(अथ तृतीयाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः।)
श्य॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्त्स्व॒यम॑भिगू
र्ताय॒ तमो॑ विष्ट॒भ्याय॒ धम॑णे॒ स्वाहा॒ वट्त्स्व॒-
यमभिगूर्ताय॒ नमः॑ परि॒धये॑ जन॒प्र॑थनाय॒
स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नम॑ ऊ॒र्जे हो-
त्रा॑णाँ स्वाहा॒ वटत्स्व॒यम॑मिगूर्ताय॒ नमः
पय॑से॒ होत्रा॑णाँ॒ स्वाहा॒ वट्त्स्व॒यम॑मिगूर्ता
य॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वटत्स्व॒य-
म॑भिगूर्ताय॒ नम॑ ऋतभ॑तपाः सुवर्वा॒ट्त्स्वाहा॒
वट्त्स्व॒यम॑भिगूर्ताय॒ नम॑स्तृ॒म्पन्ताँ॒ होत्रा॒
मधोर्घृ॒तस्य॑ य॒ज्ञप॑ति॒मृष॑य एन॑सा [१]
आ॒हुः। प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒-
व्यौ॑ स्तो॒कावच॒ तौ र॑राध। सं न॒स्ताभ्याँ
सृजतु वि॒श्वक्र॑र्मा घो॒रा ऋष॑यो॒ नमो॑ अ-
स्त्वेभ्यः। चक्षु॑ष एषां॒ मन॑सश्च सं॒धौ बृह॒-
स्पत॑ये महि॒ पदद्यु॒मन्नमः॑। नमो॑ वि॒श्वक॑-
र्मणे॒ म उ॑ पात्व॒स्मान॑न॒न्यान्त्सो॑म॒पान्मन्य॑-
मानः। प्रा॒णस्य॑ वि॒द्वान्त्स॑भ॒रे न धी॒र एन॑-
श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम्। तं वि॑श्वकर्मन्
[२] प्र सुपतम स्व॒स्तये॒ ये भ॒क्षय॑न्तो॒ न व-
सू॑न्यानृ॒हुः। यान॒ग्नयो॒ऽन्वत॑प्यन्त धिष्णि॑या
[[1582]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३तृतीयकाण्डे-
(तृतीयसवनमाध्यंदिनसवनगतहोमविशेषमन्त्राभिदानम्)
इ॒यं तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्वि॑ष्टिं न॒स्तां कृ॑
णोतु वि॒श्वक॑र्मा। नमः॑ पि॒तृभ्यो॑ अ॒भि ये
नो॒ अख्यन्य॑ज्ञ॒कृतो॑ य॒ज्ञका॑माः सुदे॒वा अ॑-
का॒मा वो॒ दक्षि॑णां॒ न नी॑निम॒ मा न॒स्तस्मा॒-
देन॑सः पापयिष्ट। याव॑न्तो॒ वै स॑दस्यास्ते
सर्वे। दक्षि॒ण्या॑स्तेभ्यो॒ यो दक्षि॑णां॒ न (३)
न॒येदैभ्यो॑ बृश्यचेत॒ यद्वै॑श्वकर्म॒णानि॑ जु॒होति॑
सद॒स्या॑ने॒व तत्प्री॑णात्य॒स्मे दे॑वासो॒ वपु॑षे चि-
कित्सत॒ यमा॒शिरा॒ दंप॑ती वा॒मम॑श्नु॒तः।
पुमा॑न्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अ-
र॒पा ए॑ध्रते गृ॒हः। आ॒शी॒र्दा॒या दंप॑ती वा॒म
म॑श्नुता॒मरि॑ष्टो॒ रायः॑ सचताँ॒ समो॑कसा।
य आऽसि॑च॒त्सं॑दुग्धं कु॒म्भ्या स॒हेष्टेन॒ याम॒
न्नम॑ति॑ जहातु॒ स.। स॒र्पि॒र्गी॒वी [४] पीव॑
र्यस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अ-
अस्य। स॒हजा॑नि॒र्यः सुंमख॒स्यमा॑न॒ इन्द्रा॑या॒
ऽऽशिरँ स॒ह कु॒म्भ्यादा॑त्। आ॒शीर्म॒ ऊर्ज॑-
मृ॒त सु॑प्रजा॒स्त्वमिषं॑ दधातु॒ द्रवि॑णँ॒ सव॑र्च
सम्। सं॒जय॒न्क्षेत्रा॑णि॒ सह॑सा॒ऽहमि॑न्द्र कृ
ण्वा॒नो अ॒न्याँ अध॑रान्त्स॒पत्ना॑न्। भू॒तम॑सि
भू॒ते मा॑ धा॒ मुख॑मसि॒ मुखं॑ भूयासं॒ द्यावा॑
पृथि॒वीन्यां॑ त्वा॒ परि॑ गृह्णामि॒ विश्वे त्वा
[[1583]]
प्रपा.२ अनु.७ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(तृतीयसवनमाध्यंदिनसवनगतहोमविशेषमन्त्राभिदानम्)
दे॒वा वै॑श्वान॒राः [५] प्र च्या॑वयन्तु दि॒वि-
दे॒वान्दृँ हा॒न्तरि॑क्षे॒ वयाँ सि पृथि॒व्यां पा
र्थि॑वान्घ्रु॒वं ध्र॒वेण॑ ह॒विषाऽव॒ सोमं॑ नयाम-
सि। यथा॑ नः सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒
अस॑त्। यथा॑ न॒ इन्द्र॒ इद्वि॒शः केव॑लीः॒ स-
र्वाः॒ सम॑नसः॒ कर॑त्। यथा॑ नः सर्वा॒ इद्दि-
शो॒ऽस्माकं॒ केव॑लीरस॑न् [६ ]॥
(एन॑सा विश्वकर्म॒न्यो दक्षि॑णां॒ न सर्पिग्री॒वी वैश्वान॒राश्च॑त्वारिँ॒शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठकेऽष्टमोऽनुवाकः॥८॥
(अथ तृतीयकाण्डे द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)
प्रसूतिमन्त्रणं प्रोक्तं सप्तमे स्तुत शस्त्रयोः।
अथाष्टमे तृतीयसवनगता माध्यंदिनसवनगता होमविशेषमन्त्रा उच्यन्ते।
कल्पः — “अथ चमसाज्जुहोति श्येनाय पत्वने स्वाहेति वषट्कृते जुहोति वट्स्वयमभिगूर्ताय नमः स्वाहेत्यनुवषट्कृते, एवमुत्तरैः प्रचरत्येतावन्नापूर्वेण मन्त्रेण वषट्कृते वषट्कृते जुहोत्युत्तरेणानुवष्ट्कृते” इति। पाठस्तु —
श्येनाय षत्वन इति। श्येनरूपाय पतनशीलाय ‘इन्द्र ऋभुभिः’ इत्यनया याज्यया प्रतिपाद्याय देवाय स्वाहा हुतमिदमस्तु। वट्शब्दोऽऽवश्यमित्यस्मिन्नर्थे वर्तते। स्वयमेव सोमपार्श्वे गन्तुमद्यतः स्वयमभिगूर्तोऽवश्यं स्वयमभिगूर्ताय नमोऽस्तु। विष्टम्भाय विष्टम्भयित्रे शात्रूणां विनाशयित्रे धर्मणे धारकायास्माकं पोषकायेन्द्रावरुणा सुतपाविति याज्यया प्रतिपाद्याय देवाय स्वाहुतम्। परिधये परितो धारयित्रे जनपथनाय जनानां प्रश्यापनायेन्द्रश्च सोमं पिबतमिति याज्यया
[[1584]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३तृतीयकाण्डे-
(तृतीयसवनमाध्यंदिनसवनगतहोमविशेषमन्त्राभिदानम्)
प्रतिपाद्याय स्वाहुतम्। होत्राणां होमर्तॄणामूर्ज ऊर्ग्रुमायान्नप्रदायाऽऽवो वहन्तु सप्रय इति याज्यया प्रतिपाद्याय स्वाहुतम्। होत्राणां होमकतॄणां पयसे क्षीरप्रदायामेव नः सुहवा इति याज्यया प्रतिपाद्याय स्वाहुतम्। प्रजापतये प्रजानां पालकाय, गनवेऽस्माभिर्मन्तव्याय’ इन्द्राविष्णू पिबतम्’ इति याज्यया प्रतिपाद्याय स्वाहुतम्। हे ऋतपा, त्तत्यपालक हे सुवर्वाट् स्वर्गप्रापक ऋतमस्मदीयं यज्ञं पालयेति शेषः। तस्मै तुभ्यमिमं स्तोममर्हत इति याज्यया प्रतिपाद्याय स्वाहुतम्। त एते प्रस्थितयाज्यहोमाः।
कल्पः — “तुम्पन्ताँ होत्रा इति सर्वान्हुत्वा जपति” इति। पाठस्तु —
तृम्पन्तामिति। होत्रा मधोर्घृतस्यति ह्यमाना देवा मधुरेण घृतेन तृप्यन्तु। त एत मन्त्रास्तुतीयसवनगताः कदाचन स्तरीरित्यस्मादनुवाकदूर्ध्वं द्रष्टव्याः।
कल्पः — “यज्ञपतिमृषय एनसाऽऽहुरित्याग्नीघ्रीये पञ्च वैश्वकर्मणानि हुत्वा” इति। तत्र प्रथमामृचमाह —
यज्ञपतिमृषय इति। यदा प्रजाः सर्वा निर्भक्ता अन्नरहिता अनुतप्यमाना भवन्ति तदानीं यज्ञपतिमेनसा संयुक्तमृषयः सर्वेऽप्याहुः। यज्ञपत्यपराधादेव वृष्ट्याद्यभावे सत्यन्नाभावे प्रजानामनुतापो जायते। कोऽयं यज्ञपतेरपराध इति तदुच्यते — मधुर्वसन्तर्तुस्तत्संबन्धिनौ चैत्रवैशाखमासौ मधव्यौ स्तोकौ ज्योतिष्टोमानुष्ठानेन स्तोतुं योग्यौ। तादृशयोमासयोरनुष्ठानमकृत्वा तौ मासौ प्रत्यहं यज्ञपतिरपरराध, अनेनापराधेन पापी यजमान इत्यृषय आहुः। अतोऽयं विश्वकर्मा नोऽस्मान्यज्ञपतींस्ताभ्यां मासाभ्यां संसृजतु। यथा तयोर्मासयोर्ज्योतिष्टोममनुतिष्ठामस्तथा प्रेरयत्वित्यर्थः।
अथ द्वितीयामाह–
घोरा ऋषय इति। पूर्वोक्त ऋषयस्ते घोरा उग्रा अस्मदपराधमन्विष्य पापीयानयमिति जनानामग्रे निन्दकत्वात्। अत एभ्य ऋषिभ्यो नमोऽस्तु नमस्कारेण शान्ताः सन्तोऽस्मान्मा निन्दन्तु। एषामृषीणां चक्षुषोऽस्माकं यनसश्च संधौ संधाननिमित्तं बृहस्पतये नमोऽस्तु। ऋषयो यथास्मान्समनुग्रहेण कटाक्षेण वीक्षन्ते वयं च यथा कर्मानुष्ठानेनापराधरहिताः सन्तो मनसा भक्तिं कुर्मस्तथाऽयं
[[1585]]
प्रपा.२ अनु.८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(तृतीयसवनमाध्यंदिनसवनगतहोमविशेषमन्त्राभिदानम्)
बृहस्पतिरनुगृह्णातु। महि सद्द्युमदित्येतानि त्रीणि नमःशब्दस्य विशेषणानि। नमस्कारोऽयमष्टाङ्गोपेतत्वान्महान्। तदनुग्रहपर्यन्तमुत्पादनाभावदयं नमस्कारः सीदतीति सत्। भक्तिरसेनात्यन्तमाविर्भूतत्वाद्द्युमत्। विश्वविषयं कर्म सृष्ट्यादिरूपं यस्यासौ विश्वकर्मा प्रजापतिस्तस्मै नमोऽस्तु। स उ सोऽपि विश्वकर्माऽस्माननुष्ठानप्रवर्तनेन पातु। अथ तृतीयामाह —
अनन्यानिति। हे विश्वकर्मन्ननन्यांस्त्वद्व्यतिरेकेण गत्यन्तररहितानस्मान्सोमपान्मन्यमानोऽसोमपानप्येते सोमपा इत्येवानुग्रहं कुर्वन्पातुमर्हती (सी) ति शेषः। तत्र दृष्ठान्तः- प्राणस्य विद्वान्समरे न धीर इति। यथा लोके धीरः पुरुषः परकीयस्य प्राणस्याऽऽपदं विद्वान्समरे न युद्ध इव करुणया तं पाति तद्वत्। अयं यजमानः प्रमादालस्यादिकारिणा तमोगुणेन वृतः सन्नेषामृषीणामेनो महि चकृवान्महान्तमपराधं कृतवान्। तमपराधिनं प्रमुञ्च तस्मादपराधात्प्रकर्षेण मोचय। किमर्थं स्वस्तये विनाशराहित्याय। अथ चतुर्थीमाह —
ये भक्षयन्त इति। ये यष्टारो भक्षयन्तो न भक्षयन्त इव वसूनि धनान्यानृहुः पूजितवन्तो यज्ञभिक्षारूपेण धनमर्जयित्वा यज्ञमकृत्वैव भोगार्थं संगृहीतवन्त इत्यर्थः। धिष्ण्यनिवासिनोऽग्नयो यानन्वतप्यन्ताहो शोच्या एत इति तद्विषये खेदं कृतवन्तः। तेषां यष्टॄणां या दुरिष्टिर्दुष्टो यागो यागाभावस्तद्धेतुरेनश्च तस्या अवया विनाशयित्री येयमिष्टिर्यागस्तामिष्टिं नोऽस्माक विश्वकर्मा स्विष्टिं करोतु। अथ पञ्चमीमाह —
नमः पितृभ्य इति। य नोऽस्मानभ्यख्यन्नाभिमुख्येन पश्यन्ति ते यज्ञस्य कारयितारोऽस्माकं यज्ञं कामयमानाः सुदेवाः सुष्ठु द्योतमानास्तादृशा हे पितरो वयं प्रमादालस्यादिभिरकामा यज्ञं कर्तुमिच्छारहिताः सन्तो वो युष्मभ्यं दक्षिणां दक्षिणोपलक्षितं यज्ञं न नीनिम नैव नीतवन्तस्तस्मादेनसोऽस्मान्मा पापयिष्ट तेन पापेनास्मान्पापिष्ठान्मा कुरुत। तैरेतैर्मन्त्रैर्होमं विधत्ते —
यावन्तो वा इति। यज्ञसमायां द्रष्टुभागत्यावस्थिता ये ब्राह्मणास्ते सर्वे
[[1586]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३तृतीयकाण्डे-
(तृतीयसवनमाध्यंदिनसवनगतहोमविशेषमन्त्राभिदानम्)
दक्षिणार्हस्तेषामदानेन यत्पापं तन्निवारणाय यथोक्तानि वैश्वकर्मणानि जुहुयात्। अयं च होम ऋत्विग्दक्षिणान्तरभावीति कृत्वा तन्मन्त्रा उदु त्यं जातवेदसमि त्यस्मावसाने द्रष्टव्याः —
कल्पः- ‘पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य तस्मिन्यजमानः पुरस्तात्प्रत्यङ्तिष्ठन्सह पत्न्याऽऽशिरमवनयत्यस्मे देवासो वपुषे चिकित्सतेति चतसृभिः’ इति।
आशिरशब्देन मथितं दध्यभिधीयते। आग्नीघ्रे पत्न्याशिरं मथित्वेति सूत्र कारेणोक्तत्वात्। तत्र प्रथमाया ऋचः पाठस्तु—
अस्मे देवास इति। देवासो हे देवा अस्मे अस्माकं वपुषे शरीराय चिकित्सत। अस्माकं शरीरं यथा पापरहितं भवति तथा कुरुतेत्यर्थः। यत्क्षीरं दोहनपात्रस्थमेवाक्षतादिप्रक्षेपेण घनी भवति तादृशं दधि रेफान्ताशीः शब्देनाभिधीयते। चिकित्साविशेषं प्राप्य दंपती पत्नीययमानावाशिरा दघ्ना यं वामं सौन्दर्यमश्नुतस्तेन कृत्वा पुमान् पुत्रो जायते वसु च विन्दते। अथापि च विश्व एतत्संबन्धिनः सर्वेऽरपा ज्ञानवन्तः। एतस्य गृह एधते। अथ् द्वितीयामाह —
आशीर्दायेति आशीर्दाया, आशिरं पूर्वोक्तं दधि दत्त इत्याशीर्दायौ। तादृशौ दंपती वाममश्नुतां कल्याणं प्राप्नुताम्। कीदृशौ दंपती। समोकसा सम्य गोको ययोस्तौ समोकसौ। द्वावेकगृहवासिनावित्यर्थः। अरिष्टो हिंसारहितः। पत्नीयुक्तो यजमानो रायो धनानि सचतां समवैतु प्राप्नोत्वित्यर्थः। यो यजमान इष्टेन सह प्रीत्या युक्तो यामन्नाधारभूते सोमे सुंतुग्धं यथोक्तदधिभावमापन्नं सम्यक्क्षीरं कुम्भ्या संपूर्णन घटेनाऽऽसिवत्सर्वतः सिक्तवान्स यजमानोऽमतिं रोणं दुर्बुद्धिं जहातु। अथ तृतीयामाह —
सर्पिर्ग्रीवीति। अस्य यजमानस्य जाया सर्पिर्ग्रीवी स्त्रिग्धकण्ठा कोमल ध्वनियुक्ता पीवरी पुष्टसर्वावयवयुक्ता भवतु। अस्य यजमानस्य पुत्राः पीवानः पुष्टसर्वाङ्गा अकृशासः कदाचिदपि व्याध्यादिजनितकार्श्यरहिताः सन्तु। यो यजमानः सुमखस्यमानः शोभनं यज्ञं कुर्तुमिच्छन्निन्द्रायाऽऽशिरं पूर्णया कुम्भ्या
[[1587]]
प्रपा.२ अनु.८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(तृतीयसवनमाध्यंदिनसवनगतहोमविशेषमन्त्राभिदानम्)
सहादात्मभूतं दत्तवानित्यर्थः। तस्वास्य यजमानस्य जायेति पूर्वत्रान्वयः। कीदृशो यजमानः। सहजानिः सहाविश्थिता जाया यस्यासौ सहजानिः। आशीर्दानकाले जायऽपि सहवस्तितेत्यर्थः। अथ चतुर्थीमाह —
आशीर्म इति। सक्रारान्तोऽयमाशीः शब्दः प्रार्थनामाचष्टे। इन्द्र य आशीर्ममेयं प्रार्थना भवानूर्जं दधातु मदर्थं धारयतु। प्रयच्छत्वित्यर्थः। उतापि च सुप्रजास्त्वं शोभनापत्यत्वभिषमन्नं द्रविणं सवर्चसं वर्चःसहितं प्रयच्छतु। अहं त्वत्प्रसादात्क्षेत्राणि वैरिसंबन्धीनि सहसा बलेन संजयन्स्वात्मनि धारयन्नन्यान्सपत्नान्वैरिणोऽधरान्कृण्वानोऽस्मदाज्ञाधारिणः कुर्वाणो भूयासम्। अस्याऽऽशि (शी) रवनयनस्य तृतीयसवनगताभिषवार्थत्वादेते मन्त्राः कदा चन वाममद्येत्यनयोरनुवाक्योर्मध्ये द्रष्टव्याः।
कल्पः — “भूतमसि भूते मा धा इति प्रतिप्रस्थाता ध्रुवमवेक्ष्य” इति।
पाठस्तु —
भूतमसीति। हे ध्रुव भूतमसि नित्यासिद्धस्वरूपमसि भृते नित्यसिद्धे स्वरूपे स्वार्गादौ परमात्मनि वा मा धा मां स्थापय। किंच मुखमसि सर्वेषु ग्रहेषु मुख्योऽसि। “आयुर्वा एतद्यज्ञस्य यद्ध्रुवः’ इति श्रुतेः। अतस्त्वत्प्रसादान्मुखं भूयासं सर्वेषां मुख्यो भूयासम्।
द्यावापृथिवाभ्यामिति। कल्पः — “द्यावापृथिवीभ्यां त्वां परिगृह्णामीत्यञ्जलिना परिगृह्य” इति। हे ध्रुव द्यावापृथिवीसदृशाभ्यामञ्जलिपुटाभ्यां त्वां स्वी करोमि।
कल्पः — “ विश्वे त्वा देवा वैश्वनराः प्रच्यावयन्त्विति ध्रुवं प्रच्याव्य” इति। पाठस्तु–
वि वे त्वेति। हे ध्रुव वैश्वानरा विश्वेषां नराणां हितकारित्वेन संवन्धिन’ सर्वे देवात्त्वां प्रच्यावयन्तु स्वस्थानाच्चालयन्तु। त्वं च दिवि देवान्दृढी कुरु” अन्तरिक्षे वयांसि पक्षिणो दृढी कुरु। पृथिव्यां पर्वतादीन्दृढी कुरु। न तु त्वदीयेन चलनेन सर्वं जगच्चालय।
[[1588]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३तृतीयकाण्डे-
(तृतीयसवनमाध्यंदिनसवनगतहोमविशेषमन्त्राभिदानम्)
कल्पः — “ध्रुवं ध्रुवेणेति पुरस्तात्प्रश्यङ्ङासीनो होतृचमसे ध्रुवमवनयति” इति। पाठस्तु-
ध्रुवं ध्रुवेणेति। ध्रुवं ध्रुवेण हविषेदानीमवनीयमानेन ध्रुवस्थालीगतेन सोमरसेन पूर्वं होतृचमसे स्थितं ध्रुवं सोममवनयामसि अघस्तान्नयामस्तस्योपरि त्वां सिञ्चामि इत्यर्थः। यथा येन प्रकारेण नोऽस्माकं सर्वमिज्जगत्सर्वमेव जङ्गमं गवोदिकमयक्ष्मं रोगरहितं सुमनाः शोभनमनस्कमसद्भवेत्। यथा च नोऽस्माकं विशः प्रजाः सर्वा अपि केवला रोगरहिताः समनसोऽनुकूलमनलश्चेन्द्रः करदिन्द्रश्च कुर्यात्। यथा च नोऽस्माकं सर्वा इद्दिशो दिग्वर्तिन्यः सर्वा एव प्रजा अधीनाः स्युरिति शेषः। किंचास्माकं केवलीरसन्नसाधारण्येन वर्तेरन्। यथैतत्सर्वं सिध्यति तथा होतृचमसेऽवनयामीति पूर्वत्रान्वयः। त एते मन्त्रा बृहस्पति सुतस्य हरिरसीत्यनयोरनुवाकयोर्मध्ये द्रष्ठव्याः। अत्र विनियोगसंग्रहः —
श्येना तृतीयसवने सप्तभिश्चमसाहुतिः।
वषट्कृते मन्त्रहोमो वडित्यनुवषट्कृते॥
तृम्पन्तां सर्वचमसान्हुत्वा जपति मध्यमे।
सवने वैश्वकर्माख्याहोमा मन्त्रैस्तु पञ्चभिः॥
यज्ञ-घोरा-अनन्या-ये भक्षयन्तो — नपः पिभिः।
पूतभृत्याशिरं त्वस्मे क्षिपन्मन्त्रचतुष्ठयात्॥
भूतं घ्रुवमवेक्षेत प्रतिप्रस्थातृकर्म तत्।
द्यावाऽञ्जलौ गृहीत्वा विश्वे होतृचमसे नयेत्॥
ध्रुवमेकी करोत्यत्र मन्त्रान्तोऽसन्नितीरित।
अष्टमे त्वनुवाकेऽस्मिन्नष्टाविंशतिरीरिताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठकेऽष्टमोऽनुवाकः॥८॥
[[1589]]
प्रपा.२ अनु.९ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(प्रतिगरान्तरभाविमन्त्राभिधानम्)