०८

(अथ तृतीयकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः)
नि॒ग्रा॒भ्याः॑ स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत
प्रा॒णं मे॑ तर्पयतापा॒नं मे॑ तर्पयत व्या॒नं मे॑
तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत॒ मनो॑
मे तर्पयत॒ वाचं॑ मे तर्पयता॒ऽऽत्मानं॑ मे तर्पय॒-
ताङ्गा॑नि मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शू-
न्मेठ तर्पयत गृ॒हान्मे तर्पयत ग॒णान्मेठ तर्पयत
स॒र्वग॑णां मा तर्पयत त॒र्पय॑त मा (१) ग॒णा

[[1513]]

प्रपा॰ १ अनु॰ ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(उपांशुग्राहक्थाभिषवमन्त्राणामभिधानम्)
मे॒ मा वि तृ॑ष॒न्नोष॑धयो॒ वै सोम॑स्य॒ विशोच
विशः खलु॒ वै राज्ञः॒ प्रदा॑तोरिश्व॒रा ऐ॒न्द्रः
सोमोऽवी॑वृधं वो॒ मन॑सा सुजाता॒ ऋत॑प्रजा-
ता॒ भग॒ इद्वः॑ स्याम। इन्द्रे॑ण देवीर्वी-
रुधः॑ संविदा॒ना अनु॑ मन्यन्ताँ॒ सव॑नाय॒
सोम॒मित्या॒हौश॑धीभ्य ए॒वैनँ॒ स्वायै॑ वि॒शः
स्वायै॑ दे॒वता॑ये नि॒र्याच्या॒भि षु॑णोति॒ यो वै
सोमस्याभिषू॒यमाणस्य (२) प्र॒थ॒मो॑ऽँ
शुः स्कन्द॑ति॒ स ई॑श्व॒र इन्द्रि॒यं वी॒र्ये॑ प्र॒जां
प॒शून्यज॑मानस्य॒ निर्ह॑न्तोस्तम॒भि म॑न्त्रये॒
ताऽऽमास्कान्स॒ह प्रजया॑ स॒ह रा॒यस्पोषे॑णे
न्द्रि॒यं मे॑ वी॒र्यं॑ मा निर्व॑धी॒रित्याशिष॑मे॒वै-
तामा शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑
पशूनामनि॑र्घाताय द्रप्सश्वस्कन्द पृथि॒वी-
मनु॒ द्यामि॒मे च॒ योनि॒मनु यश्च॒ पूर्वः॑। तृ॒-
तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑
स॒प्त होत्राः (३)॥
(त॒र्पय॑त माऽभिषू॒यमा॑णस्य॒ यश्च॒ दश॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
प्रथमप्रपाठकेऽष्टमोऽनुवाकः॥ ८॥

[[1514]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(उपांशुग्रहार्थाभिषवमन्त्राणामभिधानम्)
(अथ तृतीयकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः।)
विशेषविधयः प्रोक्ताः स्पर्धायुक्तस्य सप्तमे।
अथाष्टमेऽनुवाक उपांशुग्रहार्थस्याभिषवस्यापेक्षिता मन्त्रा उच्यन्ते।
कल्पः- “उत्तरस्यां वर्तन्यां होतृचमसं वसतीवरीभिरमिपूर्य निग्राभ्यासु यजमानं वाचयति निग्राभ्याः स्थ देवश्रुतः” इति। दक्षिणस्य हविर्धानस्योत्तरस्मिन्रथचक्रमार्गे वसतीवरीशब्दाभिधेयाभिरद्भिरभिपूर्यते होतृचमसस्तत्राभिपूरणाय निग्राभ्याभिधा-स्वप्स्वानीयमानासु मन्त्रं वाचयेत्। तत्पाठस्तु-
निग्राभ्याः स्थेति। हविष्मतीरिमा आप इति मन्त्रेण कुम्भे नितरां ग्रहीतव्या आपो निग्राभ्याः। देवः श्रूयन्त इति देवश्रुतः। हे आपो यूयं तादृश्यः स्थ। ता यूयं मदीयमायुस्तर्पयत। एवं प्राणादिषु योज्यम्। आत्मानं जीवम्। अङ्गानि हस्तपादाद्यवय-वान्। गणान्भृत्यसमूहान्। सर्वगणं सर्वे पुत्रभृत्यादिसमूहा यस्य मम तादृशं माम्। किंबहुना तर्पयत मेत्युपसंहारः। त्वदीयेन तर्पणेन मदीया गणास्तृषादिरहिता भवन्तु। पूर्वानूवाकोक्ता आसन्यादित्यादिका मन्त्रा हृदे त्वेत्यनुवाकात्पूर्वं द्रष्टव्याः। अयं तु निग्राभ्याः स्थेति मन्त्रस्तस्मादूर्ध्वं द्रष्टव्यः।
यदुक्तं सूत्रकारेण- “धिषणे वीडु इत्यधिषवणफलके, अवीवृधं वो मनसा सुजाता इति राजानमेवाभिमन्त्र्य” इति, तमिमं मन्त्रर्ववतार्थ व्याचष्टे-
ओषधय इति। यः सोमो राजा तस्यौषधय एव विशः प्रजारथानीयाः। अत एव ता ओषधिरूपा विशो राज्ञः प्रदातोरीश्वराः सोमं राजानमीश्वरमस्मभ्यं दातुं समर्थाः। सोमश्चेन्द्रदेवत्यः। तस्मादोषधीन्द्रविषयेणावीवृधमित्यादिमन्त्रेण सोमाभिमन्त्रणं युक्तम्। तस्य च मन्त्रस्यायमर्थः- हे सुजाताः सर्वजनोपकारित्वेन शोभनजन्मानो विशेषतश्च ऋतप्रजाता यज्ञार्थं प्रकर्षेणोत्पन्नास्तादृश्यो हे ओषधयो वो युष्मान्मनसाऽवीवृधं वर्धयामः। वो युष्माकं भग इद्भजन एव वयं स्याम सर्वदा युष्मद्भजनरूपे कर्मणि तिष्ठामेत्यर्थः। देवीर्वीरुधः सोमवल्लीरूपा देव्य इन्द्रेण संविदाना ऐकमत्यं गताः सवनाय प्रातःसवनकर्मणे सोममनुमन्य-

[[1515]]

प्रपा॰ १ अनु॰ ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(उपांशुग्रहार्थाभिषनमन्त्राणामभिधानम्)
न्तामिति। एतन्मन्त्रपाठेनौषधिरूपा सोमस्य या विट्स्वकीयप्रजा या चेन्द्ररूपा सोमस्य स्वकीयदेवता तस्या प्रजाया देवतायाश्च सकाशात्सोमं विशेषेण याचित्वाऽभिषुणोति।
गदुक्तं सूत्रकारेण – “आ माऽस्कानिति प्रथमप्लुतमंशुमभिमन्त्रयते” इति।
तदिदं विधत्ते-
यो वै सोमस्येति। अधिषवणफलकयोरवस्थाप्य ग्रावभिरभिषूयमाणस्य सोमस्य यः प्रथमोंऽशुर्लेशो भुमौ पतति स लेशो यजमानस्येन्द्रियादीन्निःशेषेण विनाशयितुं समर्थः। तस्मात्तत्परिहारार्थमा माऽस्कानित्यादिमन्त्रेण तमंशुमभिमन्त्रयेत। तस्य च मन्त्रस्यायमर्थः – हे भूमौ पतितांशो त्वं प्रजया धनसमृद्धया च सह मां प्रत्यास्कान्पुनरागतोऽसि। तस्मान्मदीयमिन्द्रियं वीर्यं च मा निर्वधीमां विनाशयेति अनेनाभिमन्त्रणेन प्रजादीनामविनाशायाऽऽशिवमेवाऽऽशास्ते।
यदुक्तं सूत्रकारेण- “द्रप्सश्चस्कन्देति विप्रुषः” इति। अभिमन्त्रयत इत्यनुवर्तते। तमिमं मन्त्रं पठति-
द्रप्सश्चस्कन्देति। द्रप्सः सोमरसबिन्दुः पृथिवीमनु चस्कन्द पृथिव्यां पतित इत्यर्थः। स च द्रप्सो हुतः सन्स्थानत्रयेऽनुसंचरति द्युलोकेऽन्तरिक्षलोके भूलोके च। तदेतदभिप्रेत्य स्मर्यते स्म-
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्यायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः”॥ इति।
योऽयमर्थो द्यामित्यादिनाऽभिधीयते द्यामिमं च योनिमनु अन्तरिक्षरूपमिदं स्थानमनुसंचरति। यश्च पूर्वो योनिः पृथिवीमनु चस्कन्देति पूर्वोक्तस्थानविशेषः, तमप्यनुसंचरति। तृतीयं योनिं द्युलोकरूपमादित्यस्थानमनुसंचरति, तमिमं त्रिषु स्थानेष्वनुसंचरन्तं द्रप्सं जुहोमि मनसा हुतमिव भावयामि। कुत्र होम इति तदुच्यते अनु सप्त होत्रा इति। यस्यां दिशि द्रप्सः पतितस्तद्व्यतिरिक्तहोगयोग्याः सप्त दिशो या- सन्ति तास्वनुक्रमेण जुहोमि। यथाऽपं द्रप्सो हुत आदित्यादि स्थानत्रयेषु संचरन्नुपकारोति तथा भावयामीत्यर्थः। त एते मन्त्रा वाचस्पतये पवस्वेत्यस्मादनुवाकात्पूर्वं द्रष्टव्याः। अत्र विनियोगसंग्रहः –

[[1516]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(सवनाहुत्यादिमन्त्राणामभिधानम्)
निग्राभ्यादितृषन्नन्तं निग्राभ्याग्रहणे सति।
स्वामिनं वाचयेत्सोमं मन्त्रयेत ह्यवीवृधम्॥
आमास्कारनभिमन्त्र्यांशुर्द्रैप्सो बिन्दुं तु मन्त्रयेत्।
चत्वार एते मन्त्राः स्युरष्टमे त्वनुवाकके॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठकेऽष्टमोऽ–
नुवाकः॥ ८॥

अथ द्वितीयाष्टके प्रथमप्रपाठके नवमोऽनुवाकः।
यो वै दे॒वन्दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्या॑न्म-
नुष्यय॒श॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॒ भव॑ति मनु-
ष्ययश॒सी म॑नु॒ष्येषु॒ यान्प्रा॒चीन॑माग्रयणा-
दग्रहा॑न्गृह्णी॒यात्तानु॑पाँ॒शु गृ॑ह्णीया॒द्या-
नू॒र्ध्वा ँ स्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒
सेना॑र्पयति मनुष्या॑न्मनुष्ययश॒सेन॑ देवयश॒
स्ये॑व दे॒वेषु भवति मनुष्ययश॒सी म॑नु॒ष्ये॑ष्व॒-
ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो म॑हि॒ना
वि॒श्वशं॑भूः। स नः॑ पाव॒को द्रवि॑णं दधातु
(१) आयु॑ष्मन्तः स॒हभ॑क्षाः स्याम। वि-
श्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒
सव॑ने॒ न जह्युः। आयु॑ष्मन्तः प्रि॒यमे॑षा॒ व-
द॑न्तो व॒यं दे॒वानाँ॑ सुम॒तौ स्या॑म। इ॒दं
तृ॒तीयँ॒ सवनं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑-

[[1517]]

प्रपा॰ १ अनु॰ ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सवनाहुत्यादिमन्त्राणामभिधानम्)
यन्त। ते सौ॑धन्व॒नाः सुव॑रानशा॒नाः॑ स्वि॑-
ष्टिं नो अभि॒वसी॑यो नयन्तु। आ॒यत॑नवती॒-
र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ऽनायत॒ना अ॒-
न्या या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवती॒र्याः
(२) सौ॒म्यास्ता अ॑नायत॒नाः ऐ॑न्द्रवायव॒-
मा॒दाया॑ऽऽघा॒रमा घा॑रयेदध्व॒रो यज्ञो॑र॒यम-
स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑ नो जना॑य॒ वि-
श्व॑स्मै॑ भू॒ताया॑ध्व॒रो॑ऽसि॒ स पि॑न्वस्व घृ॒तव॑-
द्देव सो॒मेति॑ सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीः
करोत्या॒यत॑नवान्भवति॒ य ए॒वं वेदाथो॒ द्यावा॑-
पृथि॑वी॒ ए॒व घृ॒तेन॒ व्यु॑नत्ति॒ ते व्यु॑त्ते उपजी-
व॒नीये॑ भवत उपजीव॒नीयो॑ मवति (३)
य ए॒वं वेदै॒ष ते॑ रुद्र भा॒गो यं नि॒रया॑च॒था
स्तं जु॑षस्व वि॒देर्गौ॑प॒त्य ँ रा॒यस्पोषँ॑ सु॒-
वीर्यँ॑ संवत्स॒रीणाँ॑ स्व॒स्तिम्। मनुः॑ पु॒त्रे-
भ्यो॑ दा॒यं व्य॑भज॒त्स आऽग॑च्छ॒त्सो॑ऽब्रवीत्क॒-
था मा॒ निर॑भागिति॒ न त्वा॒ निर॑भाक्ष॒मित्य॑-
ब्रवी॒दङ्गि॑रस इ॒मे स॒त्रमा॑सते॒ ते (४)
सु॒व॒र्गं लो॒कं न प्र जा॑नन्ति॒ तेभ्य॑ इ॒दं ब्रा-
ह्मणं ब्रूहि॒ ते स॑वर्गं लो॒कं यन्तो॒ य ए॑षां

[[1518]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(सवनाहुत्यादिमन्त्राणामभिधानम्)

प॒शव॒स्ता ँ स्ते दास्य॒न्तीति तदे॑भ्योऽब्रवी॒त्ते
सु॑व॒र्गं लो॒कं यन्तो॒ य ए॑षां प॒शव॒ आस॒न्ता-
न॑स्मा अददु॒स्तं प॒शुभि॒श्चरन्तं यज्ञवा॒स्तौ
रु॒द्र आऽगच्छ॒त्सो॑ऽब्रवी॒न्मम वा इ॒मे प॒शव॒
इत्यदु॒र्वै (५) मह्य॑भि॒मानित्यब्रवी॒न्न वै
तस्य॒ त ई॑शत॒ इत्यब्रवी॒द्यद्य॑ज्ञवा॒स्तौ हयि॑ते॒
मम॒ वै तदिति॒ तस्मा॑द्यज्ञवा॒स्तु नाभ्य॒वेत्यँ॒
सो॑ऽब्रवीद्य॒ज्ञे माऽऽ भजाथ॑ ते प॒शून्नाभि
मँ॑ स्य॒ इति॒ तस्मा॑ ए॒तं म॒न्थिनः॑ स ँ स्रा॒-
वम॑जुहो॒त्तनो॒ वै तस्य॑ रु॒द्रः प॒शून्नाभ्य॑मन्य-
त॒ यत्रै॒तमे॒वं वि॒द्वान्मन्थिनः॑ स ँ स्रा॒वं जुहोति॒
न तत्र॑ रु॒द्रः प॒शून॒भि म॑न्यते (६)॥
(द॒धा॒त्वा॒यत॑नवती॒र्या उ॑पजीव॒नीये॑ भवत उपजीव॒नीयो॑ भवति॒
तेऽदु॒र्वै यत्रै॒तमेका॑दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
प्रथमप्रपाठके नवमोऽनुवाकः॥ ९॥