(अथ तृतीयाष्टके द्वितीयप्रपाठके चतुर्थोऽनुवाकः )
स्फ्यः स्वस्तिर्विघ॒नः स्व॒स्तिः फर्शु॒र्वेदिः॑
परशुनः स्वस्तिः। य॒ज्ञिया॑ यज्ञकृतः॑ स्थ॒ ते
[[1552]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(स्फ्याद्युपस्थानमन्त्राभिधानम्)
भाऽस्मिन्यज्ञ उप॑ ह्वयध्व॒मुप॑ मा॒ द्यावा॑पृ-
थि॒वी ह्वयेता॒मुपा॑ऽऽस्ता॒वः क॒लशः॒ सोमो
अ॒ग्निरुप॑ देवा उप॑ यज्ञ उप॑ मा॒ होत्रा॑ उप-
हे॒व ह्व॑यन्तां॒ नमोऽग्नय मख॒घ्ने म॒खस्य॑ मा
यशो॑ऽर्या॒दित्या॑हवनीयमुप॑ तिष्ठते य॒ज्ञो वै
म॒खः [१] य॒ज्ञं वाव स तद॑ह॒न्तस्मा॑ ए॒व
न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनो॑ऽनार्त्यै॒ नमो॑
रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्य सदः प्र स॑र्पत्या॒-
त्मनोऽनार्त्यै॒ नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यं मे॑
वी॒र्यं॑ मा निर्व॑धी॒रिति॑ द्वोत्रीय॑माशिष॑मे॒वैता-
मा शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्यानिसाताय या
वै ( २ ) दे॒वताः॒ सद॒स्यार्तिमा॒फ्यान्त॒ यस्ता
वि॒द्वान्प्र॒सर्पति॒ न सद॒स्यार्ति॒मार्छति॒ नमो॒ऽ
ग्नये मख॒घ्न इत्याहै॒ता वै दे॒वताः॒ सद॒स्या-
र्ति॒माऽर्प॑यन्ति॒ ता य ए॒वं वि॒द्वान्प्रसर्प॑ति न
सद॒स्यार्ति॒मार्छ॑ति दृ॒ढे स्थः॑ शिथि॒रे स॒मी
ची माऽँह॑सस्पातँ सूर्यो॑ मा दे॒वो दि॒व्या
दँह॑सस्पातु वा॒युर॒न्तरि॑क्षात् [३] अ॒ग्निः
पृ॑थि॒व्या य॒मः पि॒तृभ्यः॒ सर॑स्वती मुनु॒ष्ये॑भ्यो॒
देवी द्वारौ॒ मा मा॒ सं ता॑प्तं नमः सद॑से
नमः सद॑स॒स्पत॑ये॒ नमः॒ सखी॑नां पुरो॒गाणां
[[1553]]
प्रपा. ३ अनु . ४ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(स्फ्याद्युपस्थानमन्त्राभिधानम्)
चक्षु॑षे नमो दि॒वे नभः॑ पृथिव्याः अह दधि-
ष॒व्योदत॑स्ति॒ष्ठान्यस्य॒ सद॑ने सीद या॑ऽस्मत्पा-
कत॒र उन्नि॒वत॒ उदु॒द्वत॑श्च गेषं पात मा॑
द्यावापृथिवी अ॒द्याह्रः॒ सदो॒ वै प्र॒सपन्तम्
[४] पि॒तरोऽनु प्र स॑र्पन्ति॒ त ए॑नमीश्वरा
हिँ सि॑तोः॒ सदः॑ प्र॒सृप्य॑ दक्षिणा॒र्धं परे॑क्षे-
ताऽग॑न्त पितरः पितृ॒मान॒हं यु॒ष्माभि॑र्भूयासँ
सुप्रजसो मया॑ यू॒यं र्भूया॒स्तेति॒ तेभ्यः॑ एव
नमस्कृत्य सदः प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै
(५)॥
(म॒खो वा अ॒न्तराक्षात्प्रसपन्तं त्रयस्त्रिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके चतुर्थोऽनुवाकः॥४॥
अथ तृतीयाष्टके तृतीयप्रपाठके चतुर्थोऽनुवाकः।
कल्पः “स्फ्यः स्वस्तिरित्यत्करे वेदिकरणानि परास्योपतिष्ठते” इति।
पाठस्तु —
स्फ्यः स्वस्तिरिति। स्फ्यः खननहेतुः। विघनो भूमिघट्ट्नहेतुः। पशुं स्तृणादिच्छेदनहेतुः। परशुर्वृक्षादिच्छेदनहेतुः। तत्रायं स्फ्यः स्वस्तिरविनाशहेतुरस्तु। एवमितरेष्वपि योज्यम्। एतैः स्फ्यादिभिर्निष्पन्ना वेदिरपि नोऽस्माकं स्वस्तिरस्तु। हे स्फ्यादयो यूयं यज्ञिया यज्ञार्हा अतोऽत्र यज्ञकृतः स्थ यज्ञसंपादका भवतु। ते यूयं मामस्मिन्यज्ञ उपह्रयध्वमनुजानीत।
[[1554]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(स्फ्याद्युपस्थानमन्त्राभिधानम्)
कल्पः- “उप मा द्यावापृथिवी इति द्यावपृथिवी उपाऽऽस्ताव इति बहिष्पवमानास्तावं कलश इति कलशंसोम इति सोममग्निरित्यग्रिमुप देवा इति देवानुप यज्ञ इति यज्ञमुप मा होत्रा इति होत्रकान्ह्वयतां ह्वयन्तां ह्वयतामिति यथालिङ्गं सर्वत्रानुषजति” इति। एतेषां पाठस्तु —
उप मेति। इमे द्यावापृथिव्या मामपह्वयेतां मामनुजानीताम्।अयमास्तावो बहिष्पवमानदेशः। अत्र यथायोगमनुषङ्गद्योतनाययोपशब्दः प्रयुक्ता। एवं द्रोणकलशादिषु। योज्यम् तत्र तत्रोशब्दश्चानुषङ्गद्योतनाय प्रयुक्तः। उपषह्वयतेऽस्मिन्नित्युपहवो यज्ञस्तस्मिन्यज्ञे प्रशास्तृब्राह्मणाच्छंस्यादयो होत्रका मामुषह्वयन्ताम्। एतैर्मन्त्रैर्यथावद्यज्ञाङ्गत्मुपश्तातव्यम्।
आहवनीयस्योपस्थानं विधत्ते —
नमोऽग्नय इति। नमस्कराभावे मखं यज्ञं हन्तीति मखहा तस्मै मखघ्नेऽग्नये नमोऽस्तु। तस्य प्रसादान्मखस्य यशो यज्ञानुष्ठानकीर्तिर्मामर्यात्प्राप्नोतु। अस्मिन्मन्त्रे मखशब्देन यज्ञ उच्यते। यज्ञमेव सोऽग्निस्तदा हन्ति यदा नमस्कारो न क्रियते। अतस्तस्मा एव नमस्कृत्य सदःप्राप्तौ सत्यां यजमानशरीरस्याऽऽर्तिर्न भवति।
यदुक्तं सूत्रकारेण — “नमोऽग्नये मखघ्न इत्याहवनीयं नमो रुद्राय मखघ्न इत्याग्नीघ्नं नम इन्द्राय मखघ्न इति होत्रीयम्’ इति।उपतिष्ठत इत्यनुवर्तते।
तत्राऽऽहवनीयोपत्थानं विधायाऽऽग्नीघ्रस्योपस्थानं विधत्ते —
नमो रुद्रायेति। आग्नीघ्रीये धिष्णियेऽवस्थितोऽग्निर्मखहा रुद्रस्तस्मै रुद्राय नमोऽस्तु। अनया नमस्कृत्या हे रुद्र मां पाहीत्यनेन मन्त्रेणाऽऽग्नीध्रम ग्निमुपतिष्ठेत। तस्मा इत्यादि पूर्ववत्। अथ होत्रीयस्य धिष्णियस्योपस्थानं विधत्ते —
नम इन्द्रायेति। परमेश्वर्ययोगाद्धोत्रीयो धिष्णियोऽग्निरिन्द्रो यज्ञघातो तस्मै नमोऽस्तु हे इन्द्र मदीयमिन्द्रियं वीर्यं च मा विनाशय। अनेन मन्त्रेण होत्रीस्योदस्थाने सत्याशिषमेव प्रार्थितवान्भवति। सा चाऽऽशीरिन्द्रियस्य वीर्यस्याविनाशाय संपद्यते। उक्तमन्त्रत्रयोपस्थानं प्रशंसति —
[[1555]]
प्रपा. ३ अऩु . ४ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(स्फ्याद्युपस्थानमन्त्राभिधानम्)
या वै देवता इति। अग्निरुद्रेन्द्ररूपा या देवताः सदस्यवस्थितयजमात्रादीनार्तिं प्रापयन्ति यो यजमानस्तत्कृतं विद्वांस्ता देवताः प्रसर्पति नमस्कारेण भजतेऽसौ सदसि प्रविष्टोऽ प्याति न प्राप्नोति। तस्मान्नमोऽग्नय इत्यादीन्पूर्वोक्तान्मन्त्रान्पठेत्।
कल्पः – ‘दृढे स्थः शिथिरे समाचा इति द्यावापृथिवी उपतिष्ठते सूर्यं वायुमग्निं यप्रं सरस्वतीं सदसो द्वारापिति पातं पात्विति यथालिङ्गं सर्वत्रानुषजति’ इति। ततः (त्र) प्रथममन्त्र पाठस्तु —
दृढे स्थ इति। हे द्यावापृथिवी उपस्थानरहितं प्रति शिथिले अपि युवामुपस्थतारं प्रति समीची अनुकूले सत्यौ दृढे स्थः। अत उपस्थातारं मां प्रतिबन्धकादंहसः पातम्। द्वितीयमन्त्रपाठस्तु—
सूर्यो मेति। द्युलोकविपयान्मया कृतादंहसो मां सूर्यो देवः पातु।
उत्तरमन्त्रपाठस्तु—
वायुरिति। वाय्वग्नियमसरस्वतीमन्त्रेषु पात्वित्त्वनुषञ्जनीयम्। हे द्वाररूपे देव्यावु स्थातारं मां युवां मा संताप्तामिति संतापयुक्तं मा कुरुतम्।
नमः सदस इति। कल्पः — “नमः सदस इति सदो नमः सदसस्पतय इति ब्रह्माणं नमः सखीनां पुरोगाणामित्यृत्विजो नमो दिवे नमः पृथिव्या इति द्यावापृथिवी उपस्थाय” इति।
तृतीयमन्त्रान्ते चक्षुष इतीदमान्नातम्। ऋत्विजो यजमानस्य सखायस्तीयकार्यनिष्पादकत्वात्। ते च स्वस्वऽयापारे पुरतो गच्छन्तीति पुरोगास्तेषां चक्षुषे चक्षुःस्थानीयाय स्वस्वप्रयोगाभिज्ञाय नमः।
कल्पः “अहे दैधिव्येत्यायतनात्तृणं निरस्य” इति।
औदुम्बर्या दक्षिणभागो यजमानस्याऽऽयतनम्। अत एव सूत्रकार आह — “अपरेण ब्रह्मसदनं यजमानायतनम्” इति। पाठस्तु —
अहे दैधिपव्येति। धारणसमर्थं स्थानं इदिधिषुस्तत्रोत्पन्नत्वाद्दैधिषव्यत्वम्। अहिशब्दस्तृणलक्षकः। सर्पवदुपद्रवकारित्वात्। यजमानायतने सदुत्पन्न हे तृण त्वमतोऽस्यात्स्मानादुत्तिष्ठ। योऽन्यः पुरुषोऽस्मत्पाकतरो बालतरोऽप्रबुद्धस्तस्यान्यस्य सदने स्थाने तिष्ठ।
[[1556]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे –
(स्फ्याद्युपस्थानमन्त्राभिधानम्)
उन्निवत इति। कल्पः- “उन्निवत उदुद्वतश्च गेषमित्युपविशति” इति। ये पुरुषा मत्तो न्यग्भूतास्त निवन्तो न्यग्मूतेषु निशब्दस्य विद्यमानत्वात्। तान्पुरषानहमुद्रेषमुद्वतोऽस्मि। येऽपि मत्त उद्गतास्ते पुरुषा उद्वन्त उच्छ्रितेषूच्छब्दस्य विद्यमानत्वात्। तानप्यहमुद्गेषल्लङ्व्योपरि गम्यासम्।
पातं मेति। कल्पः — “पातं मा द्यावापृथिवी अद्याह्न इत्युपविश्य जपति” इति। अद्यास्मिन्दिवसे यदिदमहःशब्दावाच्यमग्निष्टोमानुष्ठानं तस्मान्मां हे द्यावापृथिव्यौ पातं तस्मिन्नहनि वैकल्पं यथा न भवति तथा रक्षतमित्यर्थः।
यदुक्तं सूत्रकारेण — “आगन्त पितरः पितृमानिति दक्षिणार्धं परेक्षते” इति। तदेतद्विधत्ते —
सदो वा इति। सदः प्रसर्पन्तं यजमानमनु पितरः प्रसर्पन्ति तं यजमानमनमस्कृताः पितरो हिंसितुं प्रभवन्ति। अतः सदसो दक्षिणभागमवेक्षमाण आयन्तेत्यामिमन्वं पठेत्। हे पितर आगन्त नः सदसः स्थानमागच्छत। आगतर्युष्माभिरहं पितृमान्भूयासं यूयं च मया सुप्रजसः शोभनापत्ययुक्ता भूयास्त। अनेन मन्त्रेण पितृणां नमस्कृतत्वाद्यजमानस्याऽऽ र्तिर्न भवति।
अत्र विनियोगसंग्रह —
स्फ्य उत्करे परिक्षिप्तं स्फ्यं तत्रेवोपतिष्ठते।
उप द्युभूमी अन्येषूप मा इत्यनुषज्यते॥
आस्ता चेति स्तोत्रदेशं कलेति द्रोणकुम्भकम्।
सोमः सोमं चाग्निरग्निमुप देवेति देवताः॥
उप यज्ञेति यज्ञं तमुप मेति तु होत्रकान्।
नमस्त्रयविधिः स्पष्टो दृढे स्थो द्युभुवौ भजेत्॥
सूर्यः सूर्यं वायुर्वायुं पात्वित्येषोऽनुषज्यते।
अग्निर्यमः सेरत्येतान्दे द्वारौ सदसो भजेत्॥
सदो ब्रह्मा चर्त्विजो द्यौर्भूर्नमःपञ्चभिः क्रमात्।
अहे तृणं निरस्योन्नीत्युपविश्यात्र पा जपेत्॥
आगन्त दक्षिणं पश्येन्मन्त्रा विंशतिरीरिताः॥
[[1557]]
प्रपा. २ अनु . ५ कृष्णयजुरिवेदीयतैत्तिरीयसंहिता।
(भक्षमन्त्राभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके चतुर्थोऽनुवाकः॥४॥