०७

प्रजापतिर्देवासु॒रान॑सृजत॒ तदनु॑ य॒ज्ञोऽसृ-
ज्यत य॒ज्ञं छन्दाँसि॒ ते विष्व॑ञ्चो॒ व्य॑क्राम॒-
न्त्सोऽसृ॑रा॒ननु॑ य॒ज्ञोऽपा॑क्रामद्य॒ज्ञं छन्दाँसि॒
ते दे॒वा अ॑मन्यन्ता॒मी वा इ॒दम॑भूव॒न्यद्व॒यँ
स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्त्सो॑ऽब्रवीत्प्र॒-
जाप॑ति॒च्छन्द॑सां वी॒र्यमा॒दाय॒ तद्वः प्र दा॑-
स्या॒मीति॒ स छन्द॑सां वी॒र्यम् (१) आ॒दा-
य॒ तदेभ्यः॒ प्राय॑च्छ॒त्तदनु॒ छन्दाँ॒स्यपाक्रा-
मन्छन्दाँसि य॒ज्ञस्ततो दे॒वा अभ॑व॒न्पराऽ

[[1627]]

(प्रपा. ३ अनु.६ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सोमाङ्गत्वेनाऽऽश्रावयेत्यादिमन्त्रविधिः)
सु॑रा॒ य ए॒वं छन्द॑सां वी॒र्य॑ वेदाऽऽ श्रा॑व॒यास्तु॒
श्रौप॒ड्यज॒ ये यजा॑महे वषट्का॒रो भव॑त्या॒
त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ब्रह्मवा॒दिनो॑
वदन्ति॒ कस्मै॒ कम॑ध्व॒र्युरा श्रा॑व॒यतीति॒ छ-
न्द॑सां वी॒र्या॑येति॑ ब्रूयादे॒तद्वै [ २ ] छन्द॑सां
वी॒र्य॑मा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे
वषट्का॒रो य ए॒वं वेद॒ सवी॑र्यैर॒वे छन्दो॑भि
रर्चति॒ यत्किं चार्चति॒ यदिन्द्रो वृ॒त्रभह॑न्नमे॒-
ध्यं तद्यद्यतीन॒पाव॑पदमे॒ध्यं तदथ॒ कस्मा॑दै॒-
न्द्रो य॒ज्ञ आ सँ स्था॑तो॒रित्या॑हु॒रिन्द्र॑स्य॒ वा
ए॒षा य॒ज्ञिया॑ त॒नुर्यद्य॒ज्ञस्तामे॒व तय॑जन्ति॒ य
ए॒वं वेदोपनं॑ य॒ज्ञो न॑मति [३ ]॥
(छन्द॑सां वी॒र्य॑ वा ए॒व तद॒ष्टौ च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
तृतीयप्रपाठके सप्तमोऽनुवाकः॥६॥

( अथ तृतीयाकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः)।
षष्ठे प्रोक्ता अतिग्राह्या गवमयनिकास्त्रयः।

अथ सप्तमे सोमाङ्गत्वेनाऽऽश्रावयेत्यादयो मन्त्रा विधीयन्ते —
प्रजापतिरिति। कदाचित्प्रजापतिर्देवानसुरांश्च पुराऽसृजत सृष्टावान्। ताननु तेन यज्ञोऽप्यसृज्यत। यज्ञमनु च्छन्दांसि च ससर्ज। तदानीं ते देवा परस्परमैकमत्या-भावद्विष्वञ्चो नानागतयो भूत्वा व्यक्रामन्विविधं देशं गताः। अथ स यज्ञोऽसुराननुसृत्य देवेभ्योऽपाक्रामत्। तं च यज्ञमनुसृत्य च्छन्दांस्यपि देवेभ्योऽ-

[[1628]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३तृतीयकाणडे -
(सोमाङ्गत्वेनाऽऽश्रावयेत्यादिमन्त्रविधिः)

पाक्रामान्। तदानीं ते देवाः परस्रमैकमत्यं प्राप्यैवं विचारितवन्तो वयं यदैश्वर्यं प्राप्य स्थिताः स्मस्तदिदं सर्वं प्राप्यासुरा एवेदानीमवस्थिता अभवन्निति विचार्य ते देवास्तथाविधं परिभवमसहमानाः प्रजापतिमुपाधावन्। अथ देवैरुपसेवितः प्रजापतिस्तान्प्रत्येवमब्रवीत्। छन्दसां वैदिकमन्त्राणां मध्ये वीर्यं सारमादाय युष्मभ्यं तत्प्रदास्यामीत्युक्त्वा तथैव कृतवान्। अथ तद्वीर्यमनु सर्वाणि छन्दांस्यसुरेभ्योऽपक्रम्य देवान्प्राप्नुवन्। तानि च्छन्दांस्यनुसृत्य यज्ञोऽप्यसुरेभ्योऽपक्रम्य देवान्प्राप्नोत्। ततो देवा विजयिनोऽभवन्नसुरास्तु पराभूताः। अथ मन्त्रान्विधत्ते —
य एवं छन्दसामिति। यो वीर्यं वेद स स्वयमेव विजयी भवति तस्य भातृव्यः पराभवति। तस्माद्वीर्यं विदित्वा प्रयुञ्जीत। आश्रावयेत्यादिमन्त्रपञ्चकं तद्वीर्यम्। एतेषां मन्त्राणामर्था यो वै सप्तदशमित्यस्मिन्ननुवाके [ सं. का. १ प्रं. ६ अ. ११] प्रपञ्चिताः। इष्ट्यङ्गत्वेन तत्र विधीः। अत्र तु सोमाङ्गत्वेन। सोमस्येष्टिविकारत्वाभावेन चोदकात्ते मन्त्रा अप्राप्ताः। इदानीं तानेतान्मन्त्रान्प्रशंसति —
ब्रह्मवादिन इति। कस्मै कं कस्मै कामाय प्रयोजनायाध्वर्युराश्रावणं करोतीति ब्रह्मवादिभिः पृष्टो बुद्धिमानुत्तरं ब्रूयात्। प्रजापतिनोद्धृतवीर्याणं छन्दसां पुनर्वीर्यप्रा-प्तिलाभायाध्वर्युराश्रावयतीत्युत्तरम्। स एवोत्तरवादी वीर्यं दर्शयितुमाश्रावयेत्यादिक-मनुवदति। इदानीं वीर्यवेदनं प्रशंसति —
य एवं वेदेति। अस्मिन्यज्ञे लोकव्यवहारे वा वीर्यवेदी यकिंचिद्धेवादिकं पूजयति तत्सर्वं सवीयेरवे च्छन्दोभिः पूजितवान्भवति।
अथैतैर्मन्त्रैर्युक्तं यज्ञं प्रशंसति —
यदिन्द्रो वृत्रमिति। इन्द्रो वृत्रं हतवानिति यत्तदेतद्वधरूपममेध्यमयज्ञियम्। किंचायमिन्द्रो यतीनवावपत्सालावृकेभ्यः प्रायच्छदिति यत्तदपि पापरूपत्वादयज्ञियम्। अथैवं सति कस्मात्कारणादयं यज्ञ आ संस्थातोः समाप्तिपर्यन्तमैन्द्रः संपन्न इति ब्रह्मवादिन आहुः। तत्र बुद्धिमानेवमुत्तरं ब्रूते-इन्द्रस्य हि द्वै तन्वावयज्ञिया यज्ञिया च। राज्यं कुर्वती क्षत्त्रादीन्हिंसन्ती तनूरयज्ञिया।

[[1629]]

प्रपा. ३ अनु. ८ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अवभृथाङ्गहोमाद्यभिधानम्)
सा च राजसी। यज्ञ इति यदेवेन्द्रस्यैव यज्ञिया यज्ञार्हा तनूः। सा च सात्त्विकी वक्ष्यत इति। यज्ञे हविषा पूजनीयो यज्ञाङ्गदेवतारूपः सात्त्विकविग्रह इत्यर्थः। तत्तस्मिन्यज्ञे तामेव सात्त्विकीं यज्ञार्हां तनूं यजमानाः प्रयजन्ति। यज्ञरूपतनुवदेनं प्रशंसति-य एवमिति। अत्र विनियोगसंग्रहः —
“आश्रावयेत्यादयोऽत्र पञ्च मन्त्रा उदीरिताः।
आश्रावणादि सोमार्थमत्र प्राक्तनमिष्टिगम”॥ इति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
तृतीयप्रपाठके सप्तमोऽनुवाकः॥७॥