०६

(अथ तृतीयकाण्डे द्वितीयप्रपाठक षष्ठोऽनुवाकः)

म॒ही॒नां पयो॑सि॒ विश्वे॑षां दे॒वानां॑ त॒नूर्ऋ॒र्ध्या
स॑म॒द्य पृष॑तीनां॒ ग्रहं॒ पृष॑तीनां॒ ग्रहोऽसि॒ वि-
ष्णोर्हृद॑यमस्येक॑मिष॒ विष्णु॒स्त्वाऽनु॒ वि च॑-
क्रमे भू॒तिर्द॒ध्ना घृ॒तेन॑ वर्ध॒तां॑ तस्य॑ मे॒ष्टस्य॑
वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्या॒ज्जयोति॑रसि वैश्वा-
न॒रं पृश्नि॑यै दु॒ग्धं याव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒-

[[1573]]

प्रपा. २ अनु. ६ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूषदाज्याभिधानम्)
त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः। ता-
व॑न्तमिन्द्र ते [ १ ] ग्रहँ॑ सहोर्जा गृ॑ह्णा॒-
म्यस्तृ॑तम्। यत्कृप्णशकु॒नः पृ॑षदा॒ज्यम॑वमृ॒-
शेच्छूद्रा अ॑स्य प्र॒मायु॑काः स्यु॒र्यच्छ्वाऽव॑
मृ॒शेच्चतु॑ष्पादोऽस्य प॒शवः॑ प्र॒मायु॑काः स्यु॒-
र्यत्स्कन्दे॒द्यज॑मानः प्र॒मायु॑कः स्यान्प॒शवो॒
वै पृ॑षदा॒ज्यं प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒
यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति॒ य॑त्पृ॑षदा॒ज्यं पुन॑-
र्गृ॒हणाति॑ प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति प्रा॒णो
वै पृषदा॒ज्यं प्रा॒णो वै [ २ ] ए॒तस्य॑ स्क-
न्दति॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति॒ यत्पृष॑दा॒-
ज्यं॒ पुन॑र्गृ॒ह्णाति॑ प्रा॒णमे॒वास्मै पुन॑र्गृह्णाति॒
हिर॑ण्यमव॒धाय॑ गृह्णात्य॒मृतं॒ वै हि॑रण्यं
प्रा॒णः पृ॑षदाज्य॒ममृत॑मे॒वास्य॑ प्रा॒णे द॑धाति
श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यश्व॒मव॑ घ्रापय-
ति प्रजाप॒त्यो वा अश्वः॑ प्राजाप॒त्यः प्राणः
स्वादे॒वास्मै॒ योनेः॑ प्रा॒णं निर्मिमीते॒ वि वा
ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यस्य॑ पृषदा॒ज्यँ स्क-
न्द॑ति वैष्णव्यर्चा पुन॑र्गृह्णा॑ति य॒ज्ञो वै वि-
ष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञँ सं त॑नोति [३ ]॥

[ते॒ पृ॒ष॒दा॒ज्ये प्रा॒णो वै योनेः॑ प्रा॒णं द्वाविँ॑शतिश्च ]।

[[1574]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे –
(पूषदाज्याभिधानम्)

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके षष्ठोऽनुवाकः॥६॥

(अथ तृतीयाष्टके द्वितीयप्रपाठके षष्ठोऽनुवाकः)।

अनुवाके पञ्चमे तु भक्षमन्त्रा उदीरिताः।
अथ षष्ठे पृषदाज्यमुच्यते।

कल्पः — “आज्याग्रहणकाले चतुर्जुह्वां गृह्णाति चतुरुपभृति दधन्याज्यमानीय महीनां पयोऽसीति पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यम्” इति। पाठस्तु—

महीनामिति। हे पृषदाज्य त्वं महीनां गवां पयोऽसि। विश्वेषां सर्वेषां देवानां तनूरसी। शरीरस्थितिहेतुत्वात्। पृषत्यो मरुतामश्वाः। अद्यास्मिन्दिने पृषतीनां ग्रहस्थानीयं त्वामृध्यासं वर्धयामि। त्वं पृषतीनां ग्रहेऽसि ग्रहस्थानीयमसि। विप्णोर्यज्ञस्य हृदयं प्रियमसि। हे इष सर्वैर्दवैरिष्यमाण विष्णुर्वज्ञस्त्वामेकं मुख्यं विचक्रमे विशेषेण स्वीकृतवान्। अत्रत्येन घृतेन दध्ना च तव भूतिर्माहात्म्यं वर्धताम्। तस्य तादृशस्येष्टस्य देवेभ्यो हुतस्य वीतस्य वेवैर्भक्षितस्य च् यद्द्रविणं फलमस्ति तन्मां प्रत्यागम्यादागच्छतु। त्वं वैश्वानरं ज्योतिरति विश्वेषा नराणां हितस्य भासकमसि पृश्नियै दुग्धमसि श्वेतवर्णाया गोःक्षीरमसि। अस्य च पृषदाज्यस्य पश्वनूयाजार्यत्वादग्नीषोमीयपशप्रपाठके पृथिव्यै त्वाऽन्तरिक्षाय त्वेत्येतस्मादनुवाकत्पूर्वमयं मन्त्रो द्रष्टव्यः।

कल्पः — ‘आग्नीध्रे प्रतिप्रस्थाता दधिधर्मं गृह्णात्यौदुय्बर्याँ स्त्रुच्युपस्तीर्य यावती द्यावापृथिवी इति दधि गृहीत्वाऽभिघार्य’ इति। पाठस्तु-

यावतीति। सप्त सिन्धवः समुद्राः ते च भागवतस्य पञ्चमस्कन्धे स्मर्यन्ते क्षारोदेक्षुरसोदसुरोदघृतोददधिमण्डोदक्षीरोदशुद्धोदाः सप्त जलधयः। हे इन्द्र द्यावापृथिवी द्यावापृथिव्यौ महित्वा स्वकीयेन महिम्ना यावती यावत्यौ यत्परिमाणे वर्तेते। किंच सप्त सिन्धवो वा यावद्वितस्तुर्यावन्तं कालं स्थितास्तावन्तं

[[1575]]

प्रपा. २ अनु. ६ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूषदाज्याभिधानम्)

ग्रहं गृह्णामि सर्वस्मिन्देशे सर्वस्मिन्काले त्वदीयं ग्रहमूर्जा सारेण सहास्तृतमविनाशितं यथा भवति तथा गृह्णामि। सोऽयं मन्त्रो ग्रहप्रपाठक इन्द्र मरुत्व इत्यस्मादनुवाकादूर्ध्वं द्रष्टव्यः।

यदुक्तं सूत्रकारेण-पृषदाज्यं स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य निर्णिज्य स्रुचँ शतमानं हिरण्यं स्रुच्यवधायेदं विष्णुर्विचक्रम इत्यन्यत्पृषदाज्यं गृहीत्वाऽश्वेनावघ्राप्याऽऽयतने सदयेत्’ इति। तत पुनर्ग्रहणं विधत्ते —

यत्कृष्णशकुन इति। पृषद्भिर्दधिबिन्दुभिर्मिश्रमाज्यं पृषदाज्यम्। तस्य पक्षिस्पर्शे श्वस्पर्शे भूमिपतनेन विनाशे च पुनर्ग्रहणं प्रायश्चित्तं तेन पशुविनाशो न भवति।

तदेतत्पुनर्ग्रहणं पशुविनाशदोषपरिहारेण प्रशस्य प्राणविनाशदोषपरिहारेणापि प्रसंसति —

प्राणो वा इति। ग्रहणपात्रे हिरण्यस्य प्रक्षेपं तत्परिमाणं च क्रमेण’ विधत्ते —

हिरण्यमवधायेति। गृहीतस्य पृषदाज्यस्याश्वमुखस्पर्शनं विधत्ते —

अश्वभवेति। अश्वस्य प्रजापत्यक्षिजन्यत्वात्प्राणस्य च स प्राणमसृजतेत्यादिश्रुतौ प्रजापतिसृष्टत्वाभिधानाच्च तयोरेककार्यत्वे सति प्राणस्य स्वकीययोनिरूपादश्वान्निर्माणं सिध्यति।

पृषदाज्यस्य पुनर्ग्रहणे विष्णो त्वं नो अन्तम इति मन्त्रं विधत्ते —

वि वा इति। विष्णो त्वं न इति मन्त्रो जुष्टो वाच हत्यनुवाके व्याख्यातः। आपस्तम्बस्य मते त्विदं विष्णुरिति वैष्णवी। सा च युञ्जते मन इत्यत्र व्याख्याता।

अत्र विनियोगसंग्रहः —

महीति पृषदाज्ये स्याद्यावतीति दघिग्रहे।
इदं विष्णुर्वैष्णवी स्यादिह मन्त्रास्त्रयो मताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके षष्टोऽनुवाकः॥६॥

[[1576]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे –
(स्तुतशस्त्राभिधानम्)