१०

[अथ तृतीयाष्टके द्वितीयप्रपाठके दशमोऽनुवाकः]।
उ॒प॒या॒मगृ॑हीतोऽसि वाक्ष॒सद॑सि वा॒क्पाभ्यां॑

[[1596]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(प्रतिनिर्ग्राह्यमन्त्राभिधानम्)
त्वा ऋतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑-
क्षाभ्यां गृह्णाम्युपया॒मगृ॑हीतोऽस्यत॒सद॑सि
चक्षु॒ष्पाभ्यां॑ त्वा ऋतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒-
वस्याध्य॑क्षाम्यां गृह्णाम्युपया॒मगृ॑हीतोऽसि
श्रुत॒सद॑सि श्रोत्र॒पाभ्यां॑ त्वा क्रतु॒पाभ्या॑मस्य
य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णामि दे॒वेभ्य॑
स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒
विष्ण॑वृरुक्रमै॒ष ते॒ सोम॒स्तँ र॑क्षस्व [ १ ]
तं ते दु॒श्चक्षा॒ माऽव ख्य॒न्मयि॒ वसुः॑ परो॒व-
सु॑व्रा॒क्पा वाचं॑ मे पाहि॒ मयि॒ वसु॑र्वि॒दद्व॑सु-
श्चक्षु॒ष्पाश्चक्षु॑र्म पाहि॒ मयि॒ वसुः॑ सं॒यद॑वसुः
श्रोत्र॒पाः श्रोत्रं॑ मे पाहि॒ भूरसि॒ श्रेष्ठो॑ रश्मी॒-
नां प्रा॑ण॒पाः प्रा॒णं मे॑ पाहि॒ धूरीस॑ श्रेष्ठो र-
श्मी॒नाम॑पान॒पा अ॑पा॒नं मे॑ पाहि॒ यो न इ-
न्द्रवायू मित्रावरुणावाश्विनावाभि॒दास॑ति॒ भ्रा-
तृ॑व्य उ॒त्पिपी॑ते शुभस्पती इ॒दम॒हं तमध॑रं
पादयामि॒ यथे॑न्द्राहमु॑त्तमश्चेतया॑नि [ २ ]॥
(र॒क्ष॒स्य॒ भ्रातृ॑व्य॒स्त्रयोद॑श च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके दशमोऽनुवाकः॥१०॥

[[1597]]

प्रपा.२ अनु.१० कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(प्रतिनिर्ग्राह्यमन्त्राङिधानम्)

(अथ तृतीयकाण्डे द्वितीयप्रपाठके दशमोऽनुवाकः)।
उक्तः प्रतिगरः साङ्ग समन्त्रो नवमे स्फुटम्।
अथ दशमे प्रतिनिर्गाह्यमन्त्रा उच्यन्ते।
कल्पः — ‘उपयामगृहीतोऽसि वाक्षसदसीति प्रतिनिर्ग्राह्यं गृहीत्वा न सादयति” इति। पाठस्तु — उपयामेति।
हे प्रतिनिर्गाह्य त्वमुपयामेन पार्थिवपात्रेण गृहीतोऽसि। वाक्षो वागिन्द्रियं तत्रावस्थितोऽसि। वाग्वा एषा यदेन्द्रवायवः” इति श्रुतेः। तादृशं त्व वाचः पालकाभ्यां क्रतोर्यज्ञस्य पालकाभ्यां घ्रुवस्याविनाशिनोऽस्य यज्ञस्याध्यक्षाभ्यां स्वामिभ्यामिन्द्रवायुभ्यां गृह्णामि तदर्थं गृह्णामीत्यर्थः।
कल्पः — ‘ग्रहाणां प्रतिनिर्ग्राह्याणां ग्रहणादित्योपस्थानावनयनप्रदाना-न्यूत्तरोत्तरैर्मन्त्रैः” इति।
अस्यायमर्थः — प्रतिनिर्ग्राह्यनामका ये ग्रहा ऐन्द्रवायवमैत्रावरुणाश्-विनसंबन्धिनस्तेषां ग्रहणादिक्रियाऽऽम्नानक्रमेणोत्तरैर्मन्त्रेद्रष्टव्येति।
तत्रैन्द्रावायवप्रतिनिर्ग्राह्यस्य ग्रहणमन्त्र उक्तः। मैत्रावरुणप्रतिनिर्ग्राह्यस्य ग्रहणमन्त्रः —
उपयामेति। ऋतं सत्यं यज्ञो वा तत्र सीदतीत्यृतसत्।
आश्विनप्रतिनिर्ग्राह्यमन्त्रः —
उपयामेति। श्रुतं श्रोत्रेन्द्रियं तत्र सीदतीति श्रुतसत् “चक्षुर्मैत्रावरुणँ-श्रोत्रमाश्विनम्” इति श्रुत्यन्तरात्।
देवेभ्यस्त्वेति। कल्पः — “देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थाताऽऽदि-त्यस्थाल्यां संपातमवनीय” इति।
हे ऐन्द्रवायमप्रतिनिर्गाह्य देवार्थं त्वामवनयामीति शेषः। एवं विश्वदेवे-भ्यस्त्वा देवेभ्य इति मन्त्राभ्यामुत्तरयोः संपातावनयनं कुर्यात्। गणप्राधान्येन विश्वदेवेभ्य इति समासनिर्देशः। प्रत्येकप्राधान्येन विश्वेभ्य इति व्यासनिर्देशः।
विष्णाविति। कल्पः — “विष्णवृरुक्रमैष ते सोमस्तँ रक्षस्वेत्यादित्य-पात्रेण प्रतिप्रस्थाताऽऽदित्यस्थालीमपिदधाति” इति।

[[1598]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(प्रतिनिर्ग्राह्यमन्त्राभिधानम्)

तं ते दुश्चक्षा माऽव ख्यदित्येव आम्नातो मन्त्रशेषः।
हे उरुक्रम विष्णो रक्षणार्थमेष सोमस्तवाधीनः। अतस्तं रक्षस्व। तं ते त्वदीयं सोमं दुश्चक्षाः पापदृष्टिः पुरुषो माऽवख्यान्मा द्राक्षीत्।

कल्पः — “ग्रहमध्वर्युरादाय क्षिप्रँ होतारमतिद्रुत्य मयी वसुः पुरोवसुरिति ग्रहँ होत्रे प्रयच्छति” इति। पाठस्तु —
मयि वसुरिति। वसुर्धनरूपः सोमो मयि वर्तते। स कीदृशः। पुरोवसुः पुरस्कृतेतरसमस्तधनः। यद्वा पुरस्तात्प्राणादीनां वासयिता। यथाविधस्त्वं वाक्पा वाचः पालकः। अतो मम वाचं पाहि।
यथाऽनेन मन्त्रेणैन्द्रवायवग्रहो होत्रे दत्त एवमुत्तराभ्यां मन्त्राभ्यां मैत्रावरुणाश्विनग्रहौ देयौ। तयोः पाठस्तु —
मयि वसुरिति। विदद्वसुर्लब्धसमस्तधनः। संयद्वसुः प्राप्तसमस्तधनः।
भूरसि श्रेष्ठ इति। कल्पः — “हुते चाऽदित्यमुपतिष्ठते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहीति” इति।
हे हस्तस्थ सोम त्वं भूरसि सखानां भावयिताऽसि। अतो रश्गीनां सुखप्रकाशकानां वस्तूनां मध्ये त्वं श्रेष्ठोऽसि। त्वमेव प्राणस्य फलकस्तस्मान्मे प्राणं पाहि पालय।
यथाऽनेन मन्त्रेणैन्द्रवायवग्रहहोमादूर्ध्वमादित्योपस्थानं तथैवोत्तरेण मन्त्रेणमैत्रावरुणग्रहहोमादूर्ध्वमादित्यमुपतिष्ठते। पाठस्तु —
धूरसि श्रेष्ठ इति। हे मैत्रावरुण ग्रह त्वं धूरसि दुःखानां हिंसिताऽसि। शेषं पूर्ववत्।आश्विनग्रहहोमादूर्ध्वभावी तूपस्थानमन्त्रः शाखान्तरे द्रष्टव्यः।
कल्पः — “यदि मन्येत यजमानः पूर्वो माऽतिक्रान्तो भ्रातृव्य इति प्राग्वोनादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू अभिदासतीति” इति। पाठस्तु —
भो न इन्द्रेति। हे इन्द्रवायू यो भ्रातृव्यो नोऽस्मानभिदासति हिनस्ति, उत्पिपीतोऽस्मानुल्लङ्घ्य सोमं पिबति हे शुभस्पती शुभस्य कर्मणः पालयिदारौ तं भ्रातृव्यमहमधँ पादयाम्यपकृत्य पातयामि। इदमितिशब्देन तर्जन्याऽङ्गुल्याऽङ्गु-

[[1599]]

प्रपा. २ अनु.१० कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(त्रैधातवीयेष्टिविषयमन्त्राभिधानम्)
ष्ठेनावग्रहणमभिनीय प्रदर्श्यते। हे इन्द्र यथाऽहं भ्रातृव्यादुत्तमः संश्चेतयानीहलोकज्ञानवान्भूयासं तथा त्वमनुगृहाणेति शेषः। मित्रावरुणाविति द्वितीयमन्त्रेऽश्विनाविति तृतीयमन्त्रे च शेषं सर्वमनुषज्य व्याख्येयम्।

अत्र विनियोगसंग्रहः —

उपेति प्रतिनिर्ग्राह्या ग्रहीतव्यास्त्रिभिः क्रमात्।
देवेभ्यो निनयच्छेषांस्त्रिभिरादित्यपात्रके॥
विष्णो तत्पात्रमाच्छाद्य द्विदेवत्यग्रहानपि।
होत्रे दद्यात्त्त्रिभिः सूर्यमुपतिष्ठेत भूर्द्वयात्॥
यो नस्त्रिभिस्तर्जनीं तामङ्गुष्ठेनोपपीडयेत्।
इन्द्रमित्राश्विभिर्भिन्ना मन्त्राः पञ्चदशात्र ते॥
त एते मन्त्रा ऋतुग्रहानुवाकात्पूर्वं द्रष्टव्याः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके दशमोऽनुवाकः॥१०॥