(अथ तृतीयकाण्डे द्वितीयप्रपाठक द्वितीयोऽनुवाकः)
त्रीणि॒ वाव सव॑ना॒न्यथ॑ तृतीयँ॒ सव॑न॒मव
[[1544]]
श्रीमत्सायनाचार्यविरचितभाष्यसमेता - (३ तृतीयकाण्डे –
(सवननिरूपणम्)
लुम्पन्त्यनँशु कुर्वन्त॑ उषाँशुँ हुत्वो
पाँ॑ शुपात्रेँ॑ शुम॒वास्य॒ तं तृ॑तीयसव॒ने॑ऽ
पि॒सृज्या॒भि षु॑णुया॒द्यदा॑प्या॒यय॑ति॒ तेनाँ॑ शु॒
मद्यद॑भिषु॒णोति॒ तेन॑र्जी॒षि सर्वाण्ये॒व तत्सव॑
नान्यँ शु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि
करोति॒ द्वौ स॑मुद्रौ वित॑तावजू॒र्यौ पर्या॒व॑र्तते
जठरे॑व॒ पादाः॑। तयोः॒ पश्य॑न्तो॒ अति॑ य-
न्त्यन्यमप॑श्यन्तः [१] सेतुनाऽति॑ यन्त्य॒
न्यम्। द्वे द्रध॑सी स॒तती॑ वस्त॒ एकः॑ के॒शी
विश्वा॒ भुव॑नानि वि॒द्वान्। तिरो॒धायै॒त्यसि॑तं॒
वसा॑नः शु॒क्रमा द॑त्ते अनुहाय॑ जा॒यै॑। दे॒वा
वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा
ए॒तं म॑हाय॒ज्ञम॑पश्य॒न्तम॑तन्वताग्निहो॒त्रं व्र॒त-
म॑कुर्वत॒ तस्मा॒द्द्विव्र॑तः स्या॒द्द्द्विर्ह्य॑ग्निहो॒त्रं
जुह्व॑ति पौर्णमा॒सं य॒ज्ञम॑ग्नीपो॒मीय॑म् [२]
प॒शुम॑कुर्वत दा॒र्श्यं य॒ज्ञमा॑ग्ने॒यं प॒शुम॑कुर्वत
वैश्वदे॒वं प्रा॑तःसव॒नम॑कुर्वत वरुणप्रघा॒सा
न्माध्यं॑दिनँ॒ सव॑नँ साकमे॒धान्पि॑तृय॒ज्ञं
त्र्य॑म्बकाँ स्तृतीयसव॒नम॑कुर्व॒त तमे॑षा॒म-
सु॑रा य॒ज्ञम॒न्ववा॑जीगाँस॒न्तं नान्ववा॑य॒न्ते॑ऽ
ब्रुवन्नध्वर्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति॒ त-
द॑ध्व॒रस्या॑ध्वर॒त्वं ततो॑ दे॒वा अभ॑व॒न्पराऽसु॑रा॒
[[1545]]
कृष्णयजुर्वेदीयतैत्तरीयसंहिता।
(सवननिरूपणम्)
य ए॒वं वि॒द्वान्त्सोमे॑न॒ यज॑ते॒ भव॑त्या॒त्मना॒
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति [३]॥
(अप॑श्यन्तोऽग्नीषो॒मयि॑मा॒त्मना॒ परा॒ त्रीणि॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके द्वितीयोऽनुवाकः॥ २॥
(अथ तृतीयाष्टके द्वितीयप्रपाठके द्वितीयोऽनुवाकः)
आद्यानुवाके विहिताः पवमानग्रहास्त्रयः।
अथ द्वितीय सवनानि निरूप्यन्ते। ततः प्रातःसवनगत उपांशुग्रहपात्रे सोपांशुप्रक्षेपं तस्य चांशोस्तृतीयसवनगताभिषवसंसर्गं विधत्ते —
त्रीणि वावेति। प्रातःसवनं माध्यंदिनं सवनं तृतीयसवनं चेत्येवं सवनानि त्रीण्यवश्यं भवन्ति। सूयते सोम एव प्रात सवने माध्यंदिने च न तृतीयसवने। ऋजीषमेव तत्राभिषूयते। अत एव षष्ठकाण्डे गायत्र्याः सोमाहरणप्रस्तावे समाम्नायते — “पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात्तदधत्तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति धीतमिव हि मन्यन्ते” इति। अथैवं सति सोमांशुरहितं तृतीयं सवनं कुर्वन्तो यजमानस्तत्सवनवलुम्पन्ति विनाशयन्ति। सूयते सोमोऽत्रेत्यस्य सवनशब्दार्थस्यासंभवात्तस्य सवनत्वं कथं सिध्यतीति तदुच्यत — उपांशुग्रहं हुत्वा तस्मिन्नुपांशुपात्रे केचिदनभिषुतं सोमांशुं प्रक्षिप्य तृतीयसवनपर्यन्तं प्रज्ञातं निधाय तृतीयसवने तमंशुमृजीषे संसृज्याभिषुणुयात्। तस्मिन्नभिषवे तमंशुं वसतीवरीभिरद्भिराप्याप्रयति। तेनाऽप्यायननेतरसवनवदिदमाप्यायितसोमांशुयुक्तं भवति। अंशुना सहाभिषवं कृत्वा निष्पीडनादृजीषयुक्तमपि भवति। एवं च सति तत्तथा सति तृतीयसवनेन सह सर्वाण्यपि सवनानि सोतव्यसोमांशुयुक्तानि शुक्रवन्ति सूयमानसोमांसुगतरसवन्ति कृत्वा तुल्यवीर्याणि कृतानि भवन्ति।
[[1546]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – (३ तृतीयकाण्डे)
(सवननिरूपणम्)
अथानन्तरभाविनोर्मन्त्रयोर्विनियोगमापस्तम्ब आह — “प्रस्त्रप्स्यन्तो ग्रहानवेक्षन्ते द्वौ समुद्राविति पूतभृदाधवनीयौ द्वे द्रधसी इति द्रोणकलशम्” इति।
पाठस्तु -
द्वौ समुद्राविति। तत्र प्रथममन्त्रेण समुद्रद्वयरूपत्वमहोरात्रद्वयरूपत्वं चाऽऽरोप्य पूतभृदाधवनीयौ स्तूयेते। द्वौ समुद्रौ विततौ विस्तीर्णावजृर्यावजीर्णौ कदाचिदप्यशुष्यन्तौ। तादृशावेतौ पर्यायेणाऽऽवतते तत्र दृष्टान्तः — जठरा समुद्रस्योदरे पादा इव यथा पादसदृशा ऊर्मयः समुद्रमध्ये पर्यायेणाऽऽवर्तन्ते प्रथममेक आगच्छति पश्चादपर इति तथा पूतभृत्कदाचिदुपयुज्यते कदाचिदाधवनीय इति पर्यायः। तौ समुद्रात्मकौ पूतभृदाधवनीयौ पुनरहोरात्ररूपौ वर्तेते। तयोर्मध्येऽन्यमहरात्मकं जनाः पश्यन्तोऽतियन्ति उत्तरन्ति। अथान्यं रात्रिरूपमपश्यन्तो जनाः सेतुसदृशेन नौरूपेण साधनेनातियन्ति। उत्तरस्य हविर्धानस्योपरिष्टान्नीडे परिश्रितेऽवस्थितस्याऽऽधवनीयस्य तिरोहितत्वादपश्यन्त इत्युच्यते। तस्यैव हविर्धानस्य प्रधुरे तिरोधानरहिते पूतभृतोऽ वस्थितत्वात्पश्यन्त इत्युच्यते। चमसगणे पयसां धारकत्वादुभयोः समुद्रत्वम्। अथ द्रोणकलश आदित्यात्मना स्तूयते एक आदित्यो द्वे द्रघसी अहोरात्रे उभे वाससी वस्तेऽ हस्कार्याच्छादयति। कीदृशे द्रधसी, सतती सातत्येनाविच्छेदेन वर्तेते। न ह्यह्रो रात्रेश्च मध्ये कश्विद्विच्छेदोऽस्ति। कीदृश एक आदित्यः, केशी केशसमानरश्मियुक्तो विश्वा भुवनानि विद्वान्सर्वाल्लोकान्स्वरश्मिभिः प्रकाशायमानः। उक्तयोर्वस्त्रयोर्मध्ये रात्रिरूपं वस्त्रं मलिनमहोरूपं तु शुक्रम। यदा रात्रिरूपमसितं वस्त्रं वसानो वर्तते तदास्वात्मरूपं तिरोधाय गच्छति। अथ जार्यै जीर्णाया रात्रे पश्चादनुहाय तदसितं वस्त्रं परित्यज्य शुक्लमहोरूपं श्वेतं वस्त्रप्रादत्ते। यथाऽऽयमादित्यः कदाचित्तिरोहितो भवति कदाचिदाविर्भवत्येवमयं द्रोणकालशोऽपि हविर्धानस्याधस्तात्तिरोभूतो वर्तते। हारियोजनग्रहणाय तस्मात्प्रदेशाद्वहिरानीत आविर्भवति। तस्मादयमादित्यसदृश इत्यर्थः।
अथ यस्य सोमयागस्य प्रकरणोक्तेभ्यो मन्त्रेभ्यो विधिभ्यश्चान्यान्परिशिष्टान्मन्त्रान्विधींश्च दर्शयितुमिदमौपानुवाक्यकाण्डमारब्धं तमिमं सोमयागं विधातुं प्रस्तौति —
[[1547]]
प्रपा. २अनु. ३ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सोमावेक्षणाभिधानम् )
देवा वा इति। देवाः पूर्वमसुरीवजयार्थं यज्ञे यद्यदङ्गमकुर्वत तत्सर्वमसुरा अपि ज्ञात्वा तथैवाकुर्वत। ततो देवानां जयाभावे सति पुनरपि विचार्य जयोपायमेतं सोमाख्यं महायज्ञं निश्चितवन्तः। तं च महायज्ञमसुरा यथा न जानन्ति तथा प्रच्छश्रमनुष्ठितवन्तः। तञ्चा ( ते चा) ग्निहोत्रं जुहुम इति बहिः प्रसिद्धं कृत्वा रहसि दीक्षव्रतमकुर्वत। यस्मादग्निहोत्रं सायं प्रातर्द्विर्वहिर्जुह्णति तस्मादभ्यन्तरे क्षीरपानरूपं व्रतं सायं प्रातश्चेति द्विरनुष्ठेयम्। तथा बहिः पौर्णमासं यज्ञं प्रसार्यभ्यन्तरेऽ ग्नीषोमीयं पशुमकुर्वत। तथा बहिदर्शसंबन्धियोग्यं यज्ञं प्रसार्याभ्यन्तर आग्नेयं सवनीयं पशुमकुर्वत। ततश्चातुर्मास्यरूपं वैश्वदेवं पर्व बहिः प्रसार्यन्तः प्रातःसवनमकुर्वत। तथा वरुणप्रघासन्बहिः प्रसार्यान्तमाध्यंदिनं सवनमकुर्वत। तथा साकमेधान्पितृयज्ञे त्र्यम्बकांश्च बहिः प्रसार्यान्तस्तृतीयसवनमकुर्वत। तदानीमसुरा देवैः क्रियमाणं यज्ञमनुक्रमेणावगन्तुमैच्छंस्तदानीं बाहिः प्रसारितैरग्निहोत्रादिभिर्हविर्यज्ञैर्भ्रान्ता अन्तस्तं गोप्यं सोमयागमनुक्रमेणानवगतवन्तः। ततोऽवगन्तुमशक्ताः परस्परमिदमब्रुवन्-इमे देवा अध्वर्तव्या अस्माभिर्ध्वरितुं हिंसितुमशक्या अभूवन्निति। तत्तस्मात्कारणान्न घवर्यन्तेऽ नेन सोमयागेनेत्यध्वरत्वं तस्य संपन्नम्। ततोऽध्वरानुष्ठानाद्देवा विजायिनोऽभवन्नसुराश्च पराभूताः। इदानीं सोमयागं विधत्ते —
ए एवमिति। अत्र विनियोगसंग्रहः —
द्वावित्यवेक्षते पूतभृतं चाऽऽधवनीयकम्।
द्वे द्रोणकलशं पश्येन्मन्त्रौ द्वाविह वर्णितौ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे द्वितीयप्रपाठके
द्वितीयोऽनुवाकः॥ २॥