समारूढं करोति। मन्त्रस्तूपप्रयन्तो अध्वरमित्यनुवाके समाम्नातत्वात्तत्रैव व्याख्यातः।
अरणिसमारोहणं पाक्षत्रिकदोषग्रस्तत्वादपेक्ष्य स्वात्मनि समारोहणं विधत्ते —
अथो खल्वाहुरिति। अथ केचित्खल्वाहुररण्योः समारूढो यद्यरणिदा हापहारादिना नश्येत्तदा यजमानस्य पूर्वमादितोऽग्निरुत्सीदेदतोऽग्निः पुनरा-धातव्यः स्यादिति, तस्य दोषस्य परिहाराय यजमानो या ते अग्न इति मन्त्रेण स्वात्मन्यग्निं समारोहयेत। तथैवारण्योरग्न्युत्पादकत्वमेवं यजमानोऽपि शास्त्रीया-ग्नेरुत्पादकत्वाद्योनिर्भवति। तस्माद्यजमाने समारोहितोऽग्नि। स्वकीयोयामेव योन्यां समारोहितो भवति। अयं तु मन्त्रो ब्राह्मणग्रन्थे द्वितीयकाण्ड पश्वमप्रपाठके समाभ्ना-स्यमानत्वात्तत्रैव व्याख्यास्यते। अत्र विनियोगसंग्रहः —
अग्निहोत्री त सगृहः प्रयास्यञ्जुहुयादद्वयम्।
वास्तोः पुरोनुवाक्योका याज्या चान्येति ददद्वयम्॥
अत्र मीमांसा।
अष्टमाध्यायस्य चतुर्थपादे चिन्तितम्—
दर्विहोमो गुणो नाम वा गुणो दधिहोमवत्।
गुणासंभवतो लोकवेदयोर्नाम तद्भवेत्॥
इदमाम्नायते “यदेकया जुहुयाद्दर्विहोमं कुर्यात्” इति। तत्र दर्व्या होमो दर्विहोम इति तृतीयासमासे सति दध्ना जुहोतीत्यादाविवि होमानुवादेन
[[1689]]
गुणविधित्वसंभवाद्दर्व्याख्यो गुणो विधीयत इति चेन्मैवम्। न तावल्लोकसिद्धे स्थालीपाकाष्टकादिहोमे दर्विगुणो विधातुं शक्यो लौकिकशिष्टाचारदेव तत्र साधनप्राप्तेः नापि वेदसिद्धऽग्निहोत्रनारिष्ठादिहोमे विहितजुह्वादिबाधप्रसङ्गात्। तस्माद्दर्विहोम इति कर्मनामधेयम्। तत्रैवान्यच्चिन्तितम् —
लोकिकस्येत सर्वस्य नामाऽऽद्योऽम्बष्ठवाक्यतः।
निमित्तसाम्याद्वेदेऽपि तदुक्ते सर्वनाम तत्॥
“अम्बष्ठानां दार्विहोमिको ब्राह्मणः” इति श्रु (स्मृ) तावाम्बष्ठस्वामिके स्मार्तहोमे तत्प्रयोगाल्लौकिकस्यैव होमस्य तन्नामेति चेन्मैवम्। दर्व्या होम इति प्रवृत्तिनिमित्तस्य लौकिकवैदिकयोः समानत्वाद्दर्विहोमं कुर्यादिति श्रुत्युक्तेर्वैदिकहो मनामलिङ्गत्वात्सर्वस्य होमस्यैतन्नाम। तत्रैवान्यच्चिन्तितम् —
तद्यजेरपि नाम स्याज्जुहोतेरेव वाऽग्रिमः।
अविशेषेण मुख्यत्वाज्जुहोतेर्लक्षणाऽन्यथा॥
तन्नाम चुहोतिचोदानानां यजतिचोदनानां च भवितुमह्रति। कुतः। अवि शेषश्रवणादिति चेन्मैवम्। जुहोतियोदनासु होमशब्दस्य मुख्यत्वात्। यजतिचोदना-नां तन्नामत्वे लक्षणा स्यात्। तस्माज्जुहोतिचोदनानामेव।
तत्रैवान्यच्चित्नितम् —
दर्विहोमे सोमधर्मा अपूर्वत्वमुताग्निमः।
अव्यक्तेर्यज्यबावाच्च स्वाहोक्त्यादेरपूर्वता॥
जयाभ्याताननारिष्ठादिषु दर्विहोमेषूत्पत्तिवाक्ये देवताया अश्रवणाद-व्यक्तिलिङ्गेन सोमधर्माः कर्तव्या इति चेन्मैवम्। सोमे श्रुतस्य यजतिलिङ्गस्याभावात्। किंच – पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहा’ इति। दर्विहोमेषु स्वाहाकार आम्नातः। स च सोमाविध्यन्तातिदेशे विरुध्येत। तेन स्वाहाकारविरोधिनो वषट्कारस्य प्राप्यमा-णत्वात्। किंचोदाहृतैर्मन्त्रगतचतुर्थ्यन्तैः पदैर्देवतासमर्पणान्नास्त्यव्यक्तत्म्। तस्माद्दर्विहोमानामपूर्वकर्मत्वान्नास्ति तत्र कस्यापि विध्यन्तस्यातिदेशः॥
[[1690]]
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके दशमोऽनुवाकः॥ १०॥