(अथ तृतीयाष्टके चतुर्थप्रपाठकेऽष्टमोऽनुवाकः)।
रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्र वै रा॑ष्ट्रभृतो॑
रा॒ष्ट्रेणै॒वास्मै रा॒ष्ट्रमव॑ रुन्धे रा॒ष्ट्रमे॒व भ॑व-
त्यात्मने होत॒व्या॑ रा॒ष्ट्रं वै रा॑ष्ट्र॒भृतो राष्ट्रं
प्रजा रा॒ष्ट्रं प॒शवो रा॒ष्ट्रं यच्छ्रेष्ठो॒ भव॑ति
रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव रुन्धे॒ वसि॑ष्ठः समा॒नानं॑
भवति॒ ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रं वै रा॑-
ष्ट्र॒भृतो रा॒ष्ट्र+ स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रँ
स॑जा॒तानव॑ रुन्धे ग्रा॒मी [ १ ] ए॒व भ॑वत्य-
धि॒देव॑ने जुहोत्यघि॒देव॑न ए॒वास्मै॑ रजा॒तानव॑
रुन्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते रथमु॒ख
ओज॑स्कामम्य होत॒व्या॑ ओजो॒ वै रा॑ष्ट्र॒भृत॒
ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुन्ध-
आज॒स्व्ये॑व भ॑वति॒ यो रा॒ष्ट्रादपभूतः॒ स्या-
त्तस्मै॑ होत॒व्या॑ यावंन्तोऽस्य॒ रथाः॒ स्युस्ता-
न्ब्रृ॑याद्यु॒ङ्ग्ध्वमिति॑ रा॒ष्ट्रमेवास्मै॑ युनक्ति
( २ ) आहु॑तयो॒ वा ए॒नस्याक्लृ॑प्ता॒ यस्य
[[1673]]
रा॒ष्ट्रं न कल्पते स्वर॒थस्थ॒ दक्षि॑णं च॒क्रं प्र॒-
वृह्य नाडीम॒भि जु॑हुयादाहुतीरेवास्य॑ कल्प
यति॑ ता अस्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते
सङग्रा॒मे संय॑त्ते होत॒व्या॑ रा॒ष्ट्रं वै रा॑ष्ट्र॒भृतो॑
रा॒ष्ट्रे खलु॒ वा ए॒ने व्याय॑च्छन्ते ये स॑ङ्ग्राम+
सं॒यन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स एव भ॑वति॒
जय॑ति॒ तँ सङ्ग्रा॒मं मा॑न्धुक इ॒घ्मः ( ३ )
भ॒व॒त्यङ्गारा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णा-
मस्य॒ सेनां॒ प्रति॑ वेष्टयन्ति॒ य उ॒न्माद्ये॒त्तस्मै॑
हो॒तव्या॑ गन्धर्वाप्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति॒
य उ॒न्माद्य॑त्ये॒ते खलु वै ग॑न्धर्वाप्स॒रसो॒ य॒-
द्रा॑ष्ट्र॒भृत॒स्तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहेति॑ जु-
होति॒ तेनै॒वेना॑ञ्छमयति॒ नैय॑ग्रोध॒ औदु॑म्बर॒
आश्व॑त्थः॒ प्लाक्ष॒ इती॒घ्मो भव॑त्येते वै गन्ध
र्वाप्स॒रसो॑ गृ॒हाः स्व ए॒वैना॑न् [ ४ ] आ॒य-
तने शमयत्यभि॒चर॑ता प्रतिलो॒मँ हो॑त॒व्याः॑
प्रा॒णाने॒वास्य॑ प्र॒तीच॒ प्रति॑ योति॒ तं ततो॒
येन॒ केन॑ च स्तृणुते॒ स्वकृ॑त इरि॑णे जुहोति
प्रद॒रे वै॒तद्वा अस्मै निर्ऋ॑तिगृहीतं विर्ऋ॑ति-
गृहीत ए॒वैनं॒ निर्ऋ॑त्या ग्राहयति॒ यद्वा॒चः
कृ॒रं तेन॒ वषट्करोति वा॒च ए॒वैनं क्रू॒रेण॒ प्र
[[1674]]
वृ॑श्चति ता॒जगार्ति॒मार्छ॑ति यस्य का॒मये॑ता
न्नाद्य॑म् ( ५ ) आ द॑दी॒येति॒ तस्य॑ स॒माया॑
मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि
सं गृ॑हणीयात्प्र॒जाप॑तिर्वै भुव॑नस्य पतिः॑ प्र॒
जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्त इ॒द॒महम॒मुष्यां
ऽऽमुष्याय॒णस्या॒न्नाद्यँ हरा॒मीत्या॑हा॒न्नाद्य॑
मे॒वास्य॑ हरति ष॒ड्भिहर्र॑ति॒ षड्वा ऋतवः॑
प्र॒जाप॑तिनैवास्या॒न्नाद्य॑मा॒दायर्त॒वो॑ऽस्मा॒ अनु॒
प्र य॑च्छन्ति [ ६ ] यो ज्ये॒ष्ठब॑न्धुरप॑भूतः॒
स्यात्तँ स्थले॑ऽवसाय्य॑ ब्रह्मौद॒नं चतुः॑शरावं
प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒ वै रा॑ष्ट्र॒भृतो॒ व-
र्ष्म॒ स्थलं वर्ष्म॑णै॒वैनं वष्मं समा॒नानां॑ गम-
यति॒ चतुः॑शरावो भवति दि॒क्ष्वे॑व प्रति॑ ति-
ष्ठति क्षी॒रे भ॑वति॒ रुच॑मे॒वास्मि॑न्दधा॒त्युद्ध॑रति
शृत॒त्वाय॑ स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ च॒त्वार॑
आर्षे॒याः प्राश्न॑न्ति दि॒शामे॒व ज्योति॑षि जु-
होति [ ७ ]॥
( ग्रा॒मी यु॑नक्ती॒ध्मः स्व ए॒वैना॑न॒न्नाद्यं॑ यच्छ॒न्त्येका॒न्नप॑ञ्चा॒शञ्च॑ )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठकेऽष्टमोऽनुवाकः॥ ८॥
[[1675]]
( अथ तृतीयाष्टके चतुर्थप्रपाठकेऽष्टमोऽनुवाकः)।
अनुवाके सप्तमेऽस्मिन्नुक्ता राष्ट्रभृतोऽखिलाः।
अथाष्टमे तेषां काम्याः प्रयोगा उच्चन्ते। तत्रैवं प्रयोगं विधत्ते —
राष्ट्रकामयेति। ये एते पूर्वानुवाकोक्ता राष्ट्रभृत्संज्ञका मन्त्रास्तेषां राष्ट्रप्राप्तिहेतुत्वाद्राष्ट्रमित्यपचर्यते। अतस्तन्मन्त्रहोमलक्षणेन राष्ट्रेणैव यजमानार्थ मध्यर्युर्भूमिविशेषरूपं राष्ट्रं संपादयति। स च यजमानो राष्ट्रं प्राप्नोत्येव। अतो राष्ट्रमाप्तिकामयजमानर्थमेते मन्त्रा होतव्याः।
अथ प्रजापश्वादिनाऽऽत्मोत्क्रर्षार्थं तैरेव मन्यैर्होमं विधत्ते —
आत्मने होतव्या इति। मन्त्राणां पूर्ववत्साधनत्वाद्राप्ट्रत्वम्। सत्यपि भूगिविशेषरूपे राष्ट्रे प्रजापशुश्रैष्ठ्यानामभावे सति भोगासंभवाद्भूमिवद्भोगहेतुत्वेन प्रजादीनाप्रपि राष्ट्रत्वम्। अतो राष्ट्ररूपमन्त्रेण राष्ट्रेण प्रजादिरूपात्मोत्कर्षरूपं राष्ट्रमवरुन्धे। तथा सति समानानामन्येषांस्वयमेवातिशयेन निवासहेतुर्भवति। अथ ग्रामप्राप्तये होमं विधत्ते —
ग्रामकामायेति। स्वेन सहोत्पन्ना ज्ञातय एकग्रामनिवासिनश्व सजातास्तेषु सर्वेषु सत्सु राष्ट्रं संपूर्णं भवतीति तेषां राष्ट्रत्वमते मन्त्ररूपेण राष्ट्रेण सजातरूपं राष्ट्रभवरुन्धे ग्रामस्वामी भवत्येव। तस्य होमस्य देशविशेषं विधत्ते —
अधिदेवन इति। अविदीव्यन्ति द्यूनेन क्रीष्ठन्त्यस्मिस्थान इत्यधिदेवनं तत्र होमे सति तस्मिन्नेव स्थाने ये सजाताः समागतास्तान्सवीनवीनान्करोति। ते चाधीनाः सन्त एव सेवन्ते। अथ बलालामाय होमं विधत्ते —
रथमुख् इति। रथस्य यदीषाग्रं तदग्नेरुपरि धारयित्वा तत्र जुहुयात्। राष्ट्रभृन्मन्त्राणां रथस्य च क्रतुहेतुत्वादोजस्त्वम्। अतस्तदुभयरूपेणौजसैव यजमानस्य बलमधीनं करोति। ततो बलवान्भवत्यवे।
अथ राष्ट्राद्भ्रष्ट्रस्य तत्प्राप्तये होमं विधत्ते —
यो राष्ट्रादिति। अस्व राष्ट्रभ्रष्टस्य सतोऽपि यावन्तो रथाः सन्ति तान्सर्वान्नरैर्योजयध्वमिति प्रैषं ब्रूयात्। अनेन प्रैषेण होमेन चास्मै भ्रष्टाय राष्ट्रं संपादयति।
[[1676]]
यदा लब्धमपि राष्ट्रमिष्टसाधनसमर्थं न भवति तदा प्रयोगविशेष विधत्ते-
आहुतयो वा इति। न कल्पते भोगे क्षमं यस्य न भवति, एतस्य पूर्वा आहुतयः स्वकार्यक्षमा न भवन्ति तदानीमयं स्वकीयरथस्य यद्दक्षिणं चक्रं तदग्नेरुपरि धारयित्वा तस्य चक्रस्य रन्ध्राभिमुखत्वेन जुहुयात्। तदानीमस्याऽऽहुतीः कल्पयत्वेव स्वकार्यक्षमा एव करोति। ताश्व क्षमाः सत्यो राष्ट्रं भोगे क्षमं कुर्वन्ति। अतस्ता आहुतीरनु राष्ट्रं क्षमं भवतीत्युच्यते।
अथ युद्धे प्रवृत्ते जयार्थिनो होमं विधत्ते —
सह्ग्रामे संयत्त इति। ये युद्धं प्राप्नुवन्ति एते राष्ट्रे निमित्तभूते सति कलहं कुर्वान्त। तेषा च कलहं कुर्वतां मध्ये प्रथमं होमे प्रवृत्तस्य यस्यैता राष्ट्रभृतो जुह्वति स एव समर्थो भवति न त्वन्यः। समर्थत्वाच्य तं सङ्ग्रामं जयति। श्रौताग्निं प्रज्वलयितुं काष्टविशेषं विधत्ते —
मान्धुक इघ्म इति। मधुकवृक्षस्य संबन्धी काठविशेष मान्धुकः। तेन प्रत्वीमत्रं पृथगग्निमुपसमाधाय जुहुयात्। तत्र मधूककाष्ठजन्मा येऽङ्गारास्त एवास्य यजमानस्य विरोधिपुरुषाणां सेनां प्रत्येकं वेष्टयन्ति। परकीये कटकेऽग्निवाधा जायते। पुरुषाणां वा शरीरेषु ज्षरदिसंतापो जायत इत्यर्थः।
अथोन्मादपरिहाय होमं विधत्ते —
य उन्माद्येति। यः पुरुष उन्मत्ते भवत्येतं गन्धर्वाप्सरत्त एवोन्मत्तं कुर्वन्ति। राष्ट्रभृन्मन्त्राश्व गन्धवाष्सरसस्तद्देवत्यत्वाद्वन्धवर्वानुद्दिश्य तस्यै स्वाहेति अप्सरस उद्दिश्य ताभ्यः स्वाहेति जुहुयात्। तेन होमेनोभयविधानुन्मादयितृञ्शान्तान्करोति।
अत्रापि पूर्ववदग्निं प्रज्वलयितुं काष्ठविशेषान्विकाल्पितान्दर्शंयति —
नैयग्रोध औदुम्बर इति। एते न्यग्रोधादयः वैशाब्दो लोकप्रसिद्धिं दर्शमति। अभिचाराऱ्ततयैतद्धोतं विधत्ते —
अमिचरतेति। प्रतिलोममन्त्यादिक्रमेण अस्याभिचरितस्य प्राणान्प्रतीचः प्राणाषानादीन्विपरीतस्थानैः प्रतियौति प्रतिकूलत्वेन योजयति। ततस्तमनाया सेनैष हिनस्ति। देशं विधत्ते —
[[1677]]
स्वकृत इरिण इति। ऊयररूपायां सुषिररूपायां वा भूमावभिचारदेवतायाः स्वस्थाने तमेनं शत्रुं निर्ऋत्या तया देवतया ग्राहयति। वाचः क्रूरेण वषट्कारेणैनं प्रकर्षेण वृश्वति च्छिनत्ति। ततो झटित्यार्तो भवति।
शत्रोरन्नाद्यस्यान्नदनशक्तेश्व हरणकामत्य कर्मविशेषं विधत्ते —
यस्य कामयेतेति। सभायामत्तानशरीरो निपतितः संस्तृणानि भुवनस्यपति इति संगृण्हीयातु*। तत्र मन्त्रसंख्यां विधत्ते —
षड्भिर्हरतीति। षड्भिः स नो भुवनस्यं पत इत्यन्तैः।
परकृतभयवतस्तत्परिहाराय कर्मान्तरं विधत्ते —
यो ज्येष्ठबन्युरिति। ज्येष्ठबन्धुः सत्यौऽपभूतः स्वयं ततो निकृष्टस्तत्पराभूत इति यावत्। तं स्थल उच्चप्रदेशेऽवसाम्योपरवेश्य तस्मै तत्फलसिद्धये होताब्या राष्ट्रभृतः। स्थलं च वर्ष्म शरीरमुभवविधेन, वर्ष्मणैव यजमानं स्वसमानानां परुषाणां शरीरस्थानीयं करोति। असौ शरीरवत्प्रधानभूत इतरे हस्तादिवदुपसर्जनभूता यथा भवन्ति तता करातीत्यर्थः। शरावसंख्यां प्रशंसति —
त्ततुःशराव इति। दिशां चतुष्टयात्तत्संख्यया तत्र प्रतिष्ठा युक्ता।
पाकसाधनद्रव्यं विधत्ते —
क्षीरे भवतीति। रु च स्वादुत्वम्।
पच्यमानर्स्येदनस्यापव्कत्वपरिहारार्थं दर्व्यो द्धरणं विधत्ते —
उद्धरतीति। शृतत्वाय पव्कत्वाय। पक्वस्य घृतालुतत्वं विधत्ते —
सर्पिष्वान्भवतीति। हुतशेषस्य ऋषिसमानैरेवान्यैः प्राशनं विधत्ते —
चत्वार आर्षेया इति। चतुर्दिक्संबन्धिवन्हिस्थानीयाश्वत्वारो ब्राह्मणा अतस्तैः प्राशितमग्नावेव हुतं भवति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
चतुर्थप्रपाठकेऽष्टमोऽनुवाकः॥ ८॥
*आत्र किंचित्त्रुटितमिति प्रतिभाति। व्याख्यानस्यापृर्णत्वात्। ख. च सुस्तकाति रिक्तपुस्तकेषु त्रुटिचिह्वमपि।
[[1678]]