०६

(अथ तृतीयाष्टके चतुर्थप्रपाठके षष्टोऽनुवाकः)।
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत तदसु॑रा अकुर्वत॒
ते दे॒वा ए॒तान॑भ्याता॒नान॑पश्य॒न्तान॒भ्यातन्वत
यद्दे॒वानां॒ कर्माऽऽसी॒दार्ध्यत॒ तद्यदसु॑राणां न
तदा॑र्ध्यत॒ येन॒ कर्म॒णेर्त्से॒त्तत्र॑ होत॒व्या ऋ॒घ्नो
त्ये॒व तेन॒ कर्म॑णा॒ यद्विश्वे दे॒वाः स॒मभर॒न्त
स्मा॑दभ्याता॒ना वै॑श्वदे॒वा यत्प्र॒जा॒प॑ति॒र्जया॒
न्प्राय॑च्छ॒त्तस्मा॒ज्जयाः प्राजाप॒त्याः [ १ ]
यद्रा॑ष्ट्र॒भृद्भी रा॒ष्ट्रमाऽद॑दत॒ तद्रा॑ष्ट्र॒भृताँ राष्ट्र-
भृ॒त्त्वं ते दे॒वा अभ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒

[[1666]]

जये॑रजयन्राष्ट्र॒भृद्भी रा॒ष्ट्रमाऽद॑दत॒ यद्दे॒वा अ॑
भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ तद॑भ्याता॒नाना॑म-
भ्यातान॒त्वं यज्जयै॒रज॑य॒न्तज्जया॑नां जय॒त्वं
यद्रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाऽद॑दत तद्रा॑ष्ट्र॒भूताँ॑ रा-
ष्ट्रभृ॒त्त्वं ततो दे॒वा अभ॑व॒न्पराऽसु॑रा॒ यो न्रा
तृ॑व्यवा॒न्त्स्यात्स ए॒ताञ्जुहुयादभ्याता॒नैरे॒व
भ्रातृ॑व्यान॒भ्यात॑नुते॒ जयै॑र्जयति राष्ट्र॒भृद्धी॑
रा॒ष्ट्रमा द॑त्ते भवत्या॒त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यो
भवति॥ २॥
(प्रा॒जा॒प॒त्याः सो॑ऽष्टाद॑श च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठके षष्ठोऽनुवाकः॥ ६॥

अभयातानाभिधा मन्त्राः पञ्चमे समुदीरिताः।
अथ षष्ठे तद्धोमविधिरभिधीयते। तत्र होमं विधातुं प्रस्तौति —
देवा वै यदिति। अभ्यातानाख्यान्मन्त्रान्कर्मसमृद्धिहेतून्दृष्ट्वा तानाभिमुख्येऽऽनीय देवा अजुहवुस्तेन देवानां कर्म समृद्धमासीत्। तद्होमाभावादसुराणां कर्म न समृद्धम्। अथ विधत्ते —
येन कर्मणेति। ईर्त्सेदृद्धितिच्छेत्। ऋघ्नोत्येव समृद्धिं प्राप्नोत्येव।
अथ भातृव्यवतः समुच्चितानामभ्यातानजयाराष्ट्रभृतां होमं विधत्ते —
यद्विश्वे देवा इति। यस्मात्सर्वेऽपि देवाः पूर्वोक्तप्रकारेणभ्यातानमन्त्रान्सम-भरन्संपादितवन्तस्तस्मादेते वैश्वदेवा इत्युच्यन्ते। यस्मात्प्रजापतिर्जयानिन्द्राय प्रायच्छत्तस्मात्ते प्राजापत्या इत्युच्यन्ते। यस्मादुपरितनानुवाकाम्नातै राष्ट्रभृत्संज्ञकैर्मन्त्रैरसुरसंबन्धिराष्ट्रं देवाः स्वीकृतवन्तस्तस्यात्ते राष्ट्रभृत उच्यन्ते। देवास्तु

[[1667]]

प्रथममभ्यातानैरसुरान्वशीकृत्य जयैर्विनष्टैश्वर्यान्कृत्वा राष्ट्रभृद्भिस्तदीयं निवास-स्यानमपहृतवन्तः। अभ्यातन्वत एभिरित्यभ्यातानत्वम्। जयन्त्येभिरिति जयत्वम। राष्ट्रं भ्रियते स्वी क्रियत एभिरिति राष्ट्रभृत्त्यम। समुञ्चितैरेतौस्त्रिभिर्होमैर्देवा विजयिनोऽ-भवन्। असुरास्तु पराभूताः। अथ विधत्ते —
यो भ्रातृव्यवानिति। अभ्याततिर्वशीकारः। जयोऽन्यदीयैश्वर्यनाशनम्। राष्ट्रादानं तदीयभूमेरपहारः। तद्वित्रिधफलसिद्ध्यर्थं त्रिविधान्समुच्छित्य जुहुयात्।
अत्र मीमांसा।

तृतीयाध्यायस्य चतुर्भपादे चिन्तितम् —

येनेर्त्सेत्कर्मणा तत्र जयहोमोऽखिलर्थता।
वैदिकेष्वेव वा सर्वशेषोऽसंकोचकत्वतः॥
होम आहवनीये स्यात्कृष्यादिषु न सोऽस्ति ह्रि।
तेनानारभ्यपाठेऽपि वैदिकेष्वेव ते जयाः॥
अनारभ्य श्रूयते – “येन कर्मणेर्त्सत्तत्र जयाञ्जुहुयात्तद्वद्राष्ट्रभृतो जुहोत्यभ्यातानाञ्जुहोति” इति। ईर्त्सेदृद्धिमिच्छेत्। चित्तं च स्वाहेत्यादयो जयाः। ऋतापाडित्यादयो राष्ट्रभृतः। अग्निर्भूतानामित्याद्रयोऽभ्यातानाः। तत्र वैदिक कर्मणीव लौकिककृष्यादिकर्मण्यप्यृद्धेरिष्यमाणत्वात्संकोचे कारणाभावज्जयादिहोमः सर्वशेष इति चेन्मैवम्। यदाहवनीये ऽ जुह्वति तेन सोऽस्याभीष्टः प्रीत इति वाक्येन होममुद्दिश्याऽऽहवनीयविधानात्कृष्यादौ तद्भावद्गैदिष्वेव जयादिहोमः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके षष्ठोऽनुवाकः॥ ६॥
*”जुहोति” इति ख. पुस्तकस्थं पाठान्तरम्।

[[1668]]