(अथ तृतीयाष्टके द्वितीयप्रपाठके नवमोऽनुवाकः)।
यद्वै होता॑ऽध्व॒र्युम॑भ्याह्वय॑ते वज्र॑मन॒भि प्र
व॑र्तय॒त्युक्थ॑शा॒ इत्या॑ह प्रातःसव॒नं प्र॑ति॒गीर्य॒
त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रं
प्रा॑तः सव॒नं गा॑यत्रि॒यैव प्रा॑तःसव॒ने वज्र॑म॒न्त-
र्धत्त उ॒क्थं वा॒चीत्या॑ह॒ माध्यंदि॑नँ सव॑नं
प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षराणि॒ चतु॑ष्पदा
त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्यं॑दिनँ॒ सव॑नं त्रि॒ष्टुमै॒व
माध्यं॑दिने॒ सव॑ने॒ वज्र॑मन्तर्ध॑त्ते [१ ] उ॒क्थं
वा॒चीन्द्रा॒येत्याह तृतीयसव॒नं प्र॑ति॒गीर्य॑ स॒प्तै-
तान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो व
ज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तघ॑त्ते ब्र-
ह्मवा॒दिनो॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युः स्या॒द्यो
य॑थासव॒र्न प्र॑तिग॒रे छन्दाँसि संपा॒दये॒त्तेजः॑
प्रातःसव॒न आ॒त्मन्दधा॑तेन्द्रि॒यं माध्यं॑दिने॒
सवने प॒शूँ स्तृ॑तीयसव॒न इ॒त्युक्थ॑शा॒ इत्या॑ह
प्रातासव॒नं प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॑क्षरा॑णि
[२] त्रि॒पदा॑ भाय॒त्री गा॑य॒त्रं प्रा॑तःसव॒नं
प्रा॑तःसव॒न ए॒व प्र॑तिग॒रे छन्दाँ सि॒ संपा॑द-
य॒त्यथो॒ तेजो॒ वै गा॑य॒त्री तेजः॑ प्रातःसव॒नं
तेज॑ ए॒व प्रा॑त सव॒न आ॒त्मन्ध॑त उ॒क्थं वा॒ची-
त्या॑ह॒ माध्यं॑दिनँ॒ सव॑नं प्रति॒गीर्यं॑ च॒त्वार्ये॒-
[[1590]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३तृतीयकाण्डे-
(प्रतिगरानन्तरभाविमन्त्राभिधानम्)
तान्य॒क्षराणि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्यं॑-
दिनँ॒ स॑वनं॒ माध्यं॑दिन ए॒व सव॑ने प्रतिग॒रे
छन्दाँसि॒ सं पा॑दय॒त्यथो॑ इन्द्रि॒यं वै त्रि॒-
ष्टु॒गि॑न्द्रि॒यं माध्यं॑दिनँ॒ सव॑नम् [ ३ ] इ॒-
न्द्रि॒यमे॒व माध्यं॑दिने सव॑न आ॒त्मन्ध॑त्त उ॒-
क्थं वा॒चीन्द्रा॒योत्या॑ह तृतीयसव॒नं प्र॑ति॒गीर्य॑
स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राः
प॒शवो॒ जाग॑तं तृतीयसव॒नं तृतीयसव॒न ए॒व
प्र॑तिग॒रे छन्दाँ॑ सि॒ सं पा॑दय॒त्यथो॑ प॒शवो॒
वै जगती प॒शव॑स्तृतीयसव॒नं प॒शूने॒व तृ॑तीय-
सव॒न आ॒त्मन्ध॑त्ते॒ यद्वै होता॑ऽध्व॒र्युम॑भ्या॒ह्व-
य॑त आ॒व्य॑मस्मिन्दधाति॒ तद्यन्न ( ४ ) अ॒-
प॒हनी॑त पु॒राऽस्य॑ संवत्स॒राद्गृ॒ह आ वेवीर॒-
ञ्छोँसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑
हते॒ यथा॒ वा आय॑तां प्र॒तीक्ष॑त ए॒वम॑ध्व॒र्युः
प्र॑तिग॒रं प्रती॑क्षते॒ यद॑भिप्रतिगृणी॒याद्यथाऽऽय॑-
तया समृ॒च्छते॑ ता॒दृगे॒व तद्यद॑र्ध॒र्चाल्लुप्येत॒
यथा॒ धाव॑द्भ्यो॒ हयि॑ते ता॒दृगे॒व तत्प्र॒बाहुग्वा
ऋ॒त्विजा॑मुद्गी॒थ उ॑द्गी॒थ ए॒वोद्गा॑तृणाम् [ ५ ]
ऋ॒चः प्र॑ण॒व उ॑क्थशँ॒ सिनां॑ प्रतिग॒रो॑ऽध्व
र्यू॒णां य ए॒वं वि॒द्वान्प्रतिग॒णात्य॑न्ना॒द ए॒व
[[1591]]
प्रपा.२ अनु.९ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(प्रतिगरान्तरभाविमन्त्राभिधानम्)
भ॑व॒त्याऽस्य॑ प्र॒जायां॑ वा॒जी जा॑यत इ॒यं वै
होता॒ऽसाव॑ध्व॒र्युर्यदासीनः॒ शँ स॑त्य॒स्या ए॒व
तद्धोता॒ नैत्यास्त॑ एव॒ हीयमथो॑ इ॒मामे॒व
तेन॒ यज॑भानो दु॒हे यत्तिष्ठ॑न्प्रतिगृ॒णात्य॒मुष्या
ए॒ब तद॑ध्व॒र्युर्नैति॑ [६] तिष्ठ॑तीव॒ ह्य॑सावथो॑
अ॒मूमे॒व ते॒न यज॑मानो दुहे॒ यदासि॑नः॒ शँ
स॑ति॒ तस्मा॑दि॒तःप्र॑दानं दे॒वा उप॑ जीवन्ति॒
यत्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑द॒मुतः॑प्रदानं मनु-
ष्या॑ उप॑ जीवन्ति॒ यत्प्राङासनिः॒ शँस॑ति
प्र॒त्यङतिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑त्प्रा॒ची॒नँ रेतो॑
धीयते प्र॒तीची॑ प्र॒जा जा॑यन्ते॒ यद्वै होता॑ऽ-
ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑भे॒नम॒भि प्र वर्तयति॒
परा॒ङा व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति (७ )॥
(सव॑ने॒ वज्र॑म॒न्तर्ध॑त्ते॒ त्रीणये॒तान्य॒क्षरा॑णीन्द्रि॒यं माध्यंदिनँ॒ सव॑नं॒
नोद्गा॑तृ॒णाम॑ध्व॒र्युर्नैति॑ वर्तयत्य॒ष्टौ च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके नवमोऽनुवाकः॥९॥
(अथ तृतीयकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः)।
उक्ताः प्रस्थितयाज्यारूपहोमाद्या अष्टमेऽखिलाः।
अथ नवमे प्रतिगरानन्तरभाविमन्त्रा वक्तव्याः। शंसितुर्मन्त्रेण प्रोत्साहनं प्रतिगरस्तस्य प्रतिगरस्यानन्तरभाविषु मन्त्रेषु प्रथमपुत्पाद्य विनियुङ्क्ते —
[[1592]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे-
(प्रतिगरामन्तरभाविमन्त्राभिधानम्)
यद्वै होतेति। यदाशंसनकाले होताऽध्वर्युनाभिमुख्येनाह्वयति। आह्वान मन्त्रस्तु र्शोसावोमिति। तस्मायमर्थः — हेऽध्वर्यो शस्त्र पठानि मदीयशस्रपाठकाले प्रातेगराय त्वं सावधानो भवेति पदेन यदध्वर्युं प्रति होतुराह्वानं तदेतद्वज्रप्रहरमयं होता करोति। तस्माद्भोतृप्रयुक्तवज्रप्रहारं समाधातुं प्रातःसवनप्रतिगरादूर्ध्वमुख्थशा इति मन्त्रेण होतारं स्तुवीत। उक्थं शस्नं शंसतीत्युक्थशाः सम्यक्शंसितवानसीति मन्त्रार्थः। प्रतिगंरप्रकारस्त्वापस्तम्बेन दर्शितः — “अध्वर्युः सदो बिले प्राङ्मुख उपविश्येडा देवहूरिति शस्त्रं मतिगरिष्यञ्जपत्यध्वर्यो शोंसावोमिति होतुरभिज्ञाय प्रदक्षिणमावर्तमानः शोंसामादैवेति प्रत्याह्वयते शंसामोद इवेति वा” इति। प्रतिगर्तुं पात्रं धारयमाणः सदोबिले प्रत्यङ्तिष्ठन्संबोधनमाश्रुत्य होतारं प्रत्याह्वयते। हे होत शोंसा सर्वथैव मोद एवास्माकं त्वदीयेन प्रतिगरणेति मन्त्रार्थः। ऋचि समाप्तायामयमेव प्रतिगरः प्रणवादिः पठ्यत। अस्त्विति प्रणवस्यार्थः। कृस्नशस्त्रसमाप्तावङ्गीकारवाचिना प्रणवेनैव प्रतिगरः। प्रत्युत्तरकथनं प्रतिगरशब्देनोच्यते। प्रातःसवने यानि शस्त्राणि तेषां सर्वेषां प्रतिगरमुक्त्वा तदवसाने त्र्यक्षरमुक्थशा इति मन्त्रं पठेत्। अत्राक्षरगतत्रित्वेन त्रिपदा गायत्री स्मार्यते। तया च गायत्र्या तद्युक्तं प्रातःसवनं स्मर्यते। पातःसवने स्मृतया गायत्र्यैव होतृप्रयुक्तं वज्रमन्तर्हितं करोति। अथ मन्त्रान्तरमुत्पाद्य विधत्ते —
उक्थं वाचीति। पूर्ववद्व्याख्येयम्। उक्थं शस्त्रं त्वदीयायां वाचि सम्यक्प्रवृत्तमिति मन्त्रार्थः। पुनरपि मन्त्रान्तरमुत्पाद्य विधत्ते —
उक्थं वाचीति। वज्रो वै शक्वरीत्युक्तत्वाद्वज्रस्य शाक्वरत्वम्। अनेन सप्ताक्षरेण शाक्वरेण वज्रेण होतृप्रयुक्तं वज्रमन्तर्हितं करोति।
अथ विहितं मन्त्रत्रयं प्रकारान्तरेण प्रशंसितुमुपोद्धातमाह —
ब्रह्मवादिन इति। यः पुरुषः सवनानरूपेण च्छन्दांसि कर्तुं जानाति प्रातः सवने गायत्री माध्यंदिने सवने त्रिष्टुप्तृतीयसवने जगतीत्येवंविधानि च्छन्दांसि। तानि च प्रतिगरेऽमिहिते सति पश्चात्संपादनीयानि। एतत्संपादने यः सगर्थः स एव मुख्योऽध्वुर्युः स्यात्। किंच प्रातःसवने समाप्ते सति स्वात्मनि यस्तेजो
[[1593]]
प्रपा.२ अनु.९ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(प्रतिगरान्तरभाविमन्त्राभिधानम्)
धारयेन्माध्यंदिने समाप्ते सतीन्द्रियं धारयेत्तृतीयसवने समाप्ते सति पशून्धारयेत्स एव मुख्योऽध्वर्युरित्येवं ब्रह्मवादिनः परस्परमाहुः।
तत्र प्रथममन्त्रेण सवनोचितछंदः संपात्तिं तेजोधारणं च दर्शयति —
उक्थशा इति। प्रातः सवनगतानां स्तोत्रशास्त्राणां गायत्रीछन्दस्कत्वात्प्रातःसवनस्य बहिष्पवमानगता उपास्मै गायतेत्याद्या आज्यस्तोत्रगता अग्न आयाहीत्याद्याश्च गायत्रीछन्दस्काः। तथा शस्त्रोष्वपि द्रष्टव्यम्। गायत्र्युपदेशेन ब्राह्मण्यसंपूर्तेर्गायत्र्यास्तेजोरूपत्वम्।
द्वितीयमन्त्रेणोचितच्छन्दः संपत्तिमिदन्द्रियधारणं च दर्शयति —
उक्थं वाचीति। माध्यंदिनपवमाने प्र तु द्रवेति सूक्तस्य त्रिष्टुप्छन्दस्कत्वात्तत्सवनं त्रैष्टुभं प्रजापतेरुरसो बाहुभ्यां चेन्द्रेण सहोत्पन्नत्वादिन्द्रसृष्टस्येन्द्रियस्य त्रिष्टुप्त्वम्।
तृतीयसवनोचितच्छन्दःसंपत्तिं पशुप्राप्तिं च सप्ताक्षरमन्त्रेण दर्शयति —
उक्थं वाचिति। शक्वरीजगत्योः पशुप्राप्तिहेतुत्वं सवनगतस्तोत्रशस्त्रर्चां जगतीछन्दस्कत्वात्तत्सवनं जागतम्। अतः शक्वरीद्वारा सवनोचितच्छन्दःसंपत्तिस्तृतीयसवनस्य पशुप्राप्तिहेतुतया पशुत्वम्। अथ प्रत्याह्वानं विधत्ते —
यद्वै होतेति। आ समन्ताद्व्यते पीड्यते येन रोगविशेषेण स रोगविशेष आव्यः। यदा होताऽध्वर्युं संबोध्य शोंसावोमिति प्रष्टुमाभिमुख्येनाऽऽह्वयते तदानीमस्मिन्नध्वर्यौ रोगविशेषं स्थापयति। सावधानत्वहेतोश्चित्तक्लेशस्योपद्रवत्वात्। तद्रोगस्थापनं यद्यध्वर्युर्नापहनीत न निराकुर्यातदानीमस्याध्वर्योर्गृहे संवत्सरात्पुरैव प्रजा आवेवीरन्सर्वरोगादिभिः पीड्येरन्। ततस्तत्परिहाराय शोँसा मोद इवेति मन्त्रेणाध्वर्युः प्रत्याह्वानं कुर्यात्। तेनैव प्रत्याह्वानेन तदभ्याह्वानं कृतं रोगजातमपहते विनाशयति। प्रश्नरूपस्याऽऽह्वानस्य प्रत्युत्तररूपमाह्वानं परिहारः। मन्त्रस्यायमर्थः — हे होतस्त्वं शोंसा सर्वथा शंसैव माद इवास्माकं हर्ष इव हर्ष एवेति। इदानीमध्वर्योरप्रमत्तत्वं विधत्ते —
[[1594]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(प्रतिगरानन्तरभाविमन्त्राभिधानम्)
यथा वा इति। यथा लोके पृच्छन्तं वादिनं प्रत्याभिमुख्येन नियतां वाचं वक्तुं प्रतिवादी सावधानः प्रतीक्षते। तथा वा राजामात्यादिकं प्रति सेवको भृत्य आभिमुख्येन नियतां वाच वक्तुमप्रमत्तः प्रतीक्षते, एवमसावध्वर्युः प्रतिगरं प्रत्युत्तरं वक्तुं सर्वदा सावधानः प्रतीक्षेत।
प्रतिगरकालमतिक्रम्य वा तस्मात्कालात्प्रागेव वा प्रतिगरे बाधं दर्शयति…
यदभिप्रतीति। अर्धर्चसमाप्तिः प्रतिगरस्य कालस्तस्याभितो यदि प्रतिगृणीयात्तदा यथा प्रागतीते वा काले प्रत्युत्तरमाभाषमाण आयतया वाचा समृच्छत आभिमुख्येन या वाग्वक्तव्या तया नियतया वाचा हीना भवतीत्यर्थः। तदेतदकाले प्रतिगरोच्चारणं तादृग्भगवति। प्रतिगरविस्मरणे बाधं दर्शयति —
यदर्थर्चादिति। अर्थर्चसमापूतेरनन्तरं यदि प्रतिगरो लुप्यते। तत्र दृष्टान्तो यथा लोको चोख्याध्रादिभयाकुले महारण्ये शीघ्रं धावद्भ्यः सार्थगतेभ्यः पुरुषेभ्यः सकाशात्कश्चिद्धावितुमशक्तो हीना गच्छन्संश्चोरादिभिरुपद्रुतो भवति। तदेतदर्धर्शमतिगरलापनं तादृगेव। तस्मात्सावधानः प्रतिगरकालं प्रतीक्षेत।
प्रबाहुग्वा इति। ऋत्विजामुद्गातृहोत्रध्वर्यूणामुद्गीथा उत्कृष्टगानविशेषाः प्रबाहुग्वै समाना एव। समानत्वं कथमिति तदुच्यते उद्गातृणां सामगानामुद्गीथनाम्नैव गानविशेषः प्रसिद्धः। प्रस्तावमन्त्रादुपरितना भक्तिरुद्गीथः। स च प्रणवपुरःसरं गीयते। एवमुक्थशंसिनां होतृणां संबन्धी प्रणव उद्गीथः। अध्वर्गूणां तु प्रतिगर उद्गीथः। तथा च श्रूयते — ‘ओमिति सामानि गायन्ति। ओँशोमिति शस्राणि शँसन्ति। ओमित्यध्वर्युः प्रतिगरं प्रतिगरं प्रतिगृणाति” इति। ओं शोँ सा मोद इवेति ब्रुवन्सामवदुच्चारयति। प्रतिगरवेदनं प्रशंसति —
य एवं विद्वानिति। हेतुः शंसनकाल उपवेशनमध्वर्योश्च प्रतिगरकाल उत्थानं क्रमेण विधत्ते —
इयं वै होतेति। होतुर्भूमिस्वरुपत्वादयमासीनः शंसेत्तेनापवेशनेनास्या एव भूमेर्होता नापगच्छति। भूमिश्चाऽऽसीनेव दृश्यते। किंच तथा सति यज-
[[1595]]
प्रपा.२ अनु.९ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(प्रतिनिर्ग्राह्यमन्त्राभिधानम्)
मानो भूमिं दुग्धे। तत्रत्वं सारं गृह्णातीत्यर्थः। अध्वर्योः स्वर्गरूपत्वादुत्थित एवायं प्रतिगृणीयात्। तथा सति अयमध्वर्युरमुष्या दिवो नापगच्छति। द्यौश्च तिष्ठतीव दृश्यते। उपरिवर्तमानत्वात्। किंचाध्वर्योरुत्थितत्वेन यजमानो दिवं दुग्धे। तत्रत्यं सारं गृह्णाति। प्रकारान्तरेणोपवेशनोत्थाने प्रशंसति —
यदासीन इति। यस्मादासीनो होता शंसति तस्माद्देवा इतः प्रदानमुपजीवन्ति। अस्मिँलोके यत्प्रदीयते हविस्तदुपजीवन्तीत्यर्थः। यस्मादध्वर्युस्तिष्ठन्प्रतिगृणाति तस्मान्मनुष्या अमृतःप्रदानमुपजीवन्ति। अमुष्य लो(ष्माल्लो) काद्देवैः प्रेरितं वर्ष पुजीवन्तीत्यर्थः। होतुः प्राङ्मुखत्वमध्वर्योः प्रत्यङ्मुखत्वं च विधत्ते —
यत्प्राङासीन इति। यस्माद्धोता प्राङ्मुखस्तस्मात्प्राचीनं पत्नीक्षेत्राभि मुखं रेतः स्थाप्यते। यस्मादध्वर्युः प्रत्यङ्मुखस्तस्मात्प्रजाः क्षेत्रविमुखा उत्पद्यन्ते।
होतुरभ्याह्वानात्पूर्वमिडा देवहूरिति मन्त्रं जपतः प्राङ्मुखस्याध्वर्योरभ्याह्वानादूर्ध्व प्रत्यङमुखत्वाय परावृत्तिं विधत्ते —
यद्वै होतेति। यद्यपि शोंसावोमिति होतुरभ्याह्वानं सकृदेव तथाऽपि त्रीनर्थान्विधातुं द्वितीयानुवादस्तस्मिन्नेव काले प्राङ्मुखस्य परावृत्तिं विधातुं तृतीया नुवादः। अत एवाऽऽपस्तम्बेनोक्तम — “प्रदक्षिणमावर्तमानः शोंसा मोदवेति प्रत्याह्वयते” इति। अत्र विनियोगसंग्रहः —
प्रत्याह्वयेत शोंसावो सवनेषु त्रिषूच्चरेत्।
उक्थादिमन्त्रांस्त्रीनत्र मन्त्राश्चत्वार ईरिताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके नवमोऽनुवाकः॥९॥