०७

(अथ तृतीयाष्टके द्वितीयप्रपाठके सप्तमोऽनुवाकः)
देव॑ सवितरे॒तत्ते॒ प्राऽऽह॒ तत्प्र च॑ सु॒व प्र
च॑ यज॒ बृह॒स्पति॑र्ब्र॒ह्माऽऽयु॑ष्मत्या ऋ॒चो मा
गा॑त तनू॒पात्साम्नः॑ स॒त्या व॑ आ॒शिषः॑ सन्तु
स॒त्या आकू॑तय ऋ॒तं च॑ स॒त्यं च॑ वदत स्तु॒त
दे॒वस्य॑ सवि॒तुः प्र॑स॒वे स्तु॒तस्य॑ स्तु॒तम॒स्यूर्जं॒
मह्यँ स्तु॒तं दू॑हा॒मा मा॑ स्तु॒तस्य॑ स्तुतं ग॑-
म्याच्छ॒स्त्रस्य॑ श॒स्त्रम् [ १ ] अ॒स्यूर्जं॒ मह्यँ
श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रास्य श॒स्त्रं ग॑म्यादिन्द्रि-
याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिष॑म्।
सा मे॑ स॒त्याऽऽशीर्दे॒वेषु॑ भूयाद्ब्रह्मवर्च॒सं
माऽऽग॑म्यात्। यज्ञो बभू॒व स आ ब॑भूव॒
स प्र ज॑ज्ञे॒ स वा॑वृधे। स दे॒वाना॒मधि॑पति-
र्बभूव॒ सो अ॒स्माँ अधि॑पतीन्करोतु व॒यँ
स्या॑म॒ पत॑यो रयी॒णाम्। य॒ज्ञो वा॒ वै [ २ ]
य॒ज्ञप॑तिं दु॒हे य॒ज्ञप॑तिर्वा यज्ञं॒ दु॑हे स यः
स्ततश॒स्त्रयो॒र्दोह॒मविद्वा॒न्यजते॒ तं य॒ज्ञो दुहे॒
स इष्ट्वा पापी॑यान्भवति॒ य ए॑नयो॒र्दोहं॑ वि॒-
द्वान्यज॑ते॒ स य॒ज्ञं दु॑हे॒ स इ॒ष्ट्वा वसी॑यान्भ-
वति स्तु॒तस्य॑ स्तु॒तमस्यूर्जं॒ मह्यँ स्तु॒तं दु॑-
हामा मा॑ स्तु॒तस्य॑ स्तु॒तं ग॑म्या॒च्छस्त्रस्य॑ श॒-
स्त्रम॒श्यूर्जं॒ मह्यँ॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑

[[1577]]

प्रपा. २ अनु. ७ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्तुतशस्त्राभिधानम्)

श॒स्त्रं ग॑म्या॒दित्या॑है॒ष वै स्तुंतशस्त्र॒यो॒र्दोह॒स्तं
य ए॒वं वि॒द्वान्यज॑ते दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑-
यान्भवति [३]॥
( श॒स्त्रं वै श॒स्त्रं दु॑हां॒ द्वाविँ॑शतिश्च)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके सप्तमोऽनुवाकः॥७॥

(अथ तृतीयाष्टके द्वितीयप्रपाठके सप्तमोऽनुवाकः)
पृषदाज्यं भवेत्षष्ठे मन्त्रश्च दधिघर्मगः।

अथ सप्तमे स्तुतशस्त्रे अभिधीयेते।
कल्पः ‘ब्रह्मन्स्तोष्यामः प्रशास्तरित्युच्यमाने देव सवितरेतत्ते प्राहेत्यनुद्रुत्य रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्युक्त्वों स्तुतेति प्रसौति’ इति। पाठस्तु—
देव सवितरिति। हे सवितर्देवायमुद्गाता स्तोष्याम इत्येतद्वाक्यं ते तुभ्यं प्राह तत्स्तोत्रं त्वं प्रसुव प्रकर्षेणानुज्ञां च दोहि। प्रयज च प्रकर्षेण च यागं निष्पादय। हे उद्वातारो बृहस्पतिरेवाहं ब्रह्मा न तु मनुष्यमात्रः। सोऽहं वो ब्रवीमीति शेषः। आयुष्मत्या ऋचो मा गात। आयु स्थानीयो निर्वाहोऽस्यामृच्यस्तीति आयुष्मती। तस्या ऋचः सकाशान्माऽपगच्छत ऋगक्षरोञ्चारणे सावधाना भवतेत्यर्थः। तथा तनूपात्साम्नो मा गच्छत। स्तोत्रस्य तनूः शरीरमेव ऋक्तां तनूं पतिति तनूपं साम। ऋगक्षराभिव्यक्तिर्हि साम्ना क्रियते। तत स्तस्मिन्यूयमप्रमत्ता भवतेति। गीयमाने स्तोत्रे वो युष्माकं संबन्धिन्यो यजमानविषया आशिषो याः सन्ति ताः सर्वाः सत्याः सन्तु। याश्च भवतामाकूतयः संकल्परूपास्ता अपि सत्याः सन्तु। यूयं मनसर्तं यथार्थं स्मरत। वाचा च सत्यं वदत। सवितुर्देवस्य प्रसवेऽनुज्ञायां सत्यां स्तुत स्तोत्रं पठत।
कल्पः — “स्तुतस्य स्तुतमतीति स्तोत्रमनुमन्त्रयते शस्त्रस्य शस्त्रमसीति शस्त्रमिन्द्रियावन्तो वनामह इत्युभयत्रानुषजति” इति। पाठस्तु —

[[1578]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे –
(स्तुतशस्त्राभिधानम्)

स्तुतस्येति। सोऽयं मन्त्रो याजमानः। उद्गातृभिर्गीयमान हे स्तोत्र त्वं स्तुतस्य स्तुतमसि स्तोत्रस्यापि स्तोत्रमसि। स्तोत्रजातावुत्तममसीत्यर्थः। तादृशं स्तुतं स्तोत्ररूपं त्वां मह्यं मदर्थमूर्जं दुहां सारं दुहे। ततः स्तुतस्य स्तुतमुत्तमं स्तोत्रं मां प्रत्यागम्यादागच्छतु। एवं होतुभिः शस्यमान हे शस्त्र त्वं शस्त्रस्य शस्त्रमसि शस्त्रजातावुत्तममसि। शेषं पूर्ववत्। युवयोः स्तुतशस्त्रयोः प्रसादा
दिन्द्रिवावन्त इभ्द्रियैरविकलैर्युक्ताः सन्तो वनामहे स्वापेक्षितफलं भजामहे। प्रजां पुत्रादिरूपामिषमन्नं च धुक्षीमहि संपादयामः। किंच देवेषु विषयभूतेषु मे मदीया यजामीत्याशीर्याऽस्ति सा सत्या भूयात्। ब्रह्मवर्चसं यज्ञानुष्ठानरूपं मां प्रत्या गम्यादागच्छतु। उत्तरोत्तरमभिवर्धतामित्वर्थः। इदानीमनुष्ठीयमानो यज्ञः संपूर्णो भवति। स यज्ञ आबभूव पुगरप्यावृत्तो भवतु स यज्ञ प्रजज्ञेऽस्माननालस्येनानुष्ठातृन्प्रति प्रजातवान्। अत एवास्मद्गृहे स यज्ञो वावृधे पुनः पुनरनुष्ठानेन वर्धताम्। स यज्ञोऽस्माभिरिज्यमानानां देवानामधिकं पालयिता भवतु। स यज्ञोऽस्मानप्यधिपतीनधिकमनुष्ठानस्य पालकान्करोतु। वयमपि तस्य यज्ञपुरुषस्य प्रसादाद्रयीणां यज्ञसाधनानां धनानां पतयो भूयास्म।
तदिदमनुमन्त्रणं स्तुतशस्त्रयोर्दोह इति वैदिकैः परिभाष्यते, तमिमं दोहं विधत्ते —
यज्ञो वा वा इति। अत्र दोहनं नाम रिक्तीकरणं गा दोग्धीत्यत्र तद्दर्शनात्। तथा सत्येतद्विचार्यते-किं यज्ञो यजमानं रिक्ती करोति किंवा यजमानो यज्ञमिति। तत्र यतो दोहनविद्वान्यः कोऽपि दोहनामकमभिमन्त्रणमज्ञात्वा यजेत तमेवं पुरुषं यज्ञो रिक्ती करोति। स चेष्ट्या दरिद्रो भवति। विद्वांस्तु यज्ञं दुग्ध्वा वसीयान्भवतीति। यद्यप्येतदभिमन्त्रणं सर्वत्र संचारि तथाऽपि वहिष्प वमानस्तोत्रस्याऽऽज्यशस्त्रस्य प्रथमभावित्त्वात्तदर्थस्तोत्रमन्त्र ऋतुग्रहानुवाकात्प्राक्पठयीयः। शस्त्रमन्त्रस्त्वैन्द्राग्नग्रहानुवाकादूर्ध्वं पठनीयः। अत्र विनियोगसंग्रहः —
देव ब्रह्मा सौति गातॄन्स्तुतस्य यजमानकः।
स्तोत्रं समन्त्र्य शस्त्रस्य मन्त्रयेच्छस्त्रमेतयोः॥

[[1579]]

प्रपा. २ अनु. ७ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्तुतशस्त्राभिधानम्)

इन्द्रः शेषः स णामन्ते मन्त्रा अत्र त्रयो मताः॥
अत्र प्रथममन्त्र ऋचो मा गात तनूपात्साम्न इत्यत्राक्षराभिव्यञ्जकतया सामानि ऋचः शरीरं रक्षन्तीत्युक्तम्। सोऽयमर्थो नवमाध्यायस्य द्वितीयपादे मीमांसितः —

“सामर्चं प्रति मुख्यं स्याद्गुणो वा बाह्यपाठतः।
मुख्यमभ्यसितुं पाठो गुणो गीताक्षरः स्तुतेः”॥

रथंतरं गायतीत्यादौ यद्गानं विहितं तदेतत्सामशब्दार्थ इति प्रतिपादितं स्मारितं च। तदेतद्रानमृचं प्रति प्रधानकर्म स्यात्। कुतः। यागप्रयोगाद्बहिरध्ययनकालेऽपि पठ्यमानत्वात्। गुणकर्म चेद्ब्रीहिप्रोक्षणादिवद्यागप्रयोऽमध्य एव गानमुष्ठीयेत। ततो यागाद्बाहिर्गानस्य विश्वजिदादिवत्फलं कल्पनीयम्। मध्यकालीनं गानं तु प्रयाजादिवदुपकारकम्। तस्मान्मुख्यमेतन्न गुणकर्मेति प्राप्ते ब्रूमः — न तावद्बहिः पाठः प्रधानकर्मत्वं कल्पयितुं शक्नोति। भूमिरथिकशुष्केष्टिन्यायेन प्रयोगपाटवाय गानाध्ययनोपपत्तेः। यथा भूमिरथिको भूमौ रथमालिख्याभ्यासं करोति यथा छात्रः शुष्केष्ट्या प्रयोगपाटवं संपादयति तद्वत्। नापि गुणकर्मत्वे प्रयोजनाभावात्प्रधानकर्मत्वमिति वाच्यम्। गानेन संस्कृतैर्ऋगक्षरैः स्तुतिसंभवात्। आज्यः स्तुवते पृष्ठैः स्तुवत इति स्तुतिविधानात्। तस्पादृगक्षराणां स्वरविशिष्ठत्वाक्षराभिव्यक्तिर्दृष्टं प्रयोजनमिति। अदृष्टस्याकल्पनीयत्वाद्रानं संस्कारकर्म।

द्वितीयाध्यायस्य प्रथमपादे चिन्तितम्–

“प्रउगं शंसतीत्यादौ गुणतोत प्रधानता।
दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः॥
स्मृत्यर्थत्वे स्तौतिशस्योर्धात्वोः श्रौतार्थबाधनम्।
तेनादृष्टमपेत्यापि प्राधान्यं * स्तुतये मतम्॥

ज्योतिष्ठोमे श्रूयते— “प्रउगं शंसति निष्केवल्यं शंसति आज्यै स्तुवते पृष्ठैः स्तुवते” इति। प्रउगनिष्केवलयशब्दौ शस्त्रविशेषनामनी। आज्यपृष्ठशब्दौ तु

  • न्यायमालबिस्तरे तु “श्रुयते” इति पाठ।

[[1580]]

स्तोत्रवाचित्वेन चित्राधिकरणे व्याख्यातौ। अप्रगीतमन्त्रसाध्या स्तुतिः शास्त्रं, प्रमीतमन्त्रसाध्या स्तुतिः स्तोत्रं, तयोः स्तुतशस्त्रयोर्गणकर्मत्वं युक्तम्। तुषविमोकवद्दृष्टार्थत्वलाभात्। पठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते ब्रूमः — स्तोतव्याया देवतायाः स्तावकैर्गुंणैः संबन्धः स्तौतिशंसतिधात्वोर्वाच्योऽर्थः। यदि मन्त्रवाक्यानि (णि) गुणसंबन्धाभिधानपराणि तदा धात्वोर्मुख्यार्थलाभाच्छ्रतिरनुगृहीता भविष्यति। यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूपप्रकाशनपराणि मन्त्रवाक्यानि (णि) स्युस्तदा धात्वोर्मुख्यार्थो न स्यात्। लोके हि देवदत्तश्चतुर्वेदाभिज्ञ इत्युक्तः स्तुतिः प्रतीयते। तस्य वाक्यस्य गुणसंबन्धपरत्वात्। (* यश्चतुर्वेदाभिज्ञो देवदत्तस्तमाकारयेत्युक्तौ स्तुतिर्न भवत्याकारणपरत्वेन वाक्यस्य गुणसंबन्धपरत्वाभावात्। तथाऽत्रापि पठ्यमानगुणविशिष्टो यः स देव इत्येव मन्त्रवाक्यानां (णां) देवताप्रकाशनपरत्वं तावच्चेत्स्यात्) ततश्चाऽऽज्यैर्देवं प्रकाशयेत्पृष्ठैर्देवं प्रकाशयेदित्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत। ततो धातुस्तुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम्। तत्र दृष्टं प्रयोजनं नास्तीति चेत्। तर्ह्यपर्वमस्तु॥
श्रीमत्सायणाटार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः॥७॥

  • धनुश्चिर्ह्णान्तर्गतग्रन्थस्थाने ख. च. पुस्तकयोः यदा तु देवदत्तस्वरुपपपरता यश्चतुर्वेदी तमानयेत्यादौ तत्र न स्तुतिप्रतीतिः, तस्य चतुर्वेदसंबन्धद्वारेण देवदत्तस्वरूपोपलक्षणपरत्वेन गुणसंबन्धपरत्वाभावात्’ इति पाठो वर्तते।

[[1581]]

प्रपा.२ अनु.७ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(तृतीयसवनमाध्यंदिनसवनगतहोमविशेषमन्त्राभिदानम्)