१०

(अथ तृतीयकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः)

सूर्यो॑ दे॒वो दि॑वि॒षद्भ्यो॑ धा॒ता क्ष॒त्त्राय॑
वा॒युः प्र॒जाभ्यः॑। बृ॒हस्पति॑स्त्वा प्रजाप॑तये॒
ज्योति॑ष्मतीं जुहोतु। यस्या॑स्ते॒ हरि॑तो॒ ग-
र्भो॑ऽथो॒ योनि॑र्हि॒रण्ययी॑। अङ्गा॒न्यह्रु॑ता॒
यस्यै॒ तां देवः सम॑जीगमम्। आ वर्तन वर्त॒य नि
नि॑वर्तन वर्त॒येन्द्र॑ नर्दबुद। भूम्या॒श्चत॑स्र प्र॒
दिश॒स्ताभि॒रा व॑र्तया॒ पु॑नः। वि ते भिनद्मि
तक॒रीं वि योनिं॒ वि ग॑वी॒न्यौ। वि (१)
मा॒तरं॑ च पु॒त्रं॑ च॒ वि गर्भं च ज॒रायु॑ च।
ब॒हिस्ते अस्तु॒ बालिति॑। उ॒रु॒द्र॒म्सो वि॒श्व-
रू॑प॒ इन्दुः॒ पव॑मानो॒ धीर॑ आनञ्ज॒ गर्भम्।
एक॑पदी द्वि॒पदी॑ त्रि॒पदी॒ चतु॑ष्पदी॒ पञ्च॑पदी॒

[[1639]]

षट्प॑दी स॒प्तप॑द्यष्ठाप॑दी॒ भुव॒नाऽनु॑ प्रथताँ॒
स्वाहा॑। म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं
मि॑मिक्षएम्। पि॒पृ॒तां नो॒ भरी॑मभिः [ २ ]॥
(ग॒यी॒न्यौ॑ वि चतु॑श्वत्वारिँ शञ्च)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
तृतीयप्रपाठके दशमोऽनुवाकः॥१०॥

( अथ तृतीयकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः)।
नवमे जीर्णवृषभालम्भ उक्तोऽनुवाकके।
अथ दशगे पशुप्रायश्चित्तविशेष उच्यते।
कल्पः — “यद्यष्टापदीत्यनुवृध्येत धाता रातिः सूर्यो देव इत्याहुती हुत्वा” इति। यद्यतिरात्रादिषु पशुविकृतिभूतायां छाग्यां संज्ञप्तायोमियगव्टापदी गर्भिणीत बुध्येत तदा द्वे आहुती जुहुयात्। पाठस्तु —
सूर्यो देव इति। सूर्यो देवो द्विविषदामभिवृद्ध्यर्थं धाता देवः क्षत्त्राव तदभिवृद्ध्यर्थं वायुः प्रजाभिवृद्ध्यर्थ बृहस्पतिः प्रजापतिप्राप्त्यर्थं ज्योतिष्मतीं त्वां जुहोतु।
कल्पः- “अथैनामभिमन्त्रयते यस्यास्त इति”। पाठस्तु —
यस्यास्त इति। यस्यास्ते हरितो हृतसारो हरितवर्णो वा गर्भः, योनिहिरण्मयी हृतसारा हरितवर्णा वा, यस्यै यस्या अङ्गान्यह्रुताऽपिहिता (कुटिलानि) तामिमां देवैः संगतां करोमि। कल्पः — “आ वर्तन वर्तयेति प्रदक्षिणं गर्भमावृत्य’ इति। पाठस्तु —
आ वर्तनेति। वर्तन गर्भस्य प्रवर्तकं हे देव गर्भमावर्तय। हे निवर्तन गर्भस्य निर्गमकृद्देव गर्भं निवर्तय निर्गतं कुत। हे इन्द्रेश्वर नर्दबुद गर्भस्य शब्दयितर्निशामकपूर्वन्विन (?) भूम्यो याश्चतस्रः प्रकृष्टा दिशस्ताभिः पुनर्गर्भमावर्तय तद्व्याप्तं कुर्वित्यर्थः।

[[1640]]

कल्पः “वि ते भिनद्मीति गर्भमाच्छिनत्ति” इति। पाठस्तु-वि ते मिनद्माति।
हे वशे ते तव तकरीं विभिनाद्मे विच्छिन्नद्मि योनिं च विभिनद्मि। गवान्यौ वृषणस्थानीयो योन्यन्तर्ग गतिविशेषनिमित्तभूतौ प्रवर्तकौ मातरं पुत्रं गर्भं जरायु च विभिनद्मि विश्लेषयामि। कल्पः- “बहिस्ते अस्तु बालित्यन्तरी सक्थिनी गर्भं नरस्य” इति। पाठस्तु —
बहिस्त इति। हे (ते) बाल्वालहेतुप्राणत्तिरूप आत्मा बहिः सर्वं व्याप्यास्त्विति विभिनद्मीति पूर्वत्र हेतुः। कल्पः — “उरुद्रप्सो विश्वरूप इन्दुरिति गर्भरसाय पात्रमुपोहति” इति। पाठस्तु —
उरुद्रप्म इति। उरुद्रप्सो बहुसारावयवो विश्वरूपो नानारूप इन्दुः शुक्रपवमानः शुद्धरूपो धीरः स्थिरः। ईदृशो यः प्रजापशुरूपोऽवयवसंवात आनञ्ज गच्छतु गर्भं जननान्तरमित्यर्थः। कल्पः- “एकपदी द्विपदीति पुरस्तात्स्विष्टकृतो जुहोति” इति। आज्यमित्यर्थः। पाठस्तु —
एकपदीति। एषा वशैकपद्यादिरूपा भुवनानि भूतजातान्यनुक्रमेण प्रथताम्। कल्पः — “गर्भं पुरोडाशं चोत्तरेण गार्हपत्यस्य शामित्रस्य वा शीर्तं भस्मन्युषोष्य मही द्यौरिति शीतेन भस्मनाऽभिसमू (मु) ह्य” इति। पाठस्तु —
मही द्यौरिति। महती द्यौः पृथिवी चेमं नो यज्ञं मिमिक्षतामासिञ्चतः नोऽस्मांश्च भरीमभिर्भरणप्रकरैः पिपृतां पालयताम्। अत्र विनियोगसंग्रहः —

सूर्यो हुत्वाऽऽज्वं गर्भिण्या यस्या इत्यनुमन्त्रणम्।
आवर्त गर्भमावृत्य वि ते गर्भं छिनत्ति हि॥
बहिर्गर्भं निरस्योर्वोरन्तरा वी (रोर्वि) ति भाजनम्।
एकहोमो मही भस्माच्छादनं गर्भडाशयोः॥
अनुवाके तु दशमे मन्त्रा अष्टावुदीरिता॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
तृतीयप्रपाठके दशमोऽनुवाकः॥१०॥

[[1641]]