(तत्र प्रथमोऽनुवाकः)।
ह॒रिः॒ ॐ।
अग्ने॑ तेजस्विन्तेजस्वी त्वं दे॒वेषु॑ भूया॒स्ते-
ज॑स्वन्तं॒ मामायुष्मन्तं॒ वर्च॑स्वन्तं म॒नुष्ये॑षु
कुरु दी॒क्षायै॑ च त्वा॒ तप॑सश्च॒ तेज॑से जुहोमि
तेजो विद॑सि॒ तेजो॑ मा॒ मां हा॑सी॒न्माऽहं
तेजो॑ हासिषं॒ मा मां तेजो॑ हासी॒दिन्द्रौ॑ज-
[[1605]]
प्रपा. ३ अनु. १ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अतिग्राह्यगतमन्त्राभिधानम्)
स्विन्नोज॒स्वी त्वं दे॒वेषु॒ भूया॒ ओज॑स्वन्तं॒
वर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु ब्रह्म॑णश्च त्वा क्ष॒-
त्रास्य॑ च [१] ओज॑से जुहोम्योजो॒विद-
स्योजो॑ मा॒ मा हा॑सी॒न्माऽहमोजो॑ हासिषं॒
मा मामोजो॑ हासी॒त्सूर्य॑ भ्राजस्विन्म्राज॒स्वी
त्वं दे॒वेषु॑ भूया॒ भ्राज॑स्वन्तं॒ मामायु॑ष्मन्तं॒ व-
र्च॑स्वन्तं मनु॒ष्ये॑षु कुरु वा॒योश्च॑ त्वा॒ऽमां च॒
भ्राज॑से जुहोमि सुव॒र्विद॑सि सुव॑र्मा॒ मा हा॑-
सी॒न्माऽहँ सुव॑र्हासिषं॒ मा माँसुवर्हासी॒-
न्मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो द-
धातु मयि मे॒धां मयि प्र॒जां मयीन्द्र॑ इन्द्रि॒यं
द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒
भ्राजो॑ दधातु (२)॥
(क्ष॒त्त्रस्य॑ च॒ मयि॒ त्रयो॑विँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
तृतीयप्रपाठके प्रथमोऽनुवाकः॥१॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
प्रतिनिर्ग्राह्यपर्यन्ताः पवमानग्रहादयः।
प्रपाठके द्वितीये तु मन्त्रयुक्ताः प्रपञ्चिताः॥
अथावशिष्टा मन्त्राद्यास्तृतीयेऽस्मिन्प्रपाठके।
उच्यन्ते वैकृताश्चान्ये समन्त्रा विधयः क्रमात्॥
[[1606]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(अतिग्राह्यगतमन्त्राभिधानम्)
कल्पः — “सहैवाध्वर्युणाऽऽग्नेयं प्रतिप्रस्थाताऽऽदत्त ऐन्द्रं नेष्टा सौर्यमुन्नेताऽग्ने तेजस्विन्नित्याग्नेयं प्रतिप्रस्थाता हुत्वा तेजोविदसीत्यनुमन्त्रयते” इति।
तत्र होममन्त्रापाठस्तु —
अग्ने तेजस्विन्निति। तेजः कान्तिर्वर्चो बलम्। दीक्षायास्तपसश्च संबन्धि यत्तेजस्तल्लाभार्थं हे आग्नेयातिग्राह्य त्वां जुहोमि। अनेन होमेन दीक्षानियमास्त पश्च निर्विघ्नेन सिघ्यन्त्वित्ययमभिप्रायः। अनुमन्त्रणमन्त्रपाठस्तु —
तेजोविदसीति। हेऽग्ने त्वं तेजोभिज्ञोऽस्यतस्त्वत्प्रसादात्तेजो मां मा परित्यजतु। अहमपि तेजो न परित्यक्तवानस्मि। तस्मात्सर्वथा तेजो मां मा परित्यजतु।
कल्पः — “इन्द्रौजस्विन्नित्यैन्द्रं नेष्टा हुत्वौजोविदसीत्यनुमन्त्रयते” इति।
पाठस्तु —
इन्द्रौजस्विन्निति। बलहेतुरष्टमो धातुरोजः। हे ऐन्द्रातिग्राह्य ब्राह्मण जातेः क्षत्त्रियजातेश्च संबन्धि यदोजो बलकारणं तदर्थं त्वां जुहोमि।
कल्पः “सूर्य भ्राजस्त्विन्निति सौर्यमुन्नेता हुत्वा सुवर्विदसीत्यनुमन्त्रयते” इति।
पाठस्तु —
सूर्य भ्राजस्विन्निति। शरीरकान्तेर्बहिर्भूता रश्मिरूपा दीप्तिर्भ्राजः। हे सौर्यातिग्राह्य वायोरपां च संबन्धि यद्भ्राजस्तदर्थं त्वां जुहोमि। हे सूर्य त्वं सुवर्विदसि स्वर्गमार्गाभिज्ञोऽसि।
कल्पः — “तान्हुत्वा सदसि प्रत्यङ्मखा भक्षयन्ति मयि मेधामित्येतैः स्वं स्वं यथालिङ्गम्” इति। पाठस्तु मयि मेधामिति।
मन्त्रतदर्थयोर्धारणसामर्थ्यं मेधा। अत्र विनियोगसंग्रहः
अग्नेऽतिग्राह्यमाग्नेयं हुत्वा तेज उपस्थितिः।
तथैन्द्रसौर्ययोर्भक्षेन्मयीति त्रीन्नवोदिताः॥
अत्र मीमांसा।
दशमाध्यायस्याष्टमपादे चिन्तितम् —
[[1607]]
प्रपा. ३ अनु.१ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अतिग्राह्यगतमन्त्राभिधानम्)
“नातिदेशोऽतिदेशो वा वह्न्यनिग्राह्ययोर्न सः।
विकृतौ पुनरुक्तत्वादेषोऽङ्गान्तरवद्भवेत्॥
प्रकृतेर्विकृतीनां च साम्याय स्यात्पुनर्वचः।
साम्ये च गुणकामानां प्रवृत्तिः प्रकृताविवि”
अनारभ्य श्रूयते- “य एवं विद्वानग्निं चिनुते” इति। “उपस्तम्भनं या एतद्यज्ञस्य यदतिग्राह्याः” इति। अतिग्राह्यसंज्ञका ग्रहा यज्ञस्योपष्टम्भकत्वादनुष्ठेया इत्यर्थः। अत्र चीयमानस्याग्नेरतिग्राह्याणां च विकृतिष्वतिदेशो नास्ति। कुतः। पुनरुक्तिवैयर्थ्यप्रसङ्गात्। विकृतौ ह्येवं पुनरुच्यते — “अथातोऽग्निमग्निष्टोमेनानुयजन्ति तमुक्थ्येन तमतिरात्रेण तं द्विरात्रेण तं त्रिरात्रेण” इत्यादि। अयमर्थः इष्टकचितमग्निमनु तम्मिंश्वचतेऽग्नावाग्निष्टोमाद्यनुष्ठानमिति। तथाऽग्निष्टोमः प्रकृतिः। उक्थ्यादयो विकृतयः। यदि विकृतिषु चोदकश्चितमग्निमतिदिशेत्तदानीमुक्थ्यादिषु चोदकादेव तत्प्राप्तेः पुनर्विधारमनर्थकं स्यात्। अतिग्राह्यश्चविकृतिषु पुनर्विधीयन्ते — “पृष्ठ्ये गृह्णीयात्” इति। तस्मात्पुनर्विधानार्थवत्त्वाय विकृतावग्न्यतिग्राह्यातिदेशो नास्तीति प्राप्ते ब्रूम-ऐन्द्रवायवादिग्रहादीनामङ्गान्तराणामुक्थ्यादिविकृतिषु यथाऽतिदेशोऽभ्युपगतस्तथाऽग्नियजनस्यातिग्राह्याणां चातिदेशः स्यात्। नह्यखण्डः सकृत्प्रवृत्तश्चोदकः कानिचिदङ्गान्यतिदिश्येतराण्यपेक्षत इति युक्तम्। अतिदेशप्राप्तानामपि पुनर्विधानं प्रकृतिविकृतिसाम्यार्थम्। यथा प्रकृतावतिग्राह्याणां प्रत्यक्षविधिस्तथा विकृतिष्वपीति तत्साम्यम्। न च साम्ये प्रयोजनाभावः। गुणकामप्रवृत्तेस्तत्प्रयोजनत्वात्। “श्येनचितं चिन्वति स्वर्गकामः” इत्यादिना श्येनाकारादिगुणफलभूतस्वर्गादिकामाः श्रुताः। ते चोपदिष्टमाश्रयमपेक्षन्ते। तस्मादथातोऽग्निनामिति वाक्येन प्रकृतावग्निष्टोमे कासुचिदुक्थ्यादिविकृतिषु चाग्निचयनलक्षण आश्रय उपदिश्यते। अन्यासु तु वाजपेयादिविकृतिषूपदिष्टस्याऽऽश्रयस्याभावादतिदिष्टस्य चानाश्रयत्वाद्गुणकामानां नास्ति प्रवृत्तिः। तस्मात्पुनर्विधानवैयथ्यार्भावादस्त्यतिदेशः॥
[[1608]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(स्तोत्रोपाकरणप्रतिगराङ्गमन्त्राभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
तृतीयप्रपाठके प्रथमोऽनुवाकः॥१॥