(अथ तृतीयाष्टके चतुर्थप्रपाठके द्वितीयोऽनुवाकः)।
आ वा॑यो भू॒ष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते
नि॒युतो॑ विश्ववार। उपो॑ ते॒ अन्धो॒ मद्य॑म-
यामि॒ यस्य॑ देव दधि॒षे पू॑र्वपेयम्। आकू॑त्यै
त्वा॒ कामा॑य त्वा स॒मृधे॑ त्वा किक्कि॒टा ते॒
मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते प्रा॒णं
वा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चक्षुः॒ सूर्या॑य॒
स्वाहा॑ किक्कि॒टा ते॒ श्रोत्रं॒ द्यावा॑पृथि॒वी-
भ्याँ॒ स्वाहा॑ किक्कि॒टा ते॒ वा॒चँ सर॑स्वत्यै॒
स्वाहा॑ [ १ ]। त्वं तु॒रीया॑ व॒शिनी॑ व॒शाऽ-
सि॑ स॒कृद्यत्त्वा॒ मन॑सा गर्भ॒ आऽश॑यत्।
व॒शा त्वं व॒शिनी गच्छ दे॒वान्त्सत्याः स॑न्तु॒
यज॑मानस्य॒ कामाः॑। अ॒जाऽति॑ रयि॒ष्ठा पृ-
थि॒व्याँ सीदो॑र्ध्वाऽन्तरि॑क्ष॒मुप॑ तिष्ठस्व दि॒वि-
ते बृ॒हद्भाः। तन्तुं॑ तन्वन्रज॑सो भा॒नुमन्वि॑हि॒
ज्योति॑ष्मतः पथो र॑क्ष धि॒या कु॒तान्। अ॒-
नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒
दैव्यं॒ जन॑म्। मन॑सो ह॒विर॑ति प्र॒जाप॑तेर्वर्णो
गात्रा॑णां ते गात्र॒भाजो॑ भूयास्म [२ ]॥
(सर॑स्वत्यै॒ स्वाहा॒ मन॒स्त्रयो॑दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थप्रपाठके द्वितीयोऽनुवाकः॥२॥
[[1654]]
(अथ तृतीयकाण्डे चतुर्थप्रपाठके द्वितीयोऽनुवाकः)
वशागर्भनिमित्तोऽयं होमोऽस्मिन्प्रथमे श्रुतः।
अथ द्वितीयानुवाके भूत्यादिकामस्य वशालम्भार्थं मन्त्रा वक्तव्याः।
कल्पः — “वायव्यामालभेत भूतिकाम इत्युक्तानि दैवतानि वायव्यामुपाकरोत्या वायो भूष सुचिपा इति। पाठस्तु —
आ वायो भूषेति। हे वायो त्वमागत्य पशुं भूषालंकुरु। हे शुचिपाः शुद्धहविःपालक त्वं नोऽस्मानुपगच्छ। हे विश्ववार विश्वव्यापक ते सहस्रं नियुतः सन्ति। नियुच्छन्देन वायुवाहनभूता अश्वा उच्यन्ते। ते तवान्धः पशुरूपमन्नं मद्यं हर्षकरं तस्मादुपो समीपे त्वामयानि प्राप्नोमि। तद्धे देव यस्य पशोः संबन्धि हविः पूर्वपेयं सोमसदृशमिति मनो दधिषे मनो धृतवानसि तादृशेन हविषा त्वामयामीत्यन्वयः। कल्पः — “आकूत्यै त्वा कामाय त्वेति पर्यग्नौ क्रियमाणे जुहोति” इति। पाठस्तु —
आकूत्यै त्वेति। हे पशो, आकूत्यै मदीयसंकल्पसिद्ध्यर्थं त्वां प्राप्य तथा कामामामीष्टपालनार्थं त्वां प्राप्य तथा समृधे समृद्धिसिद्ध्यर्थं त्वां प्राण्य क्किक्किटकारपूर्वक ते मनः प्रीणयित्वेदमाज्यद्रव्यं प्रजापतये स्वाहा हुतगस्तु किक्किटेत्यनुकरणशब्दः। मनुष्या हि पशूनामाभिमुख्यार्थं मुखमध्ये स्वजिह्वाग्र मूर्ध्वमाकुञ्च्य कंचिद्ध्वनिविशेषं कुर्वान्ति। सोऽयं ध्वनिःकिक्किटाशब्देनानुक्रियते। आकूत्या इत्यादिकमुपरितममन्त्रेष्वनुषज्य सर्वं पूववद्व्याख्येयम्।
कल्पः — “त्वं तुरीयोत्युदीचीं वीवमानमनुपन्त्रयते” इति। पाठस्तु
त्वं तुरीयेति। हे वशे त्वं तुरीयोपरितनमन्त्रे लोकत्रयस्य वक्ष्यमाणत्वात्तदपक्षया चतुर्थी वशिनी। वश इन्द्रियनियमः। बृवभसंयोगापेक्षाया अभावात्। वशोऽस्या अस्तीति वशिनी। वशाऽसि बन्ध्या भवति। तदेतद्वशिनीत्वं व शात्वं प्रतिपादयति। यद्यस्मात्कारणात्पुरुषाभिलाषयुक्तेन मनसा सकृदेव गर्भस्त्वामाशयत्त्वामागत्य त्वदुदरे शयनं कडतवान्, तस्मादद्वितीयतृतीयादिपुरुषसंयोगे-च्छारहितत्वात्त्वं वशिनी. अपत्यान्त्रराहित्याद्वशा। तादृशी त्वं हवीरूपेण देवान्गच्छा देन च गमनेन यजमानस्य कामाः सत्याः सन्तु।
[[1655]]
कल्पः — “अजाऽसि रयिष्ठेति निहन्यमानाम” इति।
अनुमन्त्रयत इत्यनुवर्तते। पाठस्तु —
अजाऽसि रयिष्ठेति। हे पशो त्वमजाऽसि जातितश्छागी भवसि। रयिष्ठा धने स्थिता हविःस्वरूपत्वेन देवानां धनभूताऽसि. तादृशी त्वमादौ पृथिव्यां सीदापविश। तत ऊर्ध्वोन्नीता सत्यन्तरिक्षमुपतिष्ठस्व प्राप्नुहि दिवि ते बृहद्भाः प्रौढं तेजः। एवं त्रिषु लोकेषु तिष्ठ। कल्पः- “तन्तुं तन्वन्निति वपां जुहोति” इति। पाठस्तु —
तन्तुं तन्वन्निति। हे पशो रजसो रज आत्मकस्य हविस्तन्तुषं तत्वन्विस्तारं कुर्वन्भानुमन्विहि आदित्यमनुगच्छ। किंच धिया कृतान्प्रज्ञया संपदिताञ्ज्योतिष्मतः प्रकाशवतः पथोऽस्मदीयस्वर्गमार्गान्रक्ष। कल्पः- ‘अनुल्बणं व यत जोगुवामप इति हविः” इति। जुहोतीत्यनुवर्तते। पाठस्तु —
अनुल्बणमिति। हे हृदयादीनि पश्वङ्गानि जोगुवां निर्विघ्नेन समाप्त्यर्थं त्वरमाणानामस्माकमषः कर्मानुल्वणमानतिरिक्तं वयत कुरुत। हे पशो मनुर्भव मनरिवोत्मादको भव। ततो द्रैव्यं जनं जनय। अयं च यजमानो जन्मान्तरे यथा देवजनो भवति तथोत्पादय।
कल्पः — “मनसो हविरसीति हविःशेषान्प्राश्नन्ति” इति। पाठस्तु —
मनसो हविरिति। हे पशो त्वे मनसो मन्तव्यस्य देवस्य हविरसि प्रजापतेर्वर्णः स्वरूपमसि। तेनोत्पादितत्वात। तादृशस्य तव गात्राणामङ्गानां प्राशनाद्वयं गात्रभाजः पुष्टाङ्गा भूयास्म। अत्र विनियोगसंग्रहः —
आ वायो इत्युपाकुर्यादाकूत्यै पञ्चभिर्हुतिः।
त्वं गच्छन्तीं मन्त्रयित्वा हन्यमानामजेति च॥
तन्तुं वपाहुतिस्तद्वदनुल्वेति हविहुतिः।
मनःशेषान्भक्षयन्ति मन्त्र एकादशोरिताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
चतुर्थप्रपाठके द्वितीयोऽनुवाकः॥ २॥
[[1656]]