(तत्र प्रथमोऽनुवाकः)।
हरिः ॐ।
वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते॒ यस्य॑ ह॒वि
रती॑ रिच्य॑ते॒ सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॒ह
बृ॒हस्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य
व्यृ॑द्ध॒मपि॑ वपति॒ रक्षाँ॑ सि॒ वा ए॒तत्पशुँ॒
स॑चन्ते॒ यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न्भव॑ति॒
यस्या॑स्ते॒ हरितो॒ गर्भ॒ इत्या॑ह दे॒वत्रैवैनां॑ ग-
मयति॒ रक्ष॑सा॒मप॑हत्या॒ आ व॑र्तन वर्त॒ये
त्या॑ह (१) ब्रह्म॑णै॒वैन॒मा व॑र्तयति॒ वि ते॑
भिनद्मि तक॒रीमित्या॑ह यथाय॒जुरे॒तैवदु॑रुद्र॒
प्सो वि॒श्वरू॑प इन्दु॒रित्या॑ह प्र॒जा वै प॒शव॒
इन्दुः॑ प्र॒जयै॒वैनं॑ प॒शुभिः॒ सम॑र्धयति॒ दिवं॒ वै
य॒ज्ञस्य॒ व्यृ॑द्धं गच्छति पृथि॒वीमति॑रिक्तं॒ त
द्यन्न श॒मये॒दार्ति॒मार्छे॒द्यज॑मानो म॒ही द्यौः
[[1649]]
पृ॑थि॒वी च॑ न इति॑ [ २ ] आ॒ह॒ द्यावा॑पृ-
थि॒वीभ्यामे॒व य॒ज्ञस्य॒ व्यृ॑द्धं॒ चाति॑रिक्तं च
शमयति॒ नाऽऽर्ति॒मार्छति॒ यज॑मानो॒ भस्म॑-
ना॒ऽभि समू॑हति स्व॒गाकृ॑त्या॒ अथो॑ अ॒नयो॒र्वा
ए॒ष गर्भो॒ऽनयोरे॒वैनं॑ दधाति॒ यद॑व॒द्येदति॒ त
द्रेंचये॒द्यन्नाव॒द्येत्पशोराल॑घ्धस्य॒ नाव॑ द्येत्पु॒र-
स्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत्पु॒रस्ता॒द्वै
नाभ्यै॑ [ ३ ] प्रा॒ण उप॒रि॑ष्टादपा॒नो यावा॑
ने॒व प॒शुस्तस्याव॑ द्यति॒ विष्ण॑वे शिपिवि॒-
ष्टाय॑ जुहोति॒ यद्वै य॒ज्ञस्या॑ति॒रिच्य॑त॒ यः प॒-
शोर्भू॒मा या पुष्टि॒स्तद्विष्णुः॑ शिपिवि॒ष्टोऽति॑-
रिक्त ए॒वाति॑रिक्तं दधा॒त्यति॑रिक्तस्य॒ शा-
न्त्या अ॒ष्टाप्रू॒ड्ढि॑रण्यं॒ दक्षि॑णा॒ऽष्टाप॑दी॒ ह्ये॑-
षाऽऽत्मा न॑वमः प॒शोराप्त्या॑ अन्तरको॒श
उ॒ष्णीषे॒णाऽऽवि॑ष्टितं भवत्ये॒वमि॑व॒ हि प॒शु-
रुल्ब॑मिव॒ चर्मे॑व माँ॒समि॒वास्थी॑व॒ यावा॑ने-
व प॒शुस्तमा॒प्त्वाऽव॑ रुन्धे॒ यस्यै॒षा यज्ञे प्रा-
य॑श्चित्तिः क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान्भवति
[४]॥
[व॒र्त॒येत्या॑ह न॒ इति॒ वै नाभ्या॒ उल्ब॑मि॒वेकविँशतिश्च] ।
[[1650]]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
चतुर्थपाठके प्रथमोऽनुवाकः॥१॥
(अथ तृतीयकाण्डे चतुर्थ प्रपाठकः)
(तत्र प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
प्रपाठके तृतीयेऽपि सोमशेषः क्रियानपि।
उक्तः कर्मान्तरं किंचिदपि तत्रोपवर्णितम्॥
प्रपाठके चतुर्थे तु किंचिन्नैमित्तिकं तथा।
पश्चिष्टिर्दर्विहोमाश्च वाच्याः काम्याश्च केचन॥
तत्राऽऽद्येनानुवाकेन वशागर्भस्य दर्शननिमित्ताः पूर्वोक्ता मन्त्रा व्याख्यायन्ते।तत्र प्रथममन्त्रगतयोर्बृहस्पतिप्रजापतिशब्दयोस्तात्पर्यं दर्शयति —
वि वा एयस्येति। यस्य यजमाननस्य हविरतिरिच्यतेऽधिकं भवति। वशायाः शरीरवेकं हविष्ट्वन संकल्पितं तत्र गर्भे सति वपाद्याधिक्यं हविरतिरेक इत्युच्यते। ईदृशातिरेकवत एतस्य यजमानस्य यज्ञो व्यृध्यत एव विगुण एव भवति। तत्र सूर्यो देव इतिमन्त्रेण होमे सत्येतन्मन्त्रोक्ताभ्यां बृहस्वतिप्रजापतिभ्यां यज्ञस्य व्यृद्धमपि वपति वैगुण्यं समादधाति।
अनुमन्त्रणमन्त्रे देवैः समजीगममित्यस्यांशस्य तात्पर्यं दर्शयति–
रक्षाँसि। वा इति। एकदेवत्य आलब्ध एकां देवतामुद्दिश्योपाकृतः पशुर्गर्भधारणेन भूयान्भवतीति यदेतेन वैकल्येन रक्षांसे समवयन्ति तत्परिहाराय यस्यास्त इत्यभिमन्त्रणेन कृतेन तां देवैः समजीगममित्युक्तत्वाद्देवेष्वैनां वशां प्रापितवान्भवति। ततो रक्षांस्यपहन्यन्त। लौकिकस्य गर्भपर्यावर्तनस्य व्यावृत्तये मन्त्रेणैव तत्पर्यावर्तनमित्येतद्दर्शयति —
आ वर्तनेति। उल्बच्छेदनमन्त्रस्य स्पष्टार्थतां दर्शयति —
[[1651]]
वि ते भिनद्मीति। रसधारणार्थपात्रोपोहनमन्त्रगतस्येन्दुशब्दस्य तात्पर्यं दर्शयति —
उरुद्रप्सो विश्वरूप इति। इदि परमैश्वर्यं इत्यस्पाद्धातोरूपन्न इन्दुशब्दः। प्रजानां पशूनां चैश्वर्यरूपत्वादिन्दुत्वम्। अत इन्दुशब्दप्रयोगेण प्रजादिभिरेनं रसं समृद्धं करोति। तस्याभिसमूहनमन्त्रे द्युशब्दस्य पृथिवीशब्दस्य च तात्पर्यं दर्शयति —
दिवं वै यज्ञस्येति। यज्ञस्य संबन्धि यदङ्गं व्यृद्धं न्यूनंतद्दिवमेव गच्छति। यदतिरिक्तं तत्पृथिवीं गच्छति। तथा सति तद्यद्युभवं न शमयेत्तदा यजमान आर्तिं प्राप्नुयात्। अतो मन्त्रे द्यौः पृथिवीतिप्रयोगात्ताभ्यां तदुभयं शमयित्वा यजमान आर्तिं न प्राप्नोतित। अथ विधत्ते —
भस्मनाऽभि समिति। कथं नाम द्यावापृथिवीभ्यां गर्भाऽयमात्मसात्क्रियेतेति विचार्य तस्यै स्वगाकृत्यै शीतेन भस्मना गर्भमाच्छदायेत्। किंचैष गर्भोऽनयोर्द्यावापृथिव्योरेव समुत्पन्नः। अतोऽनेन मन्त्रेण भस्माच्छादने सत्यनयोर्द्यावापृथिव्योरेनं गर्भं स्थापयतीति —
यदुक्तं सूत्रकारेण — “पशोर्दैवतान्यवद्यन्गर्भस्य पुरस्तान्नाभ्या अन्यदवदाय दैवतेष्ववदधात्युपरिष्टादन्यत्सौविष्टकृतेष इति। तदेतद्विधत्ते —
यदवद्येतीति। यदि गर्भस्य हृदयाद्यङ्गमवद्येत्तदा पशुहृदयाद्यपेक्षया हविरतिरिक्तं भवेत्। यदि तद्दोषपरिहाराय नावद्येत्तदानीमालब्धस्य पशोरवदानं न कृतं स्यात्। अत उभयदोषपरिहाराय नाभ्याः परस्तात्किंचिदङ्गमवद्येदुपरिष्टाच्यान्यत्किंचिदवद्येत्। एवं सति यावानेव पशुस्तत्सर्वमवत्तं भवति। तत्कथमिति तदुच्यते – तिरश्चां हि नाभ्याः पुरस्तात्प्राणो मुखे संचरति। अपान उपरिष्टात्पुच्छदेशे संचरति। अत उभयावदानेन सर्वावदानीसद्धिः।
कल्पः — “गर्भस्य दक्षिजं पूर्वपादं प्रच्छिद्य विष्णुं शिपिविष्टं यजति” इति।
तदेतद्विधत्ते —
[[1652]]
विष्णव इति। यज्ञो वै विष्णुः पशवः शिपिरिति श्रुत्यन्तरात्पशुस्वामी कश्चिद्यज्ञदेवः शिपिविष्टो विष्णुस्तस्यै जुहुयात्। यज्ञस्य संबन्धि यदङ्गमुपाकृतादतिरिक्तं भवति यश्च पशोर्भूमा बहुत्वं हविराधिक्यहेतुर्या च पशोः शरीरे पुष्टिराधिक्यहेतुस्तत्सर्वं शिपिविष्टस्य विष्णोरधीनम्। अतो विष्णुमुद्दिश्य तद्धोमे सत्यतिरिक्तहेतावेवातिरिक्तं स्थापितं भवति। तच्चातिरेकदोषस्य शान्त्यै भवति। देयां दक्षिणां विधत्ते —
अष्टाप्रूइढिरण्यमिति। अष्टाभिर्बिन्दुभिर्लाञ्छितमष्ठाप्रूट्तादृशं हिरण्यं दद्याद्यस्मादियं वशा सगर्भा साऽष्टाभिः पादैर्युक्ता। आत्मा पशोर्देहो यस्मादतिरिक्तो नवमस्तस्मादष्टाभिर्बिन्दुभिर्युक्तं हिरण्यमष्टाभिः पादैर्युक्तेन पशुना च सदृशं भवतीति पशुप्राप्त्यै संपद्येते।
यदुक्तं सूत्रकारेण — “अष्टाप्रूड्ढिरण्यमुष्णीषेणाऽऽवेष्ट्य कोशेऽवधाय द्वितीयेऽवधाय तृतीयेऽवदधाति” इति। तदेतद्विधत्ते—
अन्तरकोश इति। बाह्यकोशमारभ्य योऽयमभ्यन्तरस्तृतीयः कोशस्तस्मिन्कोशे तद्धिरण्यमुष्णीषेण सर्वतो वेष्टनीयम्। तथैव तद्धिरण्यं चतुर्भिर्वोष्टितं तथैव गर्भरूपः पशुरपि चतुर्भिवेष्टितो भवति। तत्कथमिति तदुच्यते उल्बं बहिर्वेष्टनं तस्याभ्यन्तरे चर्म तस्याभ्यन्तरे मांसं ततस्तस्याभ्यन्तरेऽस्थि अस्थ्नोऽभ्यन्तरे पशोजीर्विः। एवं हिरण्यस्य पशुसादृश्ये सति तद्दानेन यावान्संपूर्णः पशुस्तं प्राप्य स्वाधीनं करोति। इदानीमेतत्साङ्गं कर्म विधत्ते —
यस्यैषेति। यस्य यजमानस्य यज्ञे वशागर्भमपराधं निमित्तीकृत्वा यथोक्तहोमरूपा प्रायश्चित्तिः क्रियते स यजमानः प्रायश्चित्तेन प्रकृतेन यज्ञेनेष्टूवा वसुमत्तरो भवति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
तृतीयप्रपाठके प्रथमोऽनुवाकः॥१॥
[[1653]]