[अथ तृतीयकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः]।
भक्षेहि॒ माऽऽ वि॑श दीर्घायु॒त्वाय॑ शंतनु॒
त्वाय॑ रा॒यस्पोषा॑य वर्च॑से सुप्रजा॒स्त्वायेहि॑
वसो पुरोवसो प्रि॒यो मे॑ हृ॒दो॑ऽस्य॒श्विनो॑स्त्वा
वा॒हुभ्या सघ्यासं नृ॒चक्ष॑सं त्वा देव सोम
सु॒चक्षा॒ अव॑ ख्येपं म॒न्द्राभिभू॑तिः के॒तुर्य॒ज्ञानां॒
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒-
च्यदि॑ति॒रना॑हतशीर्ष्णी॒ वाग्जु॑षा॒णा सोम॑-
स्य तृप्य॒त्वेहि॑ विश्वचर्षणे [ १ ] शं॒भूर्म॑-
यो॒भू स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒ क्रत्वे॒ द-
क्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै॒ मा मा॑ राज॒-
न्वि वी॑भिषो॒ मा मे॒ हार्दि त्वि॒षा व॑धीः।
वृष॑णे॒ शुष्मा॒याऽऽयु॑ष॒ वर्च॑से। वसुमद्रणस्य
सोम देव ते मति॒विदः॑ प्रातः सव॒नस्य॑ गाय॒-
त्रछ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शस॑पीतस्य पि॒-
तृपी॑तस्य॒ मधु॑मत॒ उप॑हूतस्योप॑हूतो भक्षया-
मि रु॒द्रव॑द्गणस्य सोम देव ते मति॒विदो॒ मा
ध्यंदिनस्य॒ सव॑नस्य त्रि॒ष्टप्छ॑न्दस॒ इन्द्र॑पी-
तस्य॒ नराशँस॑पीतस्य ( २ ) पि॒तृपीतस्य॒
[[1558]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(भक्षमन्त्राभिधानम्)
मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयाम्यादि॒त्य-
व॑द्गणस्य सोम देवते मति॒विद॑स्तृ॒तीय॑स्य॒
सव॑नस्य॒ जग॑तीछन्दस॒ इन्द्र॑पीतस्य॒ नरा॒शँ-
स॑पीतस्य पि॒तृपीत॑स्य मधु॑मत उप॑हूत॒स्यो
प॑हूतो भक्षयामि। आ प्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्णियम्। भवा॒ वाजस्य
संग॒थे। हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णान्मे॒
मा वि तीतृषः। शि॒वो मे सप्त॒र्षीनुप॑ ति
ष्ठस्व॒ मा मेऽवाङ्नाभि॒मति॑ ( ३ ) गाः॒।
अपा॑म सोम॑म॒मृता॑ अभू॒माद॑र्श्म॒ ज्योति॒रवि॑-
दाम दे॒वान्। किम॒स्मान्कृणव॒दरा॑तिः॒ किमु॑
धू॒र्ति॑रमृत॒ म॒र्त्य॒स्य। यन्म॑ आ॒त्मनो मि॒न्दा-
ऽभू॒दग्निस्तत्पुन॒राऽहा॑र्जा॒तवे॑दा विच॑र्षाणिः।
पुन॑र॒ग्निश्चक्षु॑रदा॒त्पन॒रिन्द्रो॒ बृह॒स्पतिः॑। पु
न॑र्मे अश्विना यु॒वं चक्षु॒रा ध॑त्तम॒क्ष्यो। इ॒
ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य [ ४ ]
श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्रपीतस्य॒ मधु॑मत॒
उप॑हूत॒स्योप॑हूतो भक्षयामि। आ॒पूर्याः स्था-
ऽऽ मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च। ए॒तत्ते॑
तत॒ ये च॒ त्वामन्वे॒तत्ते पितामह प्रपितामह॒
ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गं म॑न्दध्वं॒
[[1559]]
प्रपा. २ अनु . ५ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(भक्षमन्त्राभिधानम्)
नमो वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शु-
ष्मा॑य॒ नमो व पितरो जी॒वाय॒ नमो॑ वः पि-
तरः [ ५ ] स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒
नमो॑ वः पितरो घो॒राय॒ पि॑तरो॑ नमो वो॒
य ए॒तस्मिल्ँ॑ लो॒क स्थ यु॒ष्माँस्तेऽनु॒ येऽस्मि
ल्लो॒के मां तेऽनु॒ य ए॒तस्मिल्ँ॑ लो॒के स्थ यू॒यं
तेषां॒ वसि॑ष्ठा भूयास्त॒ ये॑ऽस्मिल्ँ॑ लो॒के॑ऽहं तेषां॒
वसि॑ष्ठो भूयासं॒ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो
विश्वा॑ जा॒तानि परि॒ ता ब॑भूव [ ६ ] य-
त्का॑मास्ते जुहुमस्तन्नो अस्तु व॒यँ स्या॑म॒
पत॑यो रयी॒णाम्। दे॒वकृत॒स्यैन॑सोऽव॒यज॑न
मसि मनुष्यकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि पितृ
कृत॒स्यैन॑सोऽव॒यज॑नमस्य॒प्सु धौ॒तस्य॑ सोम
देव ते॒ नृभिः॑ सु॒तस्ये॒ष्टयजु॑षः स्तु॒मस्तो॑मस्य
श॒स्तोक्थ॑स्य॒ यो भ॒क्षो अ॑श्व॒सनि॒र्यो गो॒स-
नि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्षंकृ॑त॒स्योप॑हूत॒स्योप॑-
हूतो भक्षयामि [ ७ ]॥
(वि॒श्व॒च॒र्ष॒णे॒ त्रि॒ष्टुप्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शँपीत॒स्याति॑ स्तु॒तस्तो॑
मस्य जी॒वाय॒ नमो॑ वः पितरो बभू॒व चतु॑श्वत्वारिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके पञ्चमोऽनुवाकः॥५॥
[[1560]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(भक्षमन्त्राभिधानम्)
(अथ तृतीयकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः)।
स्फ्याद्युपस्थानमन्त्रा ये ते चतुर्थे समीरिताः।
अथ पञ्चमे भक्षमन्त्रा उच्यन्ते।
अल्पः – “भक्षेहीति भक्षमाह्रियमाणं प्रतीक्ष्य” इति। पाठस्तु —
भक्षेहि मेति। हे भक्षयोग्य सोमरस त्वं दीर्घायुत्वादिसिद्ध्यर्थमागच्छ मां प्रविश। सुखकारित्वं देहे शंतनुत्वम्। हे वसो निवासहेतोऽस्मान्वासयितुमागच्छ। हे पुरोवसो वासयितॄणां धनदीनां मध्ये प्रथमं वासयितृत्वान्मे हृदो मम चित्तस्य प्रियोऽसि।
अश्विनोरिति। कल्पः — ‘अश्विनोस्त्वा बाहुभ्याँ सध्यासमिति प्रातिगृह्य” इति।
हे भक्षाश्विनोर्देवानां भिषजोर्बाहुभ्यां त्वा सध्यार्स गृह्णामि।
कल्पः — “नृचक्षसं त्वा देव सोमेत्यवेक्ष्य “इति। पाठस्तु —
नृचक्षसमिति। हे सोम नृचक्षसं नृश्चेष्टे पश्यति तादृशं त्वां सुचक्षाः सुष्ठु द्रष्टाऽहमवख्येषमवेक्षे।
कल्पः – “मन्द्राभिभूतिरिति पातःसवने सर्वानैन्द्रान्भक्षयति नराशँ सपतिस्येति नाराशँसान्रुद्रवद्गणस्येति माध्यंदिन सवने सर्वानन्द्रान्भक्षयवि नराशँसपतिस्येति नाराशँसानादित्यवद्गणस्येति तृतीयसवने सर्वानन्द्रान्भक्षयति नराशँसपीतस्येति नाराशँसान्यदन्यत्प्राग्वसुमद्गणात्तत्सर्वत्रानुषजत्यप्यन्यदे (दै) वतानिन्द्रपतिस्येति यथादेवतं वा” इति।
अत्र नाराशंसनामकानां चमसानां लक्षणं सूत्रकारेणैव दर्सितम- “भक्षिता नाप्याययन्त्याप्यायस्व समेतु न इति ते नाराशंसाः” इति। पाठस्तु —
मन्द्राऽभिभूतिरिति। मुखस्थिता वाग्देवता सोमस्य जुषाणा सोमं सेवमाना तुप्यतु। कीदृशी वाक्। मन्द्रा हर्षहेतुः। अभिभूतिर्विन्धानामभिभवित्री। यज्ञानां केतुः करणभूता। आदरार्थं पुनरपि मन्द्रेत्यादिना प्रार्थ्यते। मन्द्रा हर्षहेतुः। स्वर्वाची सुष्टु आभिमुख्येन वर्तमाना। अदितिरण्डनीया अना-
[[1561]]
प्रपा. २ अनु . ५ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(भक्षमन्त्राभिधानम्)
हतशीर्ष्णी। शिरःशब्देन प्राधान्यात्प्रारम्भो लक्ष्यते। अप्रतिबुद्धप्रारम्भेत्यर्थः। वागित्यादि पूर्ववत्। चर्षणयो मनुष्याः विश्वे चर्षणयः स्वभूता यस्यासौ विश्वचर्षणिः। तथाविध हे सोमेह्यागच्छ। कीदृशः सोमः। शंभुः शान्तेर्भावयिता। मयोभूः सुखस्य भावयिता। तादृशः सन्नित्यन्वयः। हे हरिवर्ण हरिद्वर्ण स्वस्ति मा प्रचर यथा वान्तिरुपो विनाशो न भवति तथा मां प्रविश। किमर्थं क्रत्वादिसिद्ध्यर्थम्। दक्ष उत्साहः। हे राजन्मां वान्त्युपद्रवेण मा वीबीभिषो विशेषेण मा भीषय। हृदयपुण्डरीकेऽवस्थितं मनो हार्दि। तच्च मनस्त्विषा त्वदीय। या दीप्त्या मा वधीर्हिंसां मा कुरु। मनसि हिंसारहिते सति वृषादयः सिध्यन्ति। वृषेन्द्रियम्। शुष्मो बलम्। आयुर्दीर्घायुः। वर्चः कान्तिः। हे सोम देव ते तत्र संबन्धि यत्प्रातःसवं तस्य संबन्धी यो मधुमान्स इतरैरुपहूतोऽनुज्ञातः, तस्योपहूतस्याहमप्युपहतो भक्षयामि। कीदृशस्य ते। वसुमद्गणस्याष्टसंख्याका वसवो यस्मिन्गणे सोऽयं वसुमान्। तथाविधो गणो यस्य तव स त्वं वसुमद्गणस्तस्थाविधस्य। मतिविदः श्रद्धायुक्तानां यजमानानां मतिं वेत्तीति मतिवित्तस्य। कीदृशस्य प्रातःसवनस्य। गायत्रच्छन्दसो बहिष्पवमानादिषु मन्त्रेषु गायत्र्याख्यं छन्दो यस्य तद्गायत्रच्छन्दस्तस्य। इन्द्रपीतस्येन्द्रेण पीतः सोमो यस्मिन्सवने तदिन्द्रपीतं तस्य। नराशँसपीतस्य पितृपीतस्येति पदद्वयं नराशंसचमसभक्षण एव प्रभोक्तव्यं नान्यत्रेत्येकः पक्षः। सर्वत्र पठितव्यमित्यपरः पक्षः। नरैः शास्यन्त इति। नराशंसाः पितृविशेषास्तैः पीतः सोमो यस्मिन्सवने तन्नराशंसपीतं तस्य। अयमेवार्थः पितृपीतस्येत्यनेन स्पष्टीकृतः। रुद्रवद्गणस्याऽऽदित्यबद्गणस्येत्येतावपि मन्त्रौ पूर्ववद्व्याख्येयौ। तत्रोभयत्र मन्द्रादिरनुषज्यते।
कल्पः — “भक्षितानाप्यायमन्त्याप्यायस्व समेतु त इति ते नारशंसाः” इति। पाठस्तु —
आ प्यायस्वति। हे सोम त्वमाप्यायस्व सर्वतो वर्धस्व। ते तव वृष्णियं वीर्यं विश्वतः समेतु सर्वतः संगच्छताम्। त्वमपि वाजस्यान्नस्य संगथे संगमने निमित्तं भव।
[[1562]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(भक्षमन्त्राभिधानम्)
कल्पः — “हिन्व मे गात्रा हरिव इति भक्षयित्वा नाभिदेशानभिमृशन्ते” इति। पाठस्तु —
हिन्व मे गात्रेति। हे हरिवो हरितवर्ण सोम मे गात्रा ममाङ्गानि हिन्वप्रीणय मदीयान्गणादिसमूहान्मा वितीतृषः सोमपाने तृष्णारहितान्मा कुरु। किंतु सर्वदा तदिच्छान्कुरु। किंच, त्वं शिवो भूत्वा सप्तर्षिन्मूर्धाच्छिद्रसप्तकावस्थितान्मदीयान्प्राणानुपतिष्ठस्व। तर्पयेत्यर्थः। किंच मे मदीयां नाभिमतीत्य मा गा अधोद्वारेण मा निर्गच्छेत्यर्थः।
कल्पः — “समित्पाणय उन्नेतारं पुरस्कृत्याप्रतीक्षमायनत्यपाम सोममिति महीयां वदन्तः” इति।
अतः पूर्वोक्ताः सर्वे मन्त्रा ऋतुग्रहानुवाकात्पूर्वं द्रष्टव्याः। अपाम सोमं त्ययं तु मन्त्रोऽवभृथाङ्गत्वादुरुँ हि राजेत्यनुवाके प्रत्यस्तो वरुणस्य पाश इत्य स्मादुपरिष्टाद्द्रष्टव्याः पाठस्तु —
अपाम सोममिति। वयं सर्वे सोममपाम तेन पीतेनामृता देवा अभूम। आशंसाद्योतनाय भूतार्थनिर्देशः। ज्योतिरादित्यस्वरूपमदर्श्म दृष्टवन्तो देवानिन्द्रादीनविदाम लब्धवन्तः। ईदृशानस्मानरातिः पापरूपः शत्रुः किं कृणवत्किं करिष्यति। मर्त्यस्य मनुष्यशरीरधारिणो या धूर्तिर्हिंसा सेयममृत किमु अमृतानस्मान्किं नाम कस्ष्यिति अथवा धूर्तिरमृत, अस्माद्विषया हिंसा स्वयमेव नष्टा। सा तादृशी नोऽस्मान्बाधत इति किमु वक्तव्यम्। कल्पः —
“यन्म आत्मनो मिन्दाऽभूदिति मिन्दयाऽऽहवनीयमुपतिष्ठन्ते ” इति। पाठस्तु —
यन्म आत्मन इति। मे मम ऋत्विजो यदङ्गमात्मनो मिन्दाऽभूत्स्वरूपान्मिन्दितं हिंसितमभूत्, अग्निस्तदङ्गं पुनराहाराहरतु। कीदृशोऽग्निर्जातवेदा जातमुत्पन्नं यज्ञच्छिद्रं वेत्तीति जातवेदाः। विचर्षणिस्तत्पुनः समाधातुं विचक्षणः।
तत्रैव विकल्पितं मन्त्रान्तरमाह —
[[1563]]
प्रपा. २ अनु . ५ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(भक्षमन्त्राभिधानम्)
पुनरग्निरिति। यज्ञे यदङ्गं न्यूनं भवति तेन यजमानस्यैव चक्षुर्हीयते। “यज्ञं पराभवन्तं यजमानोऽनु पराभवति” इति श्रुत्यन्तरात्। अस्मादयमग्निर्यज्ञाङ्गसमाधानेन यजमानाय मह्यमेव चक्षुः पुनर्दत्तवान्। तथैवेन्द्रो बृहस्पतिश्च यज्ञाङ्गं समाधाय मदीयं चक्षुः पुनर्दत्तवन्तौ। अश्विनौ युवामव्यक्ष्योर्मदीयाक्ष्णोश्चक्षुर्दर्शनसामर्थ्यमाधत्तम्।
कल्पः — “सर्वे हारियोजनं भक्षयन्तीष्टयजुषस्ते देव सोम” इति। पाठस्तु—
इष्टयजुष इति। हे सोम देव ते तव संबन्धिरसमुपहूतरैनुज्ञातैरनुज्ञातोऽहं भक्षयामि। कीदृशस्य ते, इष्टयजुष इष्टसाधनानि यागसाधनानि यजूंषियस्य सोऽयमिष्टयजुस्तस्य। स्तुताः स्तोमाः सामावृत्तिलक्षणानि स्तोत्राणि यस्य सोऽयं सुतस्तोमस्तस्य। शस्तानि शंसितान्युक्थानि शस्त्राणि यस्य सोऽयं शश्तोक्थस्तस्य। हरिर्हरितवर्णः। सोऽस्यास्तीति हरिवांस्तस्य। इन्द्रेण पतिस्तस्य। मधु माधुर्यमस्यास्तीति मधुमांस्तस्य। अन्यैरजुज्ञात उपहूतस्तस्य।
कल्पः— “आपूर्याः स्थाऽऽमा पूरयतेत्युत्तरवेद्याँ शेषान्न्युप्य” इति। शेषानवशिष्टान्धानासोमभागान्। पाठस्तु —
आपूर्या इति। हे धानाः सोमशेषा यूग्रमापूर्याः स्थ सर्वतः पूर्णाः स्थिताः। अतो मां प्रजया च धनेन च सर्वतः पूरयत। यन्म आत्मन इत्यादयो मन्त्रा हरिरसि हारियोजन इत्यनुवाकान्ते द्रष्टव्याः।
कल्पः- “सर्वे स्वं स्वं चमसमनून्यन्ते त्रींस्त्रीन्पुरोडाशशकलानुपवपन्त एतत्ते तत ये च त्वामन्विश्येतैः प्रतिमन्त्रम्” इति।
चमसमनून्यन्ते चमससमीपे। पाठस्तु —
एतत्ते ततेति। है ततास्मत्पितरेतत्पुरोडाशशकलरूपं ते तवान्नं, ये चान्ये त्वामनुगतास्तेषामप्येतदन्नम् पितामहेतिमन्त्रे ये च त्वामन्वित्युत्तरानुषङ्गः। प्रपितामहेति मन्त्र एतत्त इति पूर्वानुषङ्गः। हे पितरः सर्वेऽपि यूयमवास्मिन्कर्मणि यथामागं स्वस्वभागनुसारेण मन्तध्वं हृष्टा भवत।
कल्पः — “नमो वः पितरो रसायेति नमस्काराञ्जपति” इति। पाठस्तु —
[[1564]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(भक्षमन्त्राभिधानम्)
नमो व इति। हे पितरो युष्माकं यो रसः सारस्तस्मै नमः। एवमुत्तरत्र। शुष्माय बलाय। जीवाय जीवात्मने। स्वधायै भवतीयहविर्दात्र्यै। मन्यवे क्रोधाय। घोराय शिक्षारूपोग्रकार्यय। हे पितरो युष्मभ्यमपि नमोऽस्तु। ये यूममन्यैः सहेतस्मिन्पितृलोक स्थ ते युष्माननुवर्तन्ताम्। ये यूयमस्मिँलोके स्थ यूयं मामनुवर्तध्वम्। अन्यैर्बहुभिः सह ये यूयमेतस्मिन्पितृलोके स्थ तेषामन्येषां वसिष्ठा वासयितृतमा यूयं भूयास्त ये च मनुष्या अस्मिलोँके मया सह स्थितास्तेषां मनुष्याणां वासयितृतमो भूयासम्।
कल्पः- “प्रजापते न त्वदेतानीनि प्राजापत्ययर्चा वितिष्ठन्ते” इति। वियुज्य गच्छेयुरित्यर्थः। पाठस्तु —
प्रजापते नेति। हे प्रजापते त्वदन्यः कोऽपि पुरुष उत्पन्नानि तान्येतानि विश्वानि न परिबभूव परिभवितुं समर्थो नाभूत्। परिभवः सृष्टेरप्युपलक्षणम्। सृष्टिसंहारयोः शक्त इत्यर्थः। अतस्ते तव वयं यत्कामा जुहुमस्तत्फलमस्माकमस्तु। वयं धनानां पतयः स्याम। एतत्ते ततेत्याद्या मन्त्रा वाममद्य सवितरित्यस्मादनुवाकात्पूर्वं द्रष्टव्याः।
देवकृतस्येति। “देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यत्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनस एनसोऽवयजनमसि स्वाहेस्याहवनीयेष्टशकलान्यभ्याधाय” इति।
अत्र शकलानामभ्याधातारः सर्वेऽपि हारियोजनभक्षिणः। आत्मकृतस्येत्यादिमन्त्रत्रयं शाखान्तरगतम्। हे शकल देवविषये यदस्माभिः कृतमेनस्तस्यावयजनं विनाशकमसि। एवं मनुष्यपितृमन्त्रयोर्योज्यम्।
कल्पः — “अपरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वं स्वं चमसरसमवघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव त इति “इति। पाठस्तु —
अप्सु धौतस्येति। हे सोम देव प्रक्षालनाभिषवादिविशेषणोपेत यस्तेसंबन्धी यो भक्षणभागोऽश्वसनिरश्वप्रदो यश्च गोसनिर्गोप्रदस्त्वदीयस्य तस्य भक्षभावस्य पितृभिरपि स्वभक्षत्वेन स्वीकृतस्येतरेरनुज्ञातस्यांशमन्यैरनुज्ञातोऽहमाघ्राणेन
[[1565]]
प्रपा. २ अनु . ५ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(भक्षमन्त्राभिधानम्)
भक्षयामि। देवकृतस्याप्सु धौतस्येत्येते मन्त्रा हरिरसीत्येतस्मादनुवाकादूर्ध्वं द्रष्टव्याः।
अत्र विनियोगसंग्रहः —
भक्ष भक्ष्यं (क्षं) प्रतीक्ष्याश्वि गृहीत्वा नृ च वीक्षते।
मन्द्रेति भक्षयेत्त्रेधा वसुरुद्रादिभेदतः॥
आप्या भक्षितमाप्याय्य हिन्व नाभ्यभिमर्शनम्।
अपाम कृत्वाऽवभृथं समायात्यप्रतीक्षण्म्॥
यन्मे पुनर्भजेदग्निमिष्टाद्याद्धारियोजनम्।
आपू वेद्यां शेषवाप एतत्ते त्रिभिरावपेत्॥
पुरोडाशांशकान्भूमौ नमश्चमसिनां जपः।
प्रजा चमसिनो यान्ति देववह्नौ समित्त्रयम॥
अप्सु जिघ्रन्ति तच्छेषं द्वाविंशतिरिहोदिताः॥
अत्र मीमांसा।
तृतीयाध्यायस्य द्वितीयपादे चिन्तितम्।
“भक्षेहीत्यनुवाकोऽयं सर्वो भक्षणयोग्युत।
ग्रहणादौ यथालिङ्गं विभज्य व्ययतिष्ठते॥
अविधेर्ग्रहणादीनां भक्षणे निखिलस्तु सः।
अर्थाक्षिप्तेष्वेतेष्वेव यथालिङ्गं विभज्यते॥
ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् — “अभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति” इति। तस्मिन्भक्षणे ग्रहणावेक्षणानिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति। मन्त्राश्च भक्षेहीत्याद्यनुवाके समाम्नाताः। तत्र भक्षणं यथा साक्षाञ्चोदितं न तथा ग्रहणावेक्षणनिगरणजरणानि चोदितानि। न चाविहितेषु मन्त्रा विनियोगमर्हन्ति। समाख्या तु भक्षानुवाक इत्येवंरूपा भक्षणमात्रविषया। तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगे इति प्राप्ते ब्रूमः — अविहितान्यपि ग्रहणातीन्यर्थाक्षिप्तानि। तद्व्यतिरेकेण
[[1566]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(भक्षमन्त्राभिधानम्)
भक्षणासंभवात्। अतस्तेष्वप्यनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः। तत्र भक्षेहीत्यारभ्याश्विनोस्त्वा बाहुभ्याँ सध्यासमित्यन्तो ग्रहणं प्रकाशयति। एहीत्याह्वानस्य बाहुभ्यां स्वी करवाणीत्येतस्य च दर्शनात्। नृचक्षसं त्वा देव सोम सुचक्षा अवख्येवमित्ययं भागोऽवेक्षणं प्रकाशयति। सोभनचक्षुरहं मनुष्येषु प्रख्यातं त्वामवेक्षिषीयेत्यभिधानात्। हिन्व मे गात्रा इत्यादिर्मा मेऽवाङ्नाभिमति गा इत्यन्तः सम्यग्जरणं प्रकाशयति। गात्रप्रीणनेनाधोभागे नाभेरतिक्रमनिषेधेन च तदवगमात्। जरणं नार्थाक्षिप्तं तेन विनाऽपि भक्षणसिद्धेरिति चेत्। न। जरणपर्यन्तस्यैव सार्थकभक्षणत्वात। न च चरणे पुरपव्यापाराभावः। सम्यगुपदेशनादेर्भक्ष(जंर)णार्थत्वात्। मन्द्राभिभूतिरित्यादिर्भक्षयामीत्यन्तो भक्षणं प्रकाशयति। तस्माल्लिङ्गेन समाख्यां बाधित्वा विभज्य विनियोगः कर्तव्यः।
तत्रैवान्यच्चिन्तितम् —
“मन्द्रेति वसुप्रदेति द्वयं तर्पणभक्षयोः।
विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे॥
लिङ्गाद्विभागो नैवं नो तृप्तिभक्षणतोऽन्यतः।
लिङ्गस्यासंभवे वाक्यशेषात्सर्वोऽस्तु भक्षणे”॥
मन्द्राऽभिभूतिरित्यादिर्जुषाणा सोमस्य तृप्यन्वित्यन्तो भागो इष्टाया अरुचिमभीभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति। वसुमद्गणस्येत्यादिर्भक्षयामायन्तो भागो भक्षणप्रकाशकः। तत्र पूर्ववल्लिङ्गेन विभज्य विनियोग इति चेन्मैवम्। न खलु तृप्तिर्भक्षणादन्येन व्यापरेण जायते। किं तर्हि भक्षणाननिष्पादिनी हि सा। तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत। ततो लिङ्गेन विनियोगासंभवाद्भक्षणमन्त्रवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति। उपयुक्तश्च तत्रायं भागस्तृप्तिसहितभक्षप्रकाशेन पुरुषोत्साहजनकत्वात् तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते।
तत्रैवान्यच्छिन्तितम् —
[[1567]]
प्रपा. २ अनु . ५ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(भक्षमन्त्राभिधानम्)
“इन्द्रपीतस्योति भक्षमन्त्रांश कमिहैन्द्रके।
केवलेऽन्यत्र चोहाद्वा सर्वत्रोत यथाश्रुतम्॥
ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम्।
ऊहो वाऽन्येषु कर्मैक्येऽप्यस्त्यूहो भक्षभेदतः॥
इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात्।
सवनस्थेषु सर्वेषु मन्त्रोऽनूहेन पठ्यते”॥
भक्षमन्त्रे कश्चिदंश इन्द्रपीतस्येत्येवंविधः श्रूयते। तत्रेन्द्रेण पीतस्य सोमस्य शेषं भक्षयामीत्यर्थो भवति। तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे। तस्मादमन्त्रकमेव तद्भक्षणमित्येकः पूर्वपक्षः। इन्द्रपीतस्येतिपदस्यासमर्थत्वेऽपि मित्रावरुणपीतस्येत्येवमूहे सति सामर्थ्यं भविष्यति। नन्वाग्नेययागस्य प्रकृतित्वात्तद्गतस्याग्नये जुष्टामिति मन्त्रस्य विकृतौ सौर्यचरौ सूर्याय जुष्टमित्यूहः क्रियते। इह तु कर्मैक्यान्नोह इति चेत्। न। कर्मभेद इव भक्षभेदेऽप्यूहितुं शक्यत्वादिति द्वितीयः पूर्वपक्षः। इन्द्रपीतस्येत्यत्र बहुव्रीहिर्द्रष्टव्यः। तत्पुरुषत्वे समासत्येति सूत्रेणा तोदात्तत्वप्रसङ्गात्। आद्युदात्तं चैतत्पदमाम्नातम्। इन्द्रप्रातिपदिकं तु स्वत आद्युदात्तम्। तथा सति बहुब्रीहौ प्रकृत्या पूर्वपदमिति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तं पदमप्याद्युदात्तमेव संपद्यते। इन्द्रेण पीतः सोमो यस्मिन्सवन इति विग्रहात्सवनपरत्वे सत्यैन्द्रभक्षण एवेति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनायं मन्त्रः प्रयोक्तव्यः। विशेष्यं च सवनं तस्मिन्वाक्य एवमाम्नातम् — प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्येति। तस्मादन्त्यः पक्षो राद्धान्तः।
तत्रैवान्यच्चिन्तितम् -
“ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके।
इन्द्रे हुतेऽथ तच्छेषे होत्रकेश्चमसस्थिते॥
सोमोऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा।
इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषेऽन्यार्थता यतः॥
[[1568]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(भक्षमन्त्राभिधानम्)
उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः।
अत इन्द्रस्य सिद्ध्यर्थं लक्ष्योऽसावितरैः सह”॥
पूर्वाधिकरणे योऽयमूहरूपो द्वितीयः पूर्वः पक्षः, तत्प्रसङ्गात्कृत्वाचिन्तारूपेणन्यायपञ्चकेनोहविषयश्चिन्त्यते। मैत्रावरुणब्राह्मणाच्छंसिपीत्रादय ऋत्विजो होत्रकाः। तेषां सन्ति चमसाः। पात्रविशेषस्थिता सोमरसाश्चमसाः। तैर्वषट्कारानुवषट्कारयोर्होतव्यम्। तेषां चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः। अनन्तरं चमसस्थे हुतशेषे पुनः सोमान्तरमभ्युन्नीयं तेन देवान्तरेभ्यो होत्रका जुह्वति। तत्र मैत्रावरुणो मित्रं वयं हवामह इति मन्त्रेण मित्रावरुणौ यजति। ब्राह्मणाच्छंसी इन्द्र त्वा वृषभं वयमिति मन्त्रेणेन्द्रं यजति। पोता मरुतो यस्य हि क्षय इति मन्त्रेण मरुतो यजति। एवं हुत्वा पश्चात्सोमो भक्ष्यते। तस्मिन्भक्ष्यमाणे मित्रावरुणपीतस्येति मन्त्र ऊहनीयः। तदानीमिन्द्रमित्रावरुणपीतस्येत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः। कुतः। शेषस्यान्यार्थत्वात्। इन्द्रशेषे पुनरभ्युन्नीतस्य तेन शेषेण सह मित्रावरुणाद्यर्थत्वं सति तस्येन्द्रसंबन्धराहित्यात्पुनरुन्नीतस्यैवान्यार्थत्वं न पूर्वशेषस्येति चेन्न। उन्नयनकाले मित्रावरुणाद्यर्थोऽयमितिसंकल्पाभावात्। प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिन्यः प्रदीयते। तस्मादिन्द्रसंबन्धराहित्यान्नेन्द्रा लक्षणीय इति प्राप्ते ब्रूमः — मा भूत्संकल्पः। तथाऽप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव। न तु तस्य पूर्वानुष्ठितेन्द्रयागार्थत्वं संभवति। तस्मादुन्नीत मैत्रावरुणादिसंबन्धः शेष इन्द्रसंबन्ध एवेत्युभयभक्ष्णे मित्रावरुणादीभिः सहेन्द्रोऽप्युपलक्षणीयः। तत्रैवान्यच्चिन्तितम् —
“द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम्।
स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति॥
तद्भक्षणे द्विदेवाः किं सार्धं पात्नीवतेन ते।
उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम्॥
अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते।
आकाङ्क्षा पर्वदेवेषु पत्नीवानेव लक्ष्यते”॥
[[1569]]
प्रपा. २ अनु . ५ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(भक्षमन्त्राभिधानम्)
ऐन्द्रवायवादयो द्विदेवत्याः। तेषां शेष आदित्यस्थलीमागच्छति। पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागाच्छति। तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते। तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः। पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितस्तद्वदिति प्राप्ते ब्रूमः — यदुपाँशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णातीत्यग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतस्य सोमरसस्य तत्संबन्धे ज्ञाते सति पश्चात्पात्नीवद्देवतायै ग्रहणं भवति। तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति। पुनरभ्युन्नीतस्तु सोम ऐन्द्रशेषेण संसष्टः। तस्य संसृष्टस्य भक्षणे मित्रावारुणादीनाभिवेन्द्रस्यापि संबन्धो नापैतीति वैषभ्यम्। तस्मात्पात्नवितभक्षण इन्द्रवाय्वादयो नोपलक्षणीयाः तत्रैवान्यच्चिन्तितम् —
“सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा।
सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सोऽपि लक्ष्यते॥
सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात्।
चोदनायामभानाच्च न देवोऽतो न लक्ष्यते”॥
तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रेण पत्नीवता सह त्वष्टाऽप्युपलक्षणीयः। कुतः। त्वष्टुरपि तद्देवत्वात्। तच्च होममन्त्रादवगतम्। अग्ना३इ पत्नीवा ३: सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहेत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन पदेन संबोध्य तस्य त्वष्ट्रा देवेन सह पिबेत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम्। ततः पत्नीवत्त्वष्टृपीतस्येत्पुलक्षणमिति प्राप्ते ब्रूमः — पानकाले सहावस्थानमात्रं त्वष्टुः सजूरित्यनेन पदेन प्रतीयते, न तु पातृत्वमसंबोधितस्य त्वष्टुः पिबेत्यनेन सामानाधिकरण्याभावात्। न च पातृसहभावमात्रेण पातृत्वम्। सहैव दशभिः पुत्रैर्भारं वहति गर्दभीत्यत्र पुत्राणां वोढृत्वादर्शनात्। आस्तां मन्त्रविधिबलात्त्वष्टुर्देवतात्वमिति चेन्न। पात्नीवतमाग्रयणाद्गृह्णातीत्यत्र त्वष्टुरप्रतीतेः। तस्माददेवता त्वष्टा नोपलक्षणीयः। तत्रैवान्यञ्चिन्तितम् —
[[1570]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(भक्षमन्त्राभिधानम्)
“पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी।
लक्ष्या न वा याज्ययोक्तेर्देवत्वादुपलक्षणम्॥
एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना।
अतोऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम्”॥
तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य पत्नीवन्नामधारिणस्त्रयास्त्रिंशद्दवान्मादयेत्यभिधीयते — “पात्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व” इति। अनुष्वधमनुप्रदानम्। अत्र हूयमानेव सोमरसेन मादनीयत्वात्त्रयस्त्रिंशतां तद्देवत्वम्। अतस्तेऽपि भक्षणे लक्षणीया इति चेन्न। यजमानेन मादनीयस्याग्नेरेव देवतात्वात्। त्रयस्त्रिंशद्देवतास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम्। तस्मान्नोपलक्षणम्। तत्रैवान्यच्चिन्तितम् —
“सोमस्याग्न इति प्रोक्ताऽनुवषट्कारदेवता।
लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा॥
प्रकृतौ विद्यमानोऽग्निरनुद्देशादलक्षितः।
उद्देश्येन्द्रो लक्षितोऽतो विकृतावपि तत्तथा”॥
सोमस्याग्ने त्रीहीत्यनुयजतीति श्रुयते। तत्रानुवषट्कारस्य। मान्त्रवर्णिकोऽग्निर्देवता। न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम्। मन्त्रे वह्निं संबोध्य सोम पातृत्वाभिधानात्। तस्मादग्निलक्षणीय इति चेन्न। प्रकृतावलक्षितत्वात्। ऐन्द्राचमसः प्रकृतिरितरे विकृतिरूपाः। तथा हि-ऐन्द्रः सोमो गृह्यते मयिते च। ते नैन्द्रेष्वेव सोमः। अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव। अनैन्द्रा अधर्मकाः। धर्माकाङ्क्षायां चोदकेन सधर्मका इति विकृतित्वम्। गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वमिन्द्राय त्वा वसुमते इत्यादिग्रहणमन्त्रादवगम्य ते। तस्य प्रकृतिभूतस्येनद्रचमसस्य भक्षणेऽग्निरनुवषट्कारदेवो नोपलक्षितः। कुतः। ग्रहणे तदुद्देशाभावात्। इन्द्रस्तूद्देश्यत्वादुपलक्षितः एवं विकृतावप्युद्देश्यदेवानामेवोपलक्षमं न्याय्यम्। तस्मादग्निर्नोपलक्ष्यः।
[[1571]]
प्रपा. २ अनु . ५ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(भक्षमन्त्राभिधानम्)
तत्रैवान्यच्चिन्तितम्—
“अमन्त्रप (भ) क्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम्।
ऊहोऽस्ति नो वा सोऽस्त्यत्र विकृतौ तस्य संभवात्॥
सोमेनेति विधेः सर्वप्रदानेषु समत्वतः।
अविकारेष्वनूहोऽतो नैन्द्रै निर्मन्त्रभक्षणम्”॥
उक्ताभ्यः पञ्चभ्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नधिकरणे योऽयमनैन्द्रैष्वमन्त्रभक्षणमिति प्रथमः पूर्वः पक्षस्तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते। अनैन्द्रेषूक्तरीत्या विकृतित्वेनोहसंभवादस्त्यूह इति चेन्न। अनैन्द्राणां विकृतित्वासंभवात्। सोमेन यजेतेत्युत्पत्तिश्रुतः सोमः कर्मणोऽङ्गं न तु प्रदानविशेषस्य कस्यचिदङ्गम्। स एव च सोमः सर्वपदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि। अत ऐन्द्राणामनैन्द्राणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः।
इन्द्राय त्वा वसुमत इत्यादिमन्त्रो लिङ्गादैन्द्रमात्रविषयत्वादनैन्द्रैष्वमन्त्रभक्षः।
तत्रैवान्यच्चिन्तितम् —
“समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम।
ऐन्द्राग्नेऽपीन्द्रपीतत्वसंभवात्तत्समन्त्रकम्॥
न पानमशरीरस्य युक्तं दानं तु मिश्रितम।
मन्त्रोऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम्”॥
यदेतदैन्द्राग्नं गृह्णातीति विहितं शेषभक्षणं तत्रैन्द्राग्निभ्यां पीतः सोम इन्द्रेणादि पीतो भवतीति लिङ्नैव विनियोगात्समन्त्रकं भक्षणमिति चेन्मैवम्। नव माध्याये यक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य दानासंभवात्। अथ पीतशब्देन दानं विवक्ष्येत तदानीमिन्द्राय दत्तः सोम इति मन्त्रार्थो भवति। न चात्र यजमान इन्द्रमुद्दिश्य ददौ किंत्विन्दाग्नी उद्दिश्य। तस्माद्दानं मिश्रविषयं, मन्त्रस्तु न मिश्रविषय इत्यमन्त्रकमत्र भक्षणम्। अत्रैवान्यच्चिन्तितम्-
[[1572]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे –
(पूषदाज्याभिधानम्)
ऐन्द्रदानेऽपि गायत्रमात्रयुक्तेऽथवेतरैः।
छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे यथोक्तितः॥
द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित्।
नानाछन्द्रस्यैन्द्र एव कृत्वाचिन्तेत्थमीरिता॥
सवनार्थेन्द्रपीतोक्तिरित्युद्घाटनमीरितम्।
तेन सर्वप्रदानेषु मन्त्रपाठो यथास्थितः॥
तस्मिन्नेव भक्षमन्त्रे गायत्रछन्दस इन्द्रपीतस्येति श्रूयते। गायत्रमेव च्छन्दो यस्येति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षणमन्त्र इति चेन्मैवम्। बहुच्छन्दोयुक्तेऽपि बहुव्रीहेः समानत्वादेवकारं परित्यज्य गायत्रे छन्दो यस्येतिविग्रहसंभवात्। एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति। तस्मान्नानाछब्दस्के सोम ऐन्द्रप्रदान एव मन्त्रो नान्यत्र। तदेवं कृत्वाचिन्तात्रवं समापितम्। द्विविधा कृत्वाचिन्तोद्धाटना तु प्रागेव सिद्धान्तिना दर्शिता।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके पञ्चमोऽनुवाकः॥५॥