०३

(अथ तृतीयकाण्डे प्रथमप्रपाठक तृतीयोऽनुवाकः )

प॒रि॒भूर॒ग्निं प॑रि॒भूरिन्द्रं॑ परि॒भूर्विश्वा॑न्दे॒वान्प॑-

[[1548]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे)
(सोमावेक्षणाभिधानम्)
रि॒भूर्माँ स॒ह ब्र॑ह्मवर्च॒सेन॒ स नः॑ पवस्व॒ शं
गवे॒ शं जना॑य॒ शमर्व॑ते॒ शँ रा॑ज॒न्नेष॑धी॒-
भ्योऽच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒य-
स्पोष॑स्य ददि॒तारः॑ स्याम। तस्य॑ मे रास्व॒
तस्य॑ ते भक्षीय॒ तस्य॑ ते इ॒दमृन्मृ॑जे प्रा॒णाय॑
मे वर्चो॒दा वर्च॑से पवस्वापा॒नाय॑ व्या॒नाय॑
वा॒चे [१] द॒क्ष॒क्र॒तुभ्यां॒ चक्षु॑र्भ्यां मे व-
र्चो॒दौ वर्च॑से पवेथाँ॒ श्रोत्रा॑या॒ऽऽत्मनेऽङ्गे॑-
भ्य॒ आयु॑षे वी॒र्या॑य॒ विष्णो॒रिन्द्र॑स्य विश्वे॑षां
दे॒वानां॑ ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व॒
को॑ऽसि॒ को नाम॒ कस्मै॑ त्वा॒ काय॑ त्वा॒ यं
त्वा॒ सोमे॒नाती॑तृपं॒ यं त्वा॒ सो॒मेनाममि॑दँ
सुप्र॒जाः प्र॒जया॑ भूयासँ सुवीरो॑ वीरैः सु-
वर्चा॒ वर्च॑सा सु॒पोषः॒ पो॒षैर्विश्वे॑भ्यो मे रू॒-
पेभ्यो वर्चो॒दाः [२] वर्च॑से पवस्व॒ तस्य॑
मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इदमुन्मृ
जे। बुभू॑ष॒न्नवेक्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑ति-
र्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तो
भूत्या॒ऽभि प॑वते ब्रह्मवर्च॒सका॒मोऽवेक्षेतै॒ष वै
पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तम॒व त॑र्प-
यति॒ स ए॑नं तृप्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वत
आमया॒वी (३) अवे॑क्षेतै॒ष वै पात्रि॑यः

[[1549]]

प्रपा. २ अनु.३ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सोमावेक्षणाभिधानम्)

प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स
ए॑नं तृ॒प्त आयु॑षा॒ऽभि प॑वतेऽमि॒चर॒न्नवे॑क्षेतै॒ष
वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व
त॑र्पयति॒ स ए॑नं तृ॒प्तः प्रा॑णापा॒नाभ्यां॑ वा॒चो
द॑क्षक्र॒तुभ्यां॒ चक्षु॑र्भ्याँ॒ श्रोत्रा॑भ्यामा॒त्मनोऽ
ङ्गे॑भ्य आयु॑षोऽन्तरो॑ति ता॒जक्प्र ध॑न्वति
[४]॥

(वा॒चे रू॒पेभ्यो॑ वर्चो॒दा आ॑मया॒वी पञ्च॑चत्वारिँशञ्च )।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके तृतीयोऽनुवाकः॥३॥

(अथ तृतीयकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः)

अनुवाके द्वितीये तु सोमयागविधिः स्मृतः।

अथ तृतीयानुवाके सोमावेक्षणमुच्यते।

कल्पः — “परिभूरग्निमिति सर्वँ राजानं प्राणाय म इत्युपाँ शुमपानाय म इत्यन्तर्याम व्यानाय म इत्युपाँ शुसवनं वाचे म इत्यैन्द्रवायवं दक्षक्रतुभ्यां म इति मैत्रावरुणं चक्षुर्भ्यां म इति शुक्रामन्थिनौ श्रोत्राय म इत्याश्विनमात्मने म इत्याग्रयणङ्गेभ्यो म इत्युक्थ्यमायुषे म इति ध्रुवम” इति, “तेजसे म ओजो मे वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनम्” इति, “ विष्णोर्जठरमसीति द्रोणकलशमिन्द्रस्येत्याधवनीयं विश्वेषां देवानामिति पूतभृतं कोऽसि को नामेत्याहवनीयम्” इति, ‘विश्वेभ्यो मे रूपेभ्य इति सर्वँराजानम्” इति च। तत्र प्रथममन्त्रपाठस्तु —

परिभूरग्निमिति। हे सोम त्वमाग्नं परिभूः परितो व्याप्तवानसि। एवमिन्द्रं विश्वान्देवांश्च व्याप्तवानसि। मां तु ब्रह्मवर्चसेन सह तिष्ठन्तं व्याप्तवानसि। स त्वं नोऽ स्मान्पवस्व शोधय हे राजन्नस्मदीयाभ्यो गोजनाश्वौषधीभ्यः शं

[[1550]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे)
(सोमावेक्षणाभिधानम्)

सुखं प्रयच्छ। हे रयिपते धनपते त्वत्प्रसादाद्वयमच्छिन्नस्यानुपध्वस्तस्य सुवीर्यस्य शोभनपुत्रोपेतस्य धनपोषस्य दातारो भवाम। तस्य दानार्थिनो मम रास्व धनं देहि। तस्य तादृशस्य ते तव रसं भक्षीय काले प्राप्ते पिबानि। तस्य पीतस्य ते तव प्रसादादिदमपेक्षितं फलमुन्मृज उत्कर्षेणात्युज्ज्वलं करोमि। अनेन मन्त्रेण सर्वं राजानं सामान्याकारेणावेक्षते। उपरितनैस्तु मन्त्रैस्तत्तत्पात्रगतं सोमं विशेषाकारेणावेक्षते। तेषां मन्त्राणां पाठस्तु —

प्राणायेति। हे उपांशुपात्र त्वं वर्चोदा बलप्रदेऽसि। ततो मे प्राणायोच्छ्वासाय वर्चसे बलाय पवस्व मां शोधय। अपानायेत्यादिषु मन्त्रेषु मे वर्चोदा वर्चसे पवस्वेति शेषोऽ नुषज्यते। सूत्रोक्तान्तर्यामपात्रादीनि संबोध्य शेषं पूरयित्वाऽपानायेत्यादयो मन्त्रा योजनीयाः। अपानो निःश्वासाधोतृत्तिः। व्यानो विष्वग्वृत्तिः। वाक्प्रसिद्धा। दक्षक्रतू प्राणापानौ। “प्राणो वै दक्षोऽपानः क्रतुः” इतिः। चक्षुषी प्रसिद्धे। अत्र शुक्रामन्थिनोर्द्वित्वाद्वर्चोदाविति द्विवचनान्तत्वं द्योतयितुमनुषज्जमानस्य पुनः पाठः। श्रोत्रं प्रसिद्धम्। आत्मा जीवः। अङ्गानि हस्तपादादीनि। आयुः प्रसिद्धम्। वीर्यं सामर्थ्यम्। विष्णोरिन्द्रस्येत्यनयोर्मन्त्रयोर्जठरमसीत्याद्यनुषज्यते। हे द्रोणकलश त्वं विष्णोर्जठरमसि। अतो वर्चोदास्त्वं वर्चसे मां पवस्व। एवमाधवनीयपूतभृतोर्मन्त्राविन्द्रस्य विश्वेषां देवानामित्येतौ योज्यौ। हे आहवनीय त्वं कोऽसि प्रजापतिरूपोऽसि। को ह वै नाम
प्रजापतिरितिश्रुत्यन्तरात्। तथा को नाम कः शब्दस्तव नाम यामसाधकत्वेन सुखहेतुत्वात्। अतः कस्मै प्रजापतितुष्टये त्वामवेक्षे कायसुखार्थं त्वामवेक्षे। हे आहवनीय यमेवंविधं त्वां सोमेनातीतृयं तर्पितवानस्मि। तथा यं त्वां सोमेनामीमदं हर्षितवानस्मि। अतस्त्वत्प्रसादात्प्रजया भृत्वरूपया सुप्रजाः शोभवभृत्ययुक्तो भूयासम्। वीरैः पुत्रपात्रादीमिः सुवीरः शोभनपुत्रपौत्रादिबुक्तो भूयासम्। वर्चसा बलेन सुवर्चाः शोभनबलयुक्तो भूयसम्। पोषैर्धनादिपुष्ठिभिः सुपोषः शोभनतत्पुष्ठियुक्तो भूयासम्। हे सर्वसमष्टिरूप शोभ मे विश्वेभ्यो रूपेभ्यो मम पूर्वोक्तप्राणापानादिसर्वफलसिद्ध्यर्थ वर्चोदास्त्वं वर्चसे मां शोधयस्येत्यादि पूर्ववत्।

[[1551]]

प्रपा.३ अनु.४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्फ्याद्युपस्थानमन्त्राभिधानम्)

इदानीमेतैर्मैन्त्रैर्भूतिब्रह्मवर्चसायुरभिचारार्थिनां सोमावेक्षणं क्रमेण विधत्ते —

बुभुषन्निति। बुभूषन्भवितुमिच्छन्नैश्वर्यकाम इत्यर्थः। पात्रियः पात्रेऽवस्थित एष सोमः प्रजापतिस्वरूपः। अनेन साध्यो यज्ञोऽपि प्रजापतिस्वरूपः। अतोऽनेनावेक्षणेन तमेव प्रजापतिं तर्पयति। स च तृप्त एनं यजमानमश्वैर्यार्थमभितः शोधयति। एवमुत्तरेष्वपि योज्यम्। चतुर्थपर्याये त्वेनमभिचारविषयं वैरिणं यज्ञात्मा प्रजापतिः प्राणादिभ्योऽन्तरति वैरिणं वियोजयतीर्यर्थः। स च वैरी तदानीमेव प्रधन्वति म्रियते। अत्र प्राणापानाभ्यामित्यनेन सह पौनरुक्त्यं निवारयितुं दक्षक्रतुभ्यामित्यस्य योगक्षेमाभ्यामित्यर्थो व्याख्यातव्यः।

अत्र विनियोगसंग्रहः —

आदौ समष्टिरूपेण परिभूः सोममीक्षते।
प्राणेत्युपांशुमन्येषु मे वर्चेत्यनुषज्यते॥
अपाऽऽन्तर्यामिकं व्यानं शिलां वाचैन्द्रवायवे।
दक्षेति मैत्रावरुणं चक्षुः शुक्रं च मन्थिनम्॥
श्रोत्रेत्याश्विनमात्माऽऽग्रयणमङ्गेभ्य उक्थ्यकम्।
आ ध्रूवं वी षोडशिनं विष्णोस्तु द्रोणकुम्भकम्॥

इन्द्रेत्याधवनीयाख्यं जठशेषस्तयोर्द्वयोः।
विश्वेपूतभृतं कोऽसि वीक्षेताऽऽहवनीयकम्॥
विश्वे पश्येत्सर्वसोमान्मन्त्राः सप्तदशेरिताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके तृतीयोऽनुवाकः॥३॥