(तत्र प्रथमोऽनुवाकः)।
ह॒रिः॑ ॐ।
यो वै पव॑मानानामन्वारो॒हान्वि॒द्वान्यज॒तेऽनु
पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑ च्छि-
द्यते श्ये॒नो॑ऽसि गायत्रछ॑न्दा॒ अ॒नु त्वाऽऽ र॑भे
स्व॒स्ति मा॒ सं पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑-
न्दा॒ अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ सं पा॑रय॒
सघा॑ऽसि॒ जग॑तीछन्दा॒ अनु॒ त्वाऽऽ र॑भे स्व॒-
स्ति मा॒ सं पा॑र॒येत्या॑है॒ते (१) वै पव॑मा-
नानामन्वारो॒हास्तान्य ए॒वं वि॒द्वान्यज॒तेऽनु॒
पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑ च्छि-
द्यते॒ यो वै पव॑मानस्य॒ संत॑तिं॒ वेद॒ सर्व॒मा-
यु॑रेति॒ न पु॒राऽऽयु॑षः॒ प्र मी॑यते पशु॒मान्भ॑व-
ति वि॒न्दते॑ प्र॒जां पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ
वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयः॑
पूत॒भृत्तान्यदगृ॑हीत्वोपाकु॒र्यात्पव॑मानं॒ वि [२]
छि॒न्द्या॒त्तं वि॒च्छिद्य॑मानमध्व॒र्योः प्रा॒णोऽनु॒
वि च्छि॑द्येतोपया॒मगृ॑हीतोऽसि प्र॒जा॑पतये॒
त्वेति॑ द्रोणकल॒शम॒भि मृ॑शो॒दिन्द्रा॑य॒ त्वेत्या॑-
धव॒नीयं॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृतं॒
पव॑मानमे॒व तत्सं त॑नोति॒ सर्व॒मायु॑रेति॒ न
[[1541]]
कृष्णयजुर्वेदीयतैत्तरीयसंहिता।
(पवमानग्रहत्रयविधिः)
पु॒राऽऽयु॑षः॒ प्र मयि॑ते पशु॒मान्भ॑वति वि॒न्दते॑
प्र॒जाम् [३]।
( ए॒ते वि द्विच॑त्वारिँ शञ्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
द्वितीयप्रपाठके प्रथमोऽनुवाकः॥ १॥
(अथ तृतीयकाण्डे द्वितीयः प्रपाठकः)
(तत्र प्रथमोऽ नुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽ खिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
आद्यप्रपाठके दीक्षां प्राराभ्य प्रकृतौ पुरा।
यद्बहिष्पवमानान्तं न्यूनं तत्सर्वमीरितम्॥
प्रतिनिर्ग्राह्यपर्यन्तं पवमानग्रहादिकम्।
यन्न्यूनं प्रकृतौ तत्तु वर्ण्यतेऽस्मिन्प्रपाठके॥
यदुक्तं सूत्रकारेण — “वस्व्यै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै तेऽ वरुद्ध्या इति पुरुस्ताद्वहिष्पवमानाद्यजमानो जपति दशहोतारं व्याचष्टे स्तूयमाने च दशहोतारं जपति श्येनोऽसि गायत्रछन्दा इति मध्यमायां च स्तीत्रीयायामन्वारोहं द्वितीयो पवमाने द्वितीयेन मन्त्रेण तृतीयो तृतीयेन” इति। तमिममन्वारोहजपं विधत्ते —
यो वा इति। बहिष्पवमानो मार्ध्यदिनः पवमान आर्भद्रः पवमान इत्येतन्नामकाः पवमानत्रयमताः स्तोत्रवशेषाः सामवेदे समाम्नाताः पवमानास्तान्यो यजमानो मन्त्रैरारोहति न कदाचिदयं पवमानेभ्यो विच्छिन्नो भवति। श्येन इ
[[1542]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता –
३ तृतीयकाण्डे –
(पवमानग्रहत्रयविधिः)
त्यादयो मन्वाः। हे बहिष्पवमान त्वं श्येनोऽसि श्येनवच्छीघ्रगतिरसि। गायत्रछन्दा गायत्रीछन्दस्कोऽप्यसि। अतस्त्वामन्वारभेऽनुक्रमेणाऽऽसेहामि प्राप्नोमि निर्विघ्नेन मां संपारय सम्यक्पारं नय। तमिमं मन्त्रमुपास्मै गायतेत्यादिषु नवसु स्तोत्रीयासु मध्यमायां पञ्चम्यां स्तोत्रीयायां गीयमानायां जपेत्।सुपर्ण इत्यादिर्द्वितीयो मन्त्रः। हे माध्यंदिन पवमान त्वं सुपर्णोऽसि सुपर्णवदुत्पातितुं समर्थोऽसि। शेषं पूर्ववत्। तमिमं मनत्रमुच्चा ते जातमन्धस इत्यादिकमाध्यंदिनपवमानस्स्तोत्रे मध्यमायामृचि गीयामानायां जपेत्। सघेत्यादयस्तृतीयो मन्त्रः। हे आर्भव पवमान त्वं सघाऽसि भासमानकपक्षिवत्पतितुं समर्थोऽसि। शेषं पूर्ववत्। तमिमं मन्त्रं स्वादिष्ठयेत्येतस्यिन्नार्भवपवमानाख्ये स्तोत्रे मध्यमायामृचि गीयमानायां (पठे) जपे त्।
अथ द्रोणकलशादीनामभिमर्शनं विधातुं प्रस्तौति —
यो व इति। योऽयं बहिष्पवमानादिशब्दैरभिधीयमानः स्तोत्रविशेषत्रयरूपः पवमानोस्ति तस्य संततिमविच्छेदप्रकारं यो यजमानो वेद स यजमानः संपूर्णमायुः प्राप्नोति। जन्मकाले कर्मणा देवैश्च परिकल्पितात्संपूर्णादायुषः पुरा केनाप्यपमृत्युनाऽसौ न म्रियेत प्रजापशुसमृद्धश्चायं भवति। द्रोणकलशादिनामकास्त्रयो ग्रहा इम ऐन्द्रवायवादिग्रहवन्मन्त्रैर्गृह्यन्तामिति। तत्र तावत्पवमानस्य संबन्धिन एते ग्रहाः संततिसिद्ध्यर्थं गृह्यन्तामिति प्राप्तं सोऽयं पक्षो न संभवति। मन्त्रकाण्डे ध्रुवग्रहर्तुग्रहयोर्मध्ये पवमानग्रहार्थानां मन्त्राणामनाम्नातत्वात्षष्ठकाण्डे दद्विध्यभावाच्च। तदेतदुच्यते — अथवा अस्यैतेऽगृहीता द्रोणकलश इत्यादिता। यद्यपि पवमानस्य संबन्धिन एते द्रोणकलशाधवनीयपूतभृतस्तूणीं गृहीता एव तथाऽपि मन्त्राभावादगृहीतप्रायास्तेषु चागृहीतेषूपाकरणे पवमानविच्छेदस्तस्मिन्विच्छिन्नेऽ ध्वर्युप्राणविच्छेदः स्यादिति मन्त्रैस्तानभिमृशेत्। ततश्च नोक्तविच्छेद इत्यर्थः। मन्त्रैस्तदभिमर्शनं विधत्ते —
उपयामेति। मन्त्रार्थस्तु हे सोमरस त्वमुपयामेन पार्थिवपात्रेण कलशेन गृहीतोऽसि। इयं वा उपयाम इति श्रुतेः पार्थिवपात्रमुपयामशब्दस्यार्थः। तेन गृहीतं त्वां प्रजापत्यर्थमभिमृशामि। अनेन मन्त्रेण द्रोणकलशमभिमृशेत। उत्त
[[1543]]
कृष्णयजुर्वेदीयतैत्तरीयसंहिता।
(सवननिरूपणम्)
रयोरपि मन्त्रयोरुपयामगृहीतोऽसीत्यनुषज्यते। तत्राऽऽधवनीयः कलशः पूतभृत्कलशश्चोपयामशब्दस्यार्थः। हे सोमरसोपयामेन मृन्मयेन भाण्डेनाऽऽ- धवनीयकलशेन त्वं गृहीतोऽसि। अतस्त्वामिन्द्रार्थमभिमृशामि। अनेन मन्त्रेणाऽऽ धवनीयमभिमृशेत्। हे सोमरसोपयामेन मृन्मयभाण्डेन पूतभृत्कलशेन गृहीतोऽस्यतस्त्वां विश्वेभ्यो देवेभ्यो देवेभ्योऽभिमृशामि। अनेन मन्त्रेण पूतभृतमभिमृशेत्। तेन पात्रत्रयाभिमर्शनेन पवमानस्तोत्रं सततं करोति। यद्यप्येषु पात्रेष्वैन्द्रवायवादिवत्समन्त्रकं ग्रहणं नास्ति तथाऽपि रसस्तेष्वस्ति। अत एव सूत्रकार आह — “अभिषुतमध्वर्युरञ्जलिना ससिञ्चति तमुन्नेताऽन्तरेषे णो (चो) द्धृत्योत्तरत आधवनीयेऽ वनयति’ इति, ‘उद्गातारो द्रोणकालशं प्रतिष्ठाप्य तस्मिन्नुदीचीनदशं पवित्रं वितन्वन्ति, पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन्होतृचमसेन धारां स्रावयति’ इति च, ‘पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तमसर्वं पूतभृत्यवनीय’ इति च। तदेवं त्रिषु पात्रेषु सोमरसस्यावस्थि तत्वादभिमर्शनमन्त्रेण संस्कृतत्वाच्च केनापि प्रकारेण गृहीता एम पवमानग्रहा भवन्ति। तेन पवमानस्य संततत्वाद्यजमानोऽप्यायुरादिकं प्राप्नोति। त एते पूर्वोक्ता अन्वारोहमन्त्रा अभिमर्शनमन्त्राश्च मूर्धानं मधुश्चेत्यनयोरनुवाकयोरन्तराले द्रष्टव्याः। अत्र विनियोगसंग्रहः —
श्येनस्रीन्पवमानेषु त्रिषु मन्त्रान्क्रमाज्जपेत्।
प्रजेन्द्रा विश्वे मन्त्राः स्युरुपयामादिकास्त्रयः॥
तैर्द्रोणकलशादीनां स्पर्शो मन्त्रास्तु षण्मताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे द्वितीयप्रपाठके
प्रथमोऽनुवाकः॥ १॥