(अथ तृतीयाष्टके चतुर्थप्रपाठके पञ्चमोऽनुवाकः)।
अ॒ग्निर्भूताना॒मधिपतिः॒ स माऽव॒त्विन्द्रो॑
ज्ये॒ष्ठानां॑ य॒मः पृ॑थिव्या वा॒युरन्तरि॑क्षस्य॒
सूर्यो॑ दि॒वश्च॒न्द्रमा॒ नक्ष॑त्राणां॒ बृहस्पति॒र्ब्र-
ह्म॑णो मि॒त्रः स॒त्यानां॒ वरु॑णो॒ऽपाँ स॑मु॒द्रः
स्रो॒त्याना॒मन्न॒+ साम्रा॑ज्याना॒म॑धि॑पति॒ तन्मा॑-
ऽवतु॒ सोम॒ ओष॑धीनाँ सवि॒ता प्र॑स॒वानाँ॑
रु॒द्रः प॑शू॒नां त्वष्टा॑ रू॒पाणां॒ विष्णुः॒ पर्व॑तानां
म॒रुतो ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु॒ पित॑रः
पितामहाः परेऽवरे॒ तता॑स्ततामहा इ॒ह मा॑
[[1664]]
ऽवत। अ॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्र्रे॑ऽस्यामा॒शिः
ष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्नस्यां दे॒वहू॑-
त्याम् ( १ )
( अ॒व॒रे॒ स॒प्तद॑श च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठके पञ्चमोऽनुवाकः॥ ५॥
( अथ तृतीयाष्टके चतुर्थप्रपाठके पञ्चमोऽनुवाकः)।
जयाख्यमन्त्रतद्धोमाश्तुर्थे समुदीरिताः।
अथ पञ्चमेऽभ्याताना उच्यन्ते। तन्मत्रपाठस्तु —
अग्निर्भूतानामिति। अयमग्निर्भूतानां प्राणिनामधिपतिः स्वामी। स तादृशो मामवतु। अधिपतिः स माऽवत्वित्येतत्पदचतुष्टयं वक्ष्यमाणेषु षष्ठ्यन्तेषु वाक्यशेषत्वेनानुवर्तते। ज्येष्ठानां वृद्धतमानां लोकपालानामिन्द्वोऽधिपतिः। यम शब्देनाग्निविशेष उच्चते। अग्निर्वाव यम इति स्रुत्यन्तरात्। अग्निवायुसूर्यचन्द्र बृहस्पतयः पृथिव्यन्तरिक्षद्युनक्षयब्राह्मणजातीनामधिपतयः प्रसिद्धाः। मित्रः सत्यवचनानामधिपतिः। वरुणः कूपादिगतानां स्थिराणा (मपा) मधिपतिः। सुमुद्रः स्त्रोत्यानां नदीप्रवाहगतानामधिपतिः। अन्नं साम्राज्यानां सार्वभौमराजभोग्यानां द्रव्याणां स्वामी। अनुवर्त्यंमानस्य लिङ्गव्यत्ययं द्योतयितुमधिपति तन्माऽवत्वित्याम्नातम्। सोमसवितृरुद्रात्वष्टार ओषध्यनुज्ञाप * शुरूपाणामधिपत्यय-प्रसिद्धाः। विष्णुः पर्वतानां गोवर्धनादीनामधिपतिः। मरुतो गणनामादित्यव स्वादिगणदेवातानां स्वामिनः। अत्रानुपज्यमानस्य वचनव्यत्ययं द्योतयितुमधिपतयस्ते माऽवन्त्वित्याम्नातम्। पितर इत्यादीनि यजुर्मन्त्राणां पदानि पितृपितामहशब्दौ जीवद्विषयौ। तततामहशब्दौ मृतविषयौ। सषिण्डता तु पुरुषा-
- सर्व पुस्तकेषु पशुत्वरूपाणामिति वर्तते तत्प्रामादिकम्।
[[1665]]