११

[अथ तृतीयकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः]।

प्र सो अ॑ग्ने॒ तवो॒तिमिः॑ सु॒वीरा॑भिस्तरति॒
वाज॑कर्मभिः। यस्य॒ त्वँ स॒ख्यमावि॑थ।
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये भरता बृ॒हत्। वि॒-
पां ज्योतीँ षि॒ विभ्र॑ते॒ न वे॒धसे॑। अग्ने॒ त्री
ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा
ऋतजात पू॒र्वीः। तिस्र उ॑ ते त॒नुवो॑ दे॒ववा॑-
ता॒स्तामि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन्। सं

[[1600]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(त्रैधातवीयेष्टिविषयमन्त्राभिधानम्)

वां कर्मणा॒ समि॒षा (१) हि॒नो॒मीन्द्रा॑वि-
ष्णु॒ अपसस्पा॒रे अ॒स्य। जु॒षेथां॑ य॒ज्ञं द्रवि॑णं
च धत्तमरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता। उ॒भा
जि॑ग्यथु॒र्न॑ परा॑ जयेथे॒ न परा॑ जिग्ये कत॒-
रश्च॒नैनोः॑। इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां
त्रे॒धा सहस्रं॒ वि तदै॑रयेथाम्। त्रीण्यायूँ षि॒
तव॑ जातवेदस्ति॒स्र आ॒जानीरु॒षस॑स्ते अग्ने।
ताभि॒र्देवाना॒मावो॑ यक्षि वि॒द्वानथ [ २ ] भ॒व॒
यज॑मानाय॒ शं योः। अ॒ग्निस्त्रीणि॑ त्रि॒धातू-
न्या क्षे॑ति वि॒दथा॑ क॒विः। स त्रीँ रे॑काद॒-
शाँ इ॒ह। यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑
दू॒तः परि॑ष्कृतः। नभ॑न्तामन्य॒के स॑मे। इ-
न्द्रा॑विष्णू दृँहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो
नव॒तिं च॑ श्नथिष्ठम्। श॒तं व॒र्चिनः॑ स॒हस्रं॑
च सा॒कँ ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान्। उ॒-
त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति
पुत्र दे॒वाः। अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्य-
न्त्सखे विष्णो वित॒रं वि क्र॑मस्व [ ३ ]॥

(इषा॒ऽथ॑ त्वा॒ त्रयो॑द॒श च )।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके एकादशोऽनुवाकः॥११॥

[[1601]]

प्रपा. २ अनु.११ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(त्रैधातवीयेष्टिविषयमन्त्राभिधानम्)

यो वै पव॑मानानां॒ त्रीणि॑ परि॒भूः स्फ्यः स्व॒स्तिर्भक्षेहि॑ मही॒नां पयो॑ऽसि देव॑ सवितरे॒तत्ते॑ श्ये॒नाय॒ यद्वै होतोपया॒मगृहीतोऽसि वाक्ष॒सद॑सि॒ प्र सो अ॑ग्न एका॑दश॥११॥

यो वै स्फ्यः स्व॒स्तिः स्वा॒धायै॒ नमः॒ प्र मु॑ञ्च तिष्ठ॑तीव॒
षट्च॑त्वारिँ शत्॥४६॥

हरिः॑ ॐ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयः प्रपाठकः॥२॥

(अथ तृतीयकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः)।

प्रतिनिर्ग्राह्यमन्त्रास्तु दशमे परिकीर्तिताः।
अथैकादशे त्रैधातवीयेष्टिविषया मन्त्रा उच्यन्ते।

कल्पः — “प्र सो अग्न इत्युष्णिहककुभौ धाय्ये दधान्तग्ने त्रीते वाजिना त्री षधस्थेति त्रिवत्या परिदधाति सं वां कर्मणोभा जिग्यथुरिति याज्यानुवाक्ये उत्तरे संयाज्ये” इति। धाय्ययोः प्रथमामाह —

प्र सो अग्न इति। हेऽग्ने यस्य यजमानस्य त्वं सख्यमाविथ सखिवत्स्नेहं पालितवानसि स यजमानस्तवोतिभिः पालनैः प्रकर्षेण तरति संसारक्लेशमतिवर्तते। कीदृशीभिरूतिभिः। सुवीराभिः। शोभनपुत्राद्यापत्यहेतुभिः। वाजकर्मभिः, अन्न निमित्तानि कर्माण्युद्योगा यासामूतीनां ता वाजकर्माणस्ताभिः। द्वितीयां धाय्यामहा —

प्र होत्र इति। हे ऋत्विजो यूयमग्नये वचः स्तुतिरूपं वाक्यं प्रकर्षेण भरत पोषयत। कीदृशं वचः। पूर्वैर्ऋषिभिः पठितं ब्रहत्प्रौढं विपां विशेषेणास्माकं पालकम्। कीदृशायग्नये। होत्रे होमनिष्पादकाय। वेधसेऽस्मद्धितस्य विधात्रे। अग्नेर्दृष्टान्तः- ज्योतिँषि विभ्रते नेति। यथा रश्मिरूपाणि ज्योतिषि धारयित्रे सूर्याय स्तुतिं कुर्वन्ति तद्वदित्यर्थः। अथ परिधानीयामाह —

[[1602]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(त्रैधातवीयेष्टिविषयमन्त्राभिधानम्)

अग्ने त्री त इति। हेऽग्ने ते तव त्री वाजिना त्रयः पुरोडाशा भवन्तीति तस्यामिष्टौ विहितत्वात्त्रीण्यन्नानि यद्वा सोमौषधिसांनाप्यरूपाणि त्रीणि। तथा त्री शधस्था सहस्थानानि त्रीणि परस्परयुक्तानि लोकत्रयरूपण्याहवनीयगार्हपत्यदक्षिणाग्निरूपाणि वा। हे ऋतजात *ऋताज्ज्ञानात्मनः समुत्पन्न ते तव पूर्वीः पूर्वसिद्धा जिह्वास्रिस्र सात्त्विकराजसतामसरूपा इष्टप्राप्त्यनिष्टपरिहाराभिचारहेतव उ अपि च देववाता देवैर्वाताः प्राप्तास्ते तव तनुवस्तिस्रस्ताभिस्तनूभिरग्नि विद्युदादित्यरूपाभिर्नोऽस्मान्पाहि। किं कुर्वन्। गिरो अप्रयुच्छन्नस्मदीयाः स्तुतिरप्रमादयन्नस्माभिः कृतं प्रमादं परिहरन्नित्यर्थः। अथ पुरोनुवाक्या–

सं वां कर्मणेति। हे इन्द्राविष्णू वा युवामनेन कर्षणा संहिनोमि सम्यक्प्रीणयामि। इषा हविर्लक्षणेनान्नेन च संहिनोमि। किंनिमित्तमिति तदुच्यते अस्यापसः पारेऽनुष्ठीयमानस्य कर्मणः पारनिमित्तमविघ्नेन परिसमाप्त्यर्थम्। किंच, अस्मदीयमिमं यज्ञं जुषेथामस्मभ्यं च द्रविणं संपादयतः। किं कुर्वन्तौ। अरिष्टैर्नः। पथिमिः पारयन्ता विनाशरहितैरनुष्ठानमार्गैरस्मान्कर्मणः पारं प्रापयन्तौ। अथ याज्यामाह —

उभा जिग्यथुरिति। हे विष्णो, इंद्रश्च त्वं चोभो जियथर्जयं प्राप्तवान्तौ न पराजयेथे कदाऽपि पराजयं न प्राप्नुथः। एनोरनयोरुभयोर्मध्ये कतरश्चना न्यतरोऽपि न पराजिग्ये पराजयं न प्राप्तवान्। यद्यदा युवामुभावपस्पृधेयां स्पर्धां कुर्यातां त्वं तत्तदा सहस्रं दक्षिणारूपेण दातव्यं गोसहस्रं त्रिधा विभज्यैरयेथां नीतवन्तौ। अयं च विभागः सप्तमकाण्डे स्पष्टमाम्नातः।

अथ स्विष्टकृतः पुरोनुवाक्यरूपां संयाज्यामाह —

त्रीण्यायूऽँषीति। हे जातवेदस्तावाऽऽयूंषि आयुर्वृद्धिकारणानि हर्वींषि सोमसांनाय्यपुरोडाशरूपेण त्रीणि। हेऽग्ने ते तवोषस उषःकालसदृश्य आजा नीराविर्भावरूपा ज्वालास्तिस्र आहवनीयादिषु त्रिषु स्थानेषु त्रिविधास्ताभिर्ज्वालाभिर्देवानामवो रक्षकं हविर्विद्वान्यक्षि यज। अथानन्तरं यजमानाय शं भव सुखप्रदो भव। मोर्भव दुःखवियोजको भव। अथ स्विष्टकृतो याज्यारूपां संयाज्यामाह —

  • ऋतासत्यात्परमात्मन इति ख. पुस्तकस्थपाठन्तरम्।

[[1603]]

प्रपा. २ अनु.११ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(त्रैधातवीयेष्टिविषयमन्त्राभिधानम्)

अग्निस्रीणीति। कविर्विद्वानयमाग्निर्विदथेषु यज्ञेषु त्रीणि हवींष्याक्षेति सर्वतः प्राप्नोति। “त्रयः पुरोडाशा भवन्ति” इत्युक्तत्वाद्धविषां त्रित्वम्। कीदृशानि त्रीणि हवींषि। त्रिधातूनि ‘उत्तरउत्तरो ज्यायान्भवति” इत्युक्तत्वात्रिप्रकारांणि। सोऽग्निरिहास्मिन्कर्मण्येकादशभिर्देवैरुपेतांस्त्रीन्गणांस्तर्पयत्विति शेषः। मे देवा दिव्येकादश स्थ” इत्यनुवाके गणत्रयं विस्पष्टमाम्नातम्।

अथ तत्रैव विकल्पितरूपां संयाज्यामाह —

यक्षच्चेति। अग्निर्देवानां दूत आसीदित्युक्तत्वाद्दूतरूपोऽयमग्निर्यक्षञ्च देवान्यक्षतु च। ब्राह्मणजात्यभिमानित्वाद्विप्ररूपोऽयमग्निनोऽस्मान्पिप्रयञ्च प्रीणयतु च। ब्राह्मणजात्यभिमानित्वाद्विप्ररूपोऽयमग्निर्नोऽस्मान्पिप्रयच्च प्रीणयतु च। कीदृशोऽग्निः। परिष्कृतो दूतत्वचिन्हैरलंकृतः। अन्यशब्दः शत्रुवाची। कप्रत्ययः कुत्सितार्थे। समशब्दः सर्वशब्दपर्यायः। अन्यके समेऽस्मत्तोऽन्ये कुत्सिताः सर्वेऽपि नभन्तां नश्यन्तु।

अथ प्रधानहविषो विकल्पितां पुरोनुवाक्यामाह —
इन्द्राविष्णू इति। हे इन्द्राविष्णू शम्बरनामकस्यासुरस्य संबन्धिन्यः पुरो नगरीः श्नथिष्टं युवा नाशितवन्तौ। कियतीर्नेगरीः। नव नवतिं च।एकोनशतसंख्याका इत्यर्थः। कीदृशीः। दृँहिता दृढाः। किंच, असुरस्य संबन्धिनो वर्चिनो दीप्तिमतः शतं सहस्रं च वीरान्प्रधानभूतानमात्यादीन्प्रति पक्षराहित्यं यथा भवति तथा साकं हथः।

अथ तत्रैव विकल्पितां याज्यामाह —

उत मातेति। उत मातेन्द्रस्य देवस्य माता महिपं महान्तमिन्द्रमन्ववेनदनुक्रमेण ज्ञापितवतीत्यर्थः। कथं ज्ञापितवतीति तदुच्यते-हे पुत्रेन्द्र त्वयि शत्रून्हत्वा तूष्णीं स्थिते सति सर्वेऽप्यमी देवास्त्वां जहति परित्यजन्तीति। अथ मातृबोधानादूर्ध्वमिन्द्रो वृत्रं हनिष्यन्वधोद्युक्तो विष्णुं प्रत्येतदब्रवीत्-हे सखे विष्णो वितर विक्रमस्व विशिष्टतरं पराक्रमं कुरु शीघ्रं वृत्रं जहीति। तथाविधौ हे इन्द्राविष्णू अस्मादभीष्टं संपादयतामिति तात्पर्यार्थः।

अत्र विनियोगसंग्रहः —

[[1604]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(अतिग्राह्यगतमन्त्राभिधानम्)
प्र सो त्रैधातवीयेष्टौ द्वे धाम्ये अग्न इत्यसौ।
तत्रैव परिधानीया ह्यनुवाक्या समित्यसौ॥
उभेति याज्या त्रीणीति संयाज्यास्तिस्र ईरिताः।
इन्द्रानुवाक्योत याज्या दश मन्त्रा इहोदिताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके एकादशोऽनुवाकः॥११॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्वतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयः प्रपाठकः॥२॥