०९

(अथ तृतीयाष्टके चतुर्थप्रपाठके नवमोऽनुवाकः)।

देवि॑का॒ निव॑पेत्प्र॒जाका॑म॒श्छन्दाँसि॒ वै
देविका॒श्छन्दाँ॑ सीव॒ खलु॒ वै प्र॒जाश्छन्दो॑
भिरे॒वास्मै॑ प्र॒जाः प्र ज॑नयति प्रथ॒मं धा॒तारं॑
करोति मिथु॒नी ए॒व तेन॑ करो॒त्यन्वे॒वास्मा॒
अनु॑मतिर्म॑न्यते रा॒ते रा॒का प्र सि॑नीवा॒ली
ज॑नयति प्र॒जास्वे॒व प्र॒जा॑तास कु॒ड्वा॑ वाचं॑
दधात्ये॒ता ए॒व निर्व॑पेत्प॒शुका॑म॒श्छन्दाँ॑ सि॒
वै देवि॑का॒श्दाँ सि [ १ ] इ॒व॒ खलु॒ वै
प॒शव॒श्छन्दोभिरे॒वास्मै॑ प॒शून्प्र ज॑नयति प्र-
थ॒मं धा॒तारं॑ करोति॒ प्रैव तेन॑ वाषय॒त्यन्वे॒
वास्मा॒ अनु॑मतिर्म॑न्य॑ते रा॒ते रा॒का॑ प्र सि॑-
नीवा॒ली ज॑नयति प॒शूने॒व प्रजा॑तान्कु॒हवा॑
प्रति॑ ष्ठापयत्ये॒ता ए॒व निर्व॑पेद्ग्राम॑काम॒च्छ-
न्दाँ सि॒ वै देवि॑का॒श्छन्दाँ सीव॒ खलु॒ वै
ग्राम॒श्चन्दो॑भिरेवास्मै॒ ग्राम॑मू [ २ ] अव॑
रुन्धे मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैनं
ग्राम॑स्य दधात्ये॒ता ए॒व नि॑र्व॒पेज्ज्योगामयावी॒
छन्दाँ॑ सि॒ वै देवि॑का॒श्छन्दाँ सि॒ खलु॒ वा
ए॒तम॒भि म॑न्य्न्ते॒ यस्य॒ ज्योगा॒मय॑ति॒ छन्दो॑
मिरे॒वैन॑मग॒दं क॑रोति मध्य॒तो धा॒तारं॑ क
रोति मध्य॒तो वा ए॒तस्याक्लृ॑प्तं यस्य॒ ज्यो-

[[1679]]

गा॒मय॑ति मध्य॒त ए॒वास्य॒ तेन॑ कल्पयत्ये॒ता
एव निः ( ३ ) व॒पे॒द्यं य॒ज्ञो नोपनमे॒च्छ
न्दाँ मि॒ वै देवि॑का॒श्छन्दँसि॒ खलु॒ वा
ए॒तं नोप॑ वमन्ति॒ यं य॒ज्ञो नोप॒नम॑ति प्रथ॒मं
धा॒तारं करोति मुख॒त ए॒वास्मै॒ छन्दाँ सि
दधा॒त्युषैनं य॒ज्ञा न॑मन्ये॒ता ए॒व निर्व॑पेदीजा॒-
नश्छन्दाँ सि॒ वै देवि॑का या॒तया॑मानीव॒
खलु॒ वा ए॒तस्य॒ छन्दाँ॑सि य इं॑जा॒न उ॑-
त्त॒मं धा॒तारं॑ करोति [ ४ ] उ॒परि॑ष्टादेवा
स्मै॒ छन्दाँ॒ स्यया॑तयामा॒न्यव॑ रुन्ध॒ उपै॑न॒-
मुत्त॑रो य॒ज्ञो य॑मत्ये॒ता ए॒व नि॑र्वपे॒द्यं मे॒धा
नोप॒नमे॒च्छन्दांँ सि॒ वै देविका॒श्छन्दाँ सि॒
ख॒लु वा ए॒तं नोप॑ नमन्ति॒ यं मे॒धा नोप॒न
म॑ति प्रथ॒मं धा॒तारं करोति मुख॒त ए॒वास्मै॒
छन्दाँ सि दधा॒त्युपै॑नं मे॒धा नम॑त्ये॒ता ए॒व
निर्व॑पत् [ ५ ] रुक्का॑म॒श्छन्दाँ सि॒ वै देवि॑-
का॒श्छन्दाँसीव॒ खलु॒ वै रुक्छन्दोभिरे॒वा-
स्मि॑न्रुचं॑ दधाति क्षी॒रे भ॑वन्ति॒ रुच॑मे॒वा
स्मि॑न्दधति मध्यतो धा॒तारं॑ करोति मध्य॒त
ए॒वैनँ रु॒चो दधाति गाय॒त्री वा अनु॑मति
स्रि॒ष्टु॒ग्रा॒का जग॑ती सिनीवाल्य॑नु॒ष्टुप्कु॒हूर्धा॒
ता व॑षट्का॒रः पू॑र्वपक्षो रा॒काऽपर॑प॒क्षः कु॒-

[[1680]]

हूर॑मावा॒स्या॑ सिनीवा॒ली पौ॑र्णमा॒स्यनु॑मति-
श्व॒न्द्रमा॑ धा॒ताऽष्टौ [ ६ ] वस॑वो॒ऽष्टाक्ष॑रा
गाय॒त्र्येका॑दश रु॒द्रा एका॑दशाक्षरा त्रि॒ष्टु
ब्द्वाद॑शाऽऽदि॒त्या द्वाद॑शाक्षरा॒ जग॑ती प्र॒जा-
पतिरनु॒ष्ठुब्धा॒ता व॑षट्का॒र ए॒तद्वै देवि॑काः॒
सर्वा॑णि च॒ छन्दाँ सि॒ सर्वा॑श्व दे॒वता॑ वष
ट्का॒रस्ता यत्म॒ह सर्वा॑ नि॒र्वपेदीश्व॒र ए॑नं
प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑ धा॒तुस्तृ॒तीयं निर्वं॑
पे॒त् तर्थो ए॒वोत्त॑रे॒ निर्व॑पे॒त्तथै॑नं॒ न प्र द॑ह॒न्त्यथो॒
यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तमे॒वाऽऽभि॒रुपा॑-
ऽऽप्नोति ( ७ )॥
( प॒शुका॑मच्छ॒न्दाँ॑ सि॒ वै देवि॑का॒ष्छन्दाँ॑ सि॒ ग्रामं॑ कल्पयत्ये॒ता ए॒व निरु॑त्त॒मं धा॒तांर॑ करोति मे॒घा न॑मत्ये॒ता ए॒व निर्व॑पेद॒ष्टौ द॑हन्ति॒ नव॑ च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठके नवमोऽनुवाकः॥ ९॥

( अथ तृतीयाष्टके चतुर्थप्रपाठके नवमोऽनुवाकः)।
अष्टमे राष्ट्रभृद्धोमास्तत्तत्कामाय वर्णिताः।
अथ नवमे देविकाख्यानां राजसूयप्रकरणोत्पन्नानां धात्रे पुरोडाशमित्वदीनां पञ्चहविषामुत्कर्षं कृत्वा बहुविधकाम्यप्रयोगो निरुप्यते।
तत्रैकं प्रयोगं विधत्ते —
देविका निर्वपेदिति। दीव्यन्त्यपेक्षितं फलविशेषं प्रकाशयन्तीति धात्रे इत्यादयः पञ्चेष्टयो देविकाः। अनुमत्यादयः स्त्रीरूपत्वाद्देव्यस्तदीयत्वादेता देविकाः।

[[1681]]

गायत्री वा अनुमतिरित्यादिच्छन्दोरूपत्वमनुमत्यादीनामुच्यते तद्द्वाता देविका अपि च्छन्दांस्येव। यथा छन्दांसि फलहेतुत्वात्सुखकराणि एवं प्रजा अपि सुखहेतुत्वाच्छन्दःसमानाः। अतो देविकारूपैश्छन्दोभिरेव यजमानार्थं प्रजा उत्पादयति।
धात्रादीनां पञ्चानां प्रजोत्पत्तौ दृश्यगुणयोगे प्रशंसति —
प्रथमं धातारीमति। पञ्चानां देवानां मध्ये धातारं प्रथमं करोतीति यत्तेन यजमानं स्वपत्न्या सह मिथुनी करोत्येव। अनुमतिरस्मै यजमानाय तन्मिथुनीकरणमनुमन्यत एव राका प्रजां ददाति। सिनीवाली गर्भस्थां प्रजामुत्पादयति। उत्पन्नासु प्रजासु कुहूर्तेवताद्वारेण वाचं दधाति। संभाषणाभ्यासं करोतीत्यर्थः। अथ फलान्तराय विधत्ते –
एता एव निर्वपेदिति। प्रथमेन धात्रा गावादिषु वीजावापः र्सपद्यते। प्रजातानां पशूनां तृणोकदातिपोषणेन प्रतिष्टापनं कुहूवा क्रियते। शेषं पूर्ववत्।
फलान्तराय विधत्ते —
एता एव निर्वपेदिति। अनुमतिराकाभ्यामूर्ध्वं सिनिवालीकुहभ्यामधस्ता न्मध्यं तत्र धातारं स्थापयेत्। तेनैनं यजमान ग्रामस्य मध्य एवाऽऽधिपत्ये स्थापयति। फलान्तराय विधत्ते —
एता एव निर्वपेदिति। यस्य पुरुषस्य ज्योक्चिरमामयाते व्याधिवाधा भवत्येनं पुरुषं छन्दांत्यभिमन्यन्तेऽभिक्रुध्यन्ति। अतो देविकानिर्वापतुष्टैश्छन्दोभिरेवैनं रोगरहितं करोति। अत्रापि पूर्ववद्धातारं मध्यतः कुर्यात्। यस्य दीर्घ व्यधिस्तस्योदरमध्ये यत्किंचिदक्लृप्तमसामर्थ्यं भवति। अतस्तेन धातुर्मध्यस्यापनेनास्य रोगिण उदरमध्य एव कल्पयति सामर्थ्यं जनयति।
अथ ज्योतिष्टोमादियज्ञप्राप्तये विधत्ते —
एता एव निर्वपेदिति। र्य पुरुषं केनापि विघ्नेन यज्ञो न प्राप्नोति, एनं (तं) पुरुषं यज्ञसाधनानि च्छन्दांस्यंव प्रथमं न प्राप्नुवन्ति। तत्र धातुः प्रथमं स्थापने सत्यनुकूलत्षेत प्रथमत एव यजमानार्थे छन्दांसि धृतानि भवन्ति। छन्दःस्वनुकूलेषु सत्सु यज्ञ एनं प्राप्नोति। प्राप्तयज्ञस्योत्तरयज्ञसिद्ध्यर्थं विधत्ते —

[[1682]]

एता एव निर्वपेदिति। यः पुरुष ईजानः पूर्वमिष्टवान्भवति, एतस्य च्छन्दांसि पूर्वयज्ञे व्यापृतत्वाद्धृतसारणीव भवन्ति। तत्र चरमस्थाने धातुः करणेनोपरिष्टात्करिष्यमाणाज्ञज्ञे छन्दास्यगतसाराणि संपादयति। तत उत्तरो यज्ञ एनमुपनमति पुनरपि प्रतिष्ठां गच्छतीत्यर्थः अथ मेधाप्राप्तये विधत्ते —
एता एव निर्वपेदिति। ग्रन्थधारणसक्तिर्मेधा। एतद्वाक्यं यज्ञप्राप्तिवाक्य-बद्व्याख्येयम्। अथ कान्तिप्राप्तये विधत्ते —
एता एव निर्वपेदिति। कान्ते प्रियत्वेन च्छन्दःसाम्यम्। अत्र चरुणां चतुर्णां पाकसाधनं क्षीरं धातुर्मध्यतः करणेन कान्तेर्मध्यतः एव यजमानं स्थापयति। गायत्र्यादिच्छन्दोरूपेणानुमत्यादिदेवताः प्रशंसति —
गायत्री वा इति। गायत्रादिच्छन्दांसि यथाऽभीष्टं साधयन्त्येवमनुम-त्यादीनामभीष्टसाधनत्वाद्वायत्र्यादिरूपत्वम्। अनेनैव न्यायेन पूर्वपक्षादिरूपत्व दर्शयति —
पूर्वपक्षो राकेति। पूर्ण निशाकर इत्युक्तत्त्रात्पूर्णवन्दमण्डलोपेता राका। सा च शक्लपक्षस्वरूपा। नष्टेन्दुकला कुडूरित्युक्तवाञ्चन्द्रकलालेशेनापि हीना कुहूः। सा च कृष्णपक्षस्वरूपा। सा दृष्टेन्दुः सिनीवालीत्युक्तत्वाच्चतुर्दशीमिश्रिता कृष्णा पञ्चदशी सिनीवाली। सा चात्रामावास्यारूपत्वेन विविक्षिता। कलाहीने साऽनुम-तिरित्युक्तत्वाच्चतुर्दशीमिश्रा शुक्लपञ्चदश्यनुमतिः। सा चात्र पोर्णमासीतिथिरूपत्वेन विवक्षिता। उक्तयोः पक्षयोस्तिथ्योश्च निष्पादको यश्चन्द्रमाः सोऽत्रधातृरूपेण विवक्षितः।
इत्थं पूर्वपक्षादिरूपेण प्रशस्य पुनर्वस्वादिरूपेण प्रशंसति —
अष्टौ वसव इति। या अनुमत्यादयो गायत्र्यादिभावमापादितास्तासां संख्यासाभ्याद्वस्वादिरूपत्वम् या कुहूरनुष्टुप्त्वेन निरूपिता सा प्रजापतिरूपा। ‘अनुष्टुभो वा इमानि भूतानि जायन्ते’ इति सशाखान्तरे प्रजापतिवदनुष्टुभः सर्वोत्पादकत्वश्रवणात्। वषट्कारवन्मुख्यत्वेन धातुस्तद्रूपत्वम्। प्रशंसां निगमयति —

[[1683]]

एतद्वै देविका इति। यत्प्रशंसार्थं गायत्री वा अनुमतिरित्यादिनिरूपणमेतदेक देविकानां सर्वच्छंदोरूपत्वं सर्वदेविकारूपत्वं वषट्काररूपत्वं च।
अथ पञ्चानामेतेषां त्रेधा निर्वापं विधत्ते —
ता यत्सह सर्वा इति। ता देविकाः पञ्चापि सह निरूप्ताः सत्य एनं यजमानं प्रदग्धुमीश्वराः। तस्मादनुमत्या राकायाश्व चरुद्वयं निरुप्य तततस्तृतीयत्वेन धातुः पुरोडाशं निर्वषेत। तत ऊर्ध्वं सिनीवाल्याः कुह्वाश्व (च) रुद्वयं निर्वपेत्। तथा सत्येनं यजमानं देविका न प्रदहन्ति। अथ यस्यै कामाय निरुप्यन्तेतं काममाभिद्रेवताभिः प्राप्नोत्येव॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके नवमोऽनुवाकः॥ ९॥