०४

(अथ तृतीयकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः)।

चि॒त्तं च॒ चित्ति॒श्चाऽऽकू॑तं॒ चाऽऽकू॑तिश्च॒
विज्ञा॑तं च वि॒ज्ञानं॑ च॒ मन॑श्च॒ शक्व॑रीश्च॒
दर्श॑श्च पू॒र्णमा॑सश्च बृहच्च॑ रथंत॒रं च प्र॒-
जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदुग्रः पृ॑-
त॒नाज्ये॑षु॒ तस्मै॒ विशः॒ सम॑नमन्त् सर्वा॒ स
उग्र स हि हव्यो ब॒भूव॑ देवासु॒रा संय॑त्ता
आस॒न्त्स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒-
ताञ्चया॒न्प्रा॑यच्छ॒त्तान॑जुहो॒त्ततो॒ वै दे॒वा अ-
सु॑रानजय॒न्यदज॑य॒न्तज्जयानां ज॒यत्वँ स्प-
र्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्यै॒ष तां पृत॑नाम्
( १ )॥
(उप॒ पञ्च॑विँ शतिश्च)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठके चतुर्थोऽनुवाकः॥ ४॥

( अथ तृतीयाष्टके चतुर्थप्रपाठके चतुर्थोऽनुवाकः)।
अजा वशा या तु काम्या तद्विधिः स्यात्तृतीयके।
अथ यदुक्तं सूत्रकारेण — “जयानभ्यातानान्राष्ट्रभृत इति ब्राह्मणव्याख्याताः अस्मिन्ब्रह्मन्नित्यभ्यातानेष्वनुषजति” इति। तत्र चतुर्थानुवाके जया उच्यन्ते। तत्राऽऽदौ जयसंज्ञकांस्त्रयोदश मन्त्रान्पठति —
चित्तं च चित्तिश्वेति। सामान्याकारेण निर्विकल्पकज्ञानेन प्रतीतं वस्तु चित्तम्। वक्ष्यमाणापेक्षया समुच्चमार्थस्वशब्दः। इदं चित्तं मयि ममास्त्विति

[[1663]]

शेषः। एवमुत्तरत्र योज्यम्। चित्तिर्निर्विकल्पकज्ञानम। आकूतं संकल्पितं वस्तु। आकृति संकल्पः। विज्ञातं विशेषाकारेण निश्वितं वस्तु। विज्ञानं तन्निश्चयः। मनो ज्ञानसाधनमन्तःकरणम्। शक्वरीश्चक्षुरादिबाह्येन्द्रियशक्तयः। दर्शपूर्णमासौ यागविशेषौ। वृहद्रथंतरे सामनी। पृतनाज्येषु सङ्ग्रामाभिगमनेषूग्रः प्रजापति र्वृष्णो वर्षयित्र इन्द्राय जयाञ्जयहेतुन्मन्त्रानेतान्प्रायच्छत्। तस्मा इन्द्राय विशः प्रजाः सर्वाः समनमन्त सम्यगानता विधेया अभवन्। स चेन्द्रः स्वासु प्रजासूग्रः शिक्षकोऽफवत्। हि यस्मात्स इन्द्रो हव्यो होमयोग्यो वभूव तत्तस्मिन्निन्द्रे प्रजापतेरनुग्रहो युक्तः। अथैतैर्मन्त्रैर्होमं विधातुं प्रस्तौति —
देवासुराः संयत्ता इति। जयन्त्येभिरिति जयाः। अथ विधत्ते –
स्पर्धमानेवेति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके चतुर्थोऽनुवाकः॥ ४॥