(अथ तृतीयकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः)।
इ॒मे वै स॒हांऽऽस्तां॒ ते वा॒युर्व्य॑वा॒त्ते गर्भ॑-
दधातां॒ तँ सोमः॒ प्राज॑नयद॒ग्निर॑ग्रसत॒ स
ए॒तं प्र॒जाप॑तिराग्नेयम॒ष्टाक॑पालमपश्य॒नं नि
र॑वप॒त्तेनै॒वैनाम॑ग्नेर॒धि निर॑क्रीणा॒त्तस्मा॒दप्य॑
न्यदेव॒त्या॑मा॒लभ॑मान आ॒ग्नेय॒मष्टाक॑पालं पु
रस्ता॒न्निर्वपेद॒ग्नेरे॒वैना॒मधि॑ निष्क्रीयाऽऽ ल॑
भते॒ यत् ( १ ) वा॒युर्व्यवा॒त्तस्मा॑द्वाय॒व्या॑
यदि॒मे गर्भ॒मदधातां॒ तस्मा॑द्द्यावापृथि॒व्या॑
यत्सोमः॒ प्राज॑नयद॒ग्निरग्र॑सत तस्मा॑दग्नी-
षो॒मीया॒ य॒दनयो॑र्विय॒त्योवार्गवद॒त्तस्मांत्सा
रस्व॒ती यत्प्र॒जाप॑तिरग्नेरधि॑ नि॒रक्री॑णा॒त्त
स्मा॑त्प्राजाप॒त्या सा वा ए॒षा सर्वदेवत्या॒ य
द॒जा व॒शा वाय॒व्या॑मा लभेत॒ भूति॑कामो
वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ [ २ ]
भा॒ग॒धेये॒नोप धावति॒ सं ए॒वैनं॒ भूति॑ गम
यति द्यावापृथि॒व्या॑मा ल॑भेत् कृ॒षमा॑णः प्र
ति॒ष्ठाका॑मो दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वर्षति॒
व्य॑स्यामोष॑धयो रोहन्ति स॒मर्धु॑कमस्य स॒स्यं
भ॑वत्यग्नीषो॒मीया॒मा ल॑भेत॒ यः का॒मये॒ता
न्न॑वानन्ना॒दः स्या॒मित्य॒ग्निनै॒वान्न॒मव॑ रुन्धे
सोमे॑नान्ना॒द्याम॒न्न॑वानेवा॒न्नादो॒ भ॑वति सार-
[[1657]]
स्व॒तीमा ल॑भेत॒ यः [ ३ ] ई॒श्व॒रो वा॒चो व-
दि॑तोः॒ सन्वाचं॒ न वदे॒द्वाग्वै सर॑स्वती॒ सर॑-
स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवा-
स्मि॒न्वाचं॑ दधाति प्राजाप॒त्यामा ल॑भेत॒ यः
का॒मये॒तान॑भिजितम॒भि ज॑येय॒मिति॑ प्र॒जाप॑तिः
सर्वा॑ दे॒वता॑ देवता॑भिरे॒वानभिजितम॒भि ज॑-
यति वा॒य॒व्या॑यो॒पाक॑रोति वा॒योरे॒वैना॑मव॒रु-
ध्याऽऽ ल॑भत॒ आकृ॑त्यै त्वा॒ कामा॑य त्वा
[४] इत्या॑ह यथाय॒जुरे॒वैतत्कि॑क्किटा॒कारं॑
जुहोति किक्किटाकारे॒ण वै ग्रा॒म्याः प॒शवो॑
रमन्त॒ प्राऽऽर॒ण्याः प॑तन्ति॒ यत्कि॑व्किटा॒कारं॑
जु॒होति॑ ग्रा॒म्याणां पशू॒ना धृत्यै॒ पर्य॑ग्नौ क्रि॒-
यमाणे जुहोति॒ जीव॑न्तीमे॒वैना॑+ सुव॒र्गं लो॒-
कं गमयति॒ त्वं तु॒रीया॑ व॒शिनी व॒शाऽसी-
त्याह दे॒वत्रैवैनां॑ गमयति स॒त्याः स॑न्तु॒ यज॑-
मानस्य॒ कामा॒ इत्या॑है॒ष वै कामः॑ ( ५ )
यज॑मानस्य॒ यदाना॑र्त उ॒दृचं॒ गच्छ॑ति॒ तस्मा॑-
दे॒वमा॑हा॒जाऽसि॑ रयि॒ष्ठत्या॑है॒ष्वे॑वैनां॑ लो॒केषु
प्रति॑ ष्ठापयति दि॒वि ते बृ॒हद्भा इत्या॑ह सु-
व॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र्दधाति॒ तन्तुं॑ त॒न्व-
न्रज॑सो भा॒नुमन्वि॒हीत्या॑हे॒माने॒वास्मै॑ लो॒-
[[1658]]
काञ्ज्योतिष्म न्तः करोत्यनुल्व॒णं व॑यत॒ जो
गृ॑वा॒मप॒ इति [ ६ ] आ॒ह यदे॒व य॒ज्ञ उ॒ल्ब
णं॑ क्रि॒यते॒ तस्यै॒वैषा शान्ति॒मनु॑र्भव ज॒नया॒
दै॒व्यं॒ जन॒मित्या॑ह मान॒व्यो वै प्र॒जास्ता ए॒
वाऽऽद्याः॑ कुरुते॒ मन॑सो ह॒विर॒सीत्या॑ह स्व॒-
गाकृ॑त्यै॒ गात्रा॑णां ते गात्र॒भाजो॑ भूया॒स्मे-
त्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते॒ तस्यै॒ बा ए॒त
स्या॒ एक॑मे॒वादे॑वयजनं॒ यदाल॑ब्धायाम॒भ्रः
[७] भवति॒ यदाल॑ब्दायाम॒भ्रः स्याद॒प्सु
वा॑ प्रवे॒शये॒त्सर्वां॑ वा॒ प्राश्नी॑या॒द्यद॒प्सु प्र॑वे॒-
शये॑द्यज्ञवेश॒सं कु॑र्या॒त्सर्वामे॒व प्राश्नी॑यादि-
न्द्रि॒यमे॒वाऽऽत्मन्ध॒त्ते सा वा ए॒षा त्र॒याणा॒मे-
वाव॑रुद्धा संवत्सर॒सदः॑ सहस्रया॒जिनो॑ गृह-
मेधिन॒स्त ए॒वैतया॑ यजेर॒न्तेषा॑मे॒वैषाऽऽप्ता
( ८ )॥
[यत्स्वेन॑ सारस्व॒तीमा॒ ल॑भे॒त॒ यः कामा॑य त्वा॒ कामोऽप॒
इत्य॒भ्रो द्विच॑त्वारिँ शञ्च ]।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठके तृतीयोऽनुवाकः॥ ३॥
(अथ तृतीयकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः )।
मन्त्राः काम्यपशोरत्र द्वितीये समुदीरिताः।
[[1659]]
अथ तृतीये तद्विधिरुच्यते। तत्राऽऽदौ स पशुमालभमानस्य पूर्वं कर्तव्यमष्टाकपालं पुरोडाशं विधातुं प्रस्तौति —
इमे वै सहेति। इमे द्यावापथिव्यौ पुरा सहाऽऽस्तामवियुक्ते अभूताम्। ते च सहस्थिते उभे वायुर्व्यवाद्वियुक्ते अकरोत्। ते’ च पुनर्वायुना संपरिष्वक्ते सत्यौ वशारूपं गर्भं धारितवत्यौ। तं च गर्भं सोम उत्कर्षौदजनयत्। उत्पादितं तमेतमग्निर्ग्रसितवान्। ततः प्रजापतिरग्नेरुक्तोचरूपेण षुरोडाशं निरुप्य तस्मादेग्नेरेतां वशां निष्क्रीतवान्। इदानीं विधत्ते —
तस्मादपीति। यस्मादग्नेः सकाशात्प्रजापतिना वशा निष्क्रीता तस्माद्वशाया यद्यप्यग्नेरन्या देवता तथाऽपि तदालभ्मात्पूर्वमाग्नेयं पुरोडाशं कुर्यात्। तेन पुरोडाशेनाग्नेः सकाशाद्वशां निष्क्रीय तदालम्भे प्रषृत्तो भवति।
कासावन्यदेवत्येत्याकाङ्क्षायां तद्योग्यान्देवताविशेषान्दर्शयति —
यद्वायुर्व्यवादिति। क्रारकत्वस्य पूर्वं दर्शितत्वात्तत्तद्देवतात्वं युक्तम्। संश्लिष्टे द्यावापृथिन्यौ यदा वियुज्येते तदा वेणुदलविभागध्वनिः समुत्पन्नस्तदिदं वाचो वदनम्। तस्मादुपकारित्वात्सरस्वत्यत्र देवता। तदेवं वायुद्यावापृथिव्यग्नीषोमसरस्वतीप्रजापतीनामत्र देवतात्वात्सेयमजा वन्ध्या सर्वदेवत्येत्युच्यते। तत्रैश्वर्यसिद्धये तेवताविशेषं विधत्ते —
वायब्यामेति। कृषीवलस्य सस्यसमृद्धिरूपां प्रतिष्ठां कामयमानस्य देवतां विधत्ते —
द्यावापृथिव्यामेति। विविधं रोहन्त्युत्पद्यन्ते। ततोऽस्य यजमानस्य सस्यं समृद्दिशीलं भवति।
अन्नसमृद्धि तद्धोगसामर्थ्यं च कामयगानस्य देवतां विधत्ते —
अग्नीषोमीयेति। अन्नाद्यमन्नभक्षणसामर्थ्यंम्।
राजादिसभारञ्जनयोग्यां वाचं कामयमानस्य देवतां विधत्ते —
सारस्वतीमेति। वेदशस्त्रपारगतत्वाद्वाचं वदितुं समर्थः सन्नपि सभाक-न्यादिपतिबन्धेन यो न वदेत्तस्यायं विधिः।
[[1660]]
यत्फलमुपायान्तरेण न संपादितं तत्संपदानकामस्य देवतां विधत्ते —
प्रजापत्यामेति। आ वायो भूषेत्येतामृचं विनियुङ्क्ते —
वायव्ययेति। एनां वशामवरुध्य संपाद्य। होममन्त्राणां स्पष्टार्थता दर्शयति —
आकृत्यै त्वेति। जिह्वाग्राकुञ्चननिष्पाद्याः पशुप्रिया ये ध्वनिविशेषास्तत्पूर्वकं होमं विधत्ते —
किक्किटाकारमिति। आकूत्या इति मन्त्रमुञ्चार्य जिह्वाग्रेण ध्वनिविशेष
कृत्वा पश्वाज्जुहुयात्। देन ध्वनिना सोमहिषादयो ग्राम्याः पशवः क्रीडन्ते। आरण्यास्तु मृगाः प्रकर्षेण पलायन्ते। अतोऽयं ध्वनिर्ग्राम्यपशुधत्यै भवति।
अस्याऽऽज्यहोमस्य कालं विधत्ते—
पर्यग्नाविति। उल्मुकेन पशोः प्रदक्षिणावृत्तिः पर्यग्निकरणं तद्यदाऽऽनुष्ठीयते तदैवायं होमस्तथा सति जीवनयुक्तामेनां स्वर्गं प्रापयति। मन्त्रेषु मनआदीनां प्रजापत्यादिप हुतत्वाभिधानात्।
नीयमानपश्वनुमन्त्रणमन्त्रे देवान्गच्छेत्यस्मयाभिप्रायं दर्शयति —
सत्याः सन्त्विति। अयं यज्ञोऽनार्तो विघ्नरहित उदृचमुत्तमामृचं समाप्तिं गच्छतीति यदेष एव यजमानस्य मुख्यः कामस्तत्समाप्त्या फलस्यावश्यंभावात्। तस्मादध्वर्युः कामाः सन्त्वित्येवं ब्रूते।
इन्यमानानुमन्त्रणमन्त्रे पृथिव्यां सीदेत्यादेस्तात्पर्यं दर्शयति —
अजाऽसि रयिष्ठेति। चरमस्य मन्त्रबागस्य तात्पर्यं दर्शयति —
दिवि ते वृहदिति। अस्मै यजमानार्थं स्वर्गे प्रकाशमुत्पादयति। वपाहो ममन्त्रे पथ इति लोका विवक्षिता इति दर्शयति।
तन्तुं तन्वन्निति। हविर्होममन्त्रस्य तात्पर्यं दर्शयति —
अनुल्वणमिति। विधिमतिक्रम्यानुष्ठितमङ्गमुल्बणम्। अनुल्बणशब्दोञ्चारणेन तस्य शान्तिर्भवति। तस्य मंन्त्रस्योत्तरभागे मनुशब्दप्रयोगस्य तात्पर्यमाह —
मनुर्भवेति। स्वायंभुवस्य मनोः प्रजापतिरूपत्वात्प्रजापतिसृष्टा दैव्य-
[[1661]]
जनादयाः सर्वाः प्रजा मानव्यो भवन्ति। अतोऽनेन मन्त्रभागेन (ण) ताः सर्वा आद्या भोग्याः कुरुते। हविःशेषप्राशनमन्त्र (न्त्रे) (हविःशेष) स्योदरंगत (त्वं) कर्तुं मनःशब्दप्रयोग इति दर्शयति —
मनसो हविरसीति। तस्मिन्मन्त्र उत्तरभागस्याऽ शीःपरत्वं दर्शयति —
गात्राणामिति। एतस्या वशाया आलम्भे वर्जनीयं दिनं दर्शयति।
तस्यै वा इति। अस्यां वशायामालब्धायां सत्यां गगने मेघावरणेन यद्दु र्दिनं भवति तदेवैकं दिनमेतस्या वशाया देवयागानर्हम्। तस्माद्यादा देधो न भविष्यतीति निश्वयो मनसि जायते तदानीमेवैतामालभेत।
तथा कृतेऽपि प्रमादाददर्शने सति नैमित्तिकं प्रयोग विशेषमाह —
यदालन्भदायामिति। तत्र जलप्रवेशः पूर्वः पक्षः। सर्वस्याः प्राशनं राद्धान्तः। तदुभयं स्पष्टी करोति —
यदप्सु प्रवेशयेदिति। यज्ञवेशसं यज्ञत्रिधातम्। यजमानः सर्वप्राशनेने न्द्रियमात्मनि घारयति। एतदेवाभिप्रेत्य सूत्रकारेणोक्तम्। सर्वां वा यजमान एवान्वहं प्राश्नीयादिति। एतस्यां वशायां मुख्याधिकारिजो दर्शयति—
सा वा एषेति। सेयं वशा त्रयाणामेवाधिकारिणामधीता। कस्य कस्येति तदुच्यते-गवामयनादिरूपं संवत्सरसत्रं योऽनुतिष्ठति सोऽयं संवतस्करसत्रस्य सहस्रसंख्याकदक्षिणायुक्तेन यज्ञेन यो यजते सोऽयं सहस्रयाजी तस्य। संवस्ररसदर्वाचीनेष्वपि सत्रेषु यो गृहपतित्वेन दीक्षितो भवति सोऽयं गृहमेधी तस्य। त एव त्रयोऽधिकारिण एतया वशया यजेरंस्तेषामेवैषा वशा युक्ता॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
चतुर्थप्रपाठके तृतीयोऽनुवाकः॥ ३॥
[[1662]]