०७

(अथ तृतीयाष्टके चतुर्थप्रपाठके सप्तमोऽनुवाकः)।
ऋ॒ता॒षाडृ॒तधामाऽग्निर्गं॑न्ध॒र्वस्तस्यौष॑ध-
योऽप्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म क्ष॒त्रां
पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रां पा॑न्तु॒ तस्मै॒ स्वाहा॒
ताभ्यः॒ स्वाहा॑ स+ हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑
गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒यवः॑ सु-
षु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒व॑स्तस्य॒ नक्ष॑-
त्राण्यप्सरसो॑ बे॒कुर॑यो भु॒ज्युः सु॑प॒र्णो य॒ज्ञो
ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रसः॑ स्त॒वाः प्र॒-
जाप॑तिर्वि॒श्वक॑र्मा॒ मनः॑ [ १ ] ग॒न्धर्व॒स्त-
स्या॑र्क्सा॒मान्य॑प्स॒रसो॒ वहन॑य इषि॒रो वि॒श्व-
व्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्याऽऽपाऽप्स॒रसो॑
मु॒दा भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह
च॑। स नो॑ रा॒स्वाज्या॑निँ रा॒यस्पोषँ सु॒
वीर्यँ संवत्स॒रीणाँ स्व॒स्तिम्। प॒र॒मे॒ष्ठ्य-
धि॑पतिर्मृ॒त्युर्गन्ध॒र्व॑स्तस्य॒ विश्व॑मप्स॒रसो॒ भु-
वः सुक्षि॒तिः सुभू॑तिर्भद्र॒कृत्सुव॑र्वान्प॒र्जन्यो॑
गन्ध॒र्वस्तस्य॑ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो॑ दू॒रेहे॑
तिरमृड्यः॒ [ २ ] मृ॒त्युर्गं॑न्ध॒र्वस्तस्य॑ प्र॒जा
अ॑प्स॒रसो॑ भी॒रुव॒श्चारुः॑ कृपणका॒शी कामो॑
गन्ध॒र्वस्तस्या॒ऽऽधयो॑ऽप्स॒रसः॑ शो॒चय॑न्ती॒-

[[1669]]

र्नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रां पा॑तु॒ ता इदं ब्रह्म॑
क्ष॒त्त्रं पा॑न्तु तस्यै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॒ स
नो॑ भुवनस्य प॒ते यस्य त उ॒परि॑ गृ॒हा इ॒ह
च॑। उ॒रु ब्रह्मणे॒ऽस्मै क्ष॒त्त्राय॒ महि॒ शर्व॑ य-
च्छ ( ३ )॥

[ मनो॑ऽमृडयः षट्च॑त्वारिँशच्च ]

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठके सप्तमोऽनुवाकः॥ ७॥

( अथ तृतीयाष्टके चतुर्थप्रपाठके सप्तमोऽनुवाकः)।

अभ्यातानैः जयैः राष्ट्रभृद्भिः षष्ठे तु वर्णितः।

अथ सप्तमे राष्ट्रभृन्मन्त्रा उच्यन्ते। तेषां विनियोगविशेषमग्निकाण्डे सूत्रकारो दर्शयति “षड्मिः पर्यायैर्द्वादश राष्ठ्रभृतो जुहोत्युताषाडृतधामेति पर्यायमनुदृत्य तस्मै स्वाहेति प्रथमाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तरामेवमितरान्पञ्च पर्यायान्विभजति वनस्य पत इति पर्यायाणां सप्तभ्याहुतीनां त्रयोदश्येतेन व्याख्यातां भुवनस्य पत इति रथमखे पञ्चाऽऽहुतीर्जुहोति दश वा इति। अत्राऽऽद्येषु प्रथमं पर्यायमाह—
ऋताषाडिति। ऋतेन सत्येन सह सवमनृतमभिभवतीत्यृताषाट्। ऋतशब्दवाच्यं धाम स्थानं यस्यासावृतधामा। तादृशोऽग्निनामकः कश्विद्गन्धर्वस्तस्यो षधिदेवता अप्सरसः प्रियमार्याः। ऊर्ज इति तासां नामवेयम्। ऊर्जयन्ति बलवन्तं प्राणवन्तं वा कुर्वन्तीत्यूर्णः। स गन्धर्व इदं ब्रह्म बृहत्क्षत्रं फलसमर्थमिदं कर्म हविर्वा पातु रक्षतु फलपर्यवसन्तं करोतु। ताश्वाप्सरस इदं ब्रह्म क्षत्रं च पान्तु तथा रक्षन्तु। तस्मै गन्धर्वाय स्वाहा हुतमस्तु। ताभ्योऽप्सरोभ्य इदं स्वाहा हुतमस्तु। अथ द्वितीयपर्यायमाह —

[[1670]]

सँहितो विश्वसामेति। संधीयते सर्वमनुसंधीयतेऽनेनोति संहितः। विश्वानि सामान्यवसितान्यस्मिन्निति विश्वसामा। तादृशः सूर्यनामकः कश्चिद्गन्धर्वस्तस्य मरीचिदेवताः प्रिया भार्याः, आयुव इति तासां नामधेयम्। आयान्ति शीघ्रमागच्छन्तीत्यायुवः नाम स इदं ब्रह्मेत्यादिकं सर्वत्रानुषञ्जनीयम्। अथ तृतीयपर्यायमाह-
सुषुम्नः। सूर्यरश्मिरिति। शोभनं सुम्नं सुखमस्येति सुषुम्नः। सूर्यस्येव रश्मिर्यस्यासौ सूर्यरश्मिः। च द्रमोनामक कश्विद्गन्धर्व्तस्य नक्षत्रसदृशानि शरीराणि भार्यास्ताश्व बेकुरीनामिकाः। चित्तविकारहेतुत्वाद्वेकुरय इत्युच्यन्ते। अथ चतुर्थपर्यायमाह —
भुज्युः सुपर्ण इति। भुनक्ति पालयसि विश्वमिति भुज्युः। पक्षिवदाका शवशगामित्वात्सुपर्णस्तादृशो यज्ञनामकः कश्चिद्गन्धर्वस्तस्य च दक्षिणारूपा देवता भार्यास्ताश्च स्तूयन्त इति व्युत्पत्त्या स्तवा इत्युच्यन्ते। अथ पञ्चमं पर्यायमाह —
प्रजापतिरिति प्रजानां पालकः प्रजापतिः। विश्वं कर्म करणीयं य स्यासौ विश्वकर्मा। तादृशो मनोनामकः कश्चिद्गन्धर्वस्तस्य च ऋक्सामदेवता भार्यास्ताश्च सौन्दर्यं वहन्तीति इत्युच्यन्ते। अथ षष्ठं पर्यायमाह —
इषिरो विश्वव्यचा इति। इष्यमाणवस्तुसंपन्नत्वादिपिरः। विश्वं विशेषेणाञ्चति गच्छतीति विश्वव्यचाः। तादृशो वातनामकः कश्चिद्गन्धर्वस्तस्याब्देवता भार्यास्ताश्च हर्षयुक्तत्वान्मुदा इत्युच्यन्ते। अथ पर्यायेषु सप्तमं त्रयोदशाहुत्यर्थं मन्त्रमाह —
भुवनस्य पत इति। भुवनस्य सर्वलोकस्य पते हे पालक यस्य तवोपर्य न्तरिक्षद्युलोकयोरिह च पृथिव्यां गृहाः सन्ति स त्वं नोऽस्मब्यमज्यार्नि रास्व वयोहान्यभाव देहि। तथा रायस्पोषं धनपुष्टिं सुवीर्यं शोभनपुत्रं संवत्सरीणां स्वस्तिं संवत्सरजीवनपरिमिता समृद्धिं च देहि। अथोत्तरस्मिन्पर्यायपञ्चके प्रथमं पर्यायमाह —

[[1671]]

परमेष्ठ्यधिपतिरिति। परमे सर्वोत्तमस्थाने तिष्ठतीति परमेष्टी। अधिकत्वेन फलपाताऽधिपतिः। तादृशो मृत्युनामकः कश्चिद्गन्धर्वस्तस्य विश्वाभिमानिन्यो देवता भार्यांस्ताश्च भवन्ति सर्वदा वर्तन्ते इति भुव इत्युच्यन्ते। अथ द्वितीयं पर्यायमाह —
सुक्षितिः सुभूतिरिति। शोभना क्षितिर्भूमिर्यस्यासौ सुक्षितिः। समीचीननिवासस्थान इत्यर्थः। शोभना भूतिरैष्वर्यं यस्यासौ सुभूतिः भद्रं कन्याणं यजमानाय करोतीति भद्रकृत्। सुवः स्वाधीनः स्वर्गलोकोऽस्यास्तीति सुवर्वान्। तादृशः पर्जन्यनामकः कश्चिद्गन्धर्वस्तस्य च विद्युद्देवता भार्यास्ताश्च दीप्यमानत्वाद्रुच इत्युच्यन्ते। अथ तृतीयं पर्यायमाह —
दूरेहेतिरिति। दूरेऽप्यवस्थितस्य प्रहारसाधनं हेतिर्यस्यासौ दूरेहेतिः। नामश्रवणमात्रेण सुखनिवर्तकत्वादमृडयस्तादृशो मृत्युनामकः कश्चिद्गन्धर्वस्तस्य प्रजाभिमानिदेवता भार्यस्ताश्च बिभ्यति मृत्योरिति भीरुव इत्युच्यन्ते। अथ चतुर्थं पर्यायमाह –
चारूः कृपमकाशीति। रमणीयाचरणोपेतत्वाद्रमणीयशरीरत्वाद्वा चारुः। कृपणेष्विन्द्रियार्थेषु प्रकाशयति मनो दीपयतीति कृपणकाशी। तादृशः कामनमिकः कश्चिद्गन्धर्वस्तस्य विषयाभिलाषनिमित्तचित्तक्लेशाभिमानिदेवता भार्यास्ताश्चापेक्षितविषयप्राप्त्यभावेन जनाञ्शोकयुक्तान्कुर्वन्तीति शोचयन्तीरित्युच्युच्यन्ते। नाम सइदं ब्रह्मेत्यादेस्तु सर्वत्रानुषङ्गद्योतनाय पुनः पाठः।
अथात्र पञ्चमं पर्यायरूपं द्वाविंशाहुतिसाधनं मन्त्रमाह —
स नो भृवनस्येति। भुवनस्य सर्वलोकस्य हे पते पालक यस्य तवोपरितनलोकद्वये पृथिव्यां च गृहाः सन्ति स त्वं नोऽस्मभ्यमूरु विपुलं शर्म सुखं यच्छ। तथैवात्मै ब्रह्मणे ब्राह्मणजातियुक्ताय क्षत्त्राय समर्थाय च महि शर्म यच्छ महत्सुखं देहि। अत्र विनियोगसंग्रहः —

यथा त्रयोदश जयाश्चित्तं चेत्यादयः श्रुताः।
अग्निरभ्यातानमन्त्रा अष्टादश यथाश्रुताः॥
ऋता राष्टृभृतस्तद्वद्द्वाविंशतिरूदीरिताः॥

[[1672]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके सप्तमोऽनुवाकः॥ ७॥