०५

(अथ तृतीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः)।
प्रा॒जा॒प॒त्या वै ष॒शव॒स्तेषाँ॑ रु॒द्रोऽधि॑पति॒र्य-
दे॒ताभ्या॑मुपाक॒रोति॒ ताभ्या॑मे॒वैनं॑ प्रति॒प्रो-
च्याऽऽल॑भत आ॒त्मनोऽना॑व्रस्काय॒ द्वाभ्या॑-
मु॑पाकरो॑ति द्वि॒षाद्यज॑मानः॒ प्रति॑ष्ठित्या उ-
षा॒कृत्य॒ पञ्च॑ जुहोति॒ पाङ्क्ताः॑ प॒शवः॑ प॒शू-
ने॒वाव॑ रुन्धे मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शु-
स्तं यद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒-
न्नाना॑ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्या-
वृ॑त्त्यै (१) यत्प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒
शान्त्यै॒ शमि॑तार उ॒पेत॒नेत्या॑ह यथाय॒जु॒रेवै-
तद्व॒पायां॒ वा आ॑ह्रि॒यमा॑णायाम॒ग्नेर्मेधोऽप॑
क्रामति॒ त्वामु ते द॑धिरे हव्य॒वाह॒मिति॑ व॒-

[[1502]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(पशूपाकरणादिमन्त्राब्राह्मणम्)
पाम॒भि जु॑होत्य॒ग्नेरे॒व मेध॒मव॑ रुन्धे॒ऽथो॑ शृ-
तत्वाय॑ पु॒रस्ता॑त्स्वाहाकृतयो॒ वा अ॒न्ये दे॒वा
उ॒परि॑ष्टात्स्वाहाकृतयो॒ऽन्ये स्वाहा॑ दे॒वेभ्यो॑
दे॒वेभ्यः॒ स्वाहेत्या॒भितो॑ व॒पां जु॑होति॒ ताने॒वो-
भया॑न्प्री॒णाति (२)॥
(व्यावृ॑त्त्या अ॒भितो॑ व॒पां पञ्च॑ च)।
इति कृष्णयजुर्वेदीयतैत्तरीयसंहितायां तृतीयाष्टके
प्रथमप्रपाठके पञ्चमोऽनुवाकः॥५॥

(अथ तृतीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः)
चतुर्थे वर्णिता मन्त्राः पशूपाकरणादिगाः।

अथ पञ्चमे तेषां मन्त्राणां ब्राह्मणमभिधीयते।
प्राजापत्या इति। प्रजापतिः पशूनां जनकः। अग्निश्च रुद्रशब्दाभिधेयस्तेषां स्वाम्यतस्तदुभयप्रतिपादकाभ्यां प्रजापतेर्जायमाना इमं पशुमित्येताभ्यां मन्त्राभ्या मुपाकुर्यात् तथा सति ताभ्यां देवाभ्यां प्रतिप्रोच्यायं षशुमालब्धवान्भवति। तच्च कथनं स्वस्यानपराधत्वाय भवति। मन्त्रद्वित्वं प्रशंसति-
द्वाभ्यामुपेति। उपाकरणादूर्ध्वं प्रजानन्त इत्यादिभिः पञ्चभिर्मन्त्रैर्होमं विधत्ते-
उपाकृत्येति। पुच्छसहितेषु पादेषु पञ्चसंख्यायोगात्पशूनां पाङ्कत्वम्।
संज्ञपनाय पशुनयनकालेऽध्वर्योर्जपमन्त्रस्य नानाशब्दस्य तात्पर्यं दर्शयति-
मृत्यवे वा इति। पशोः पृष्ठतो हस्तेन स्पर्शोऽन्वारम्भः। व्यावृत्तिवाचकस्य नानाशब्दस्य प्रयोगो यजमानप्राणस्व म्रियमाणात्पशोर्व्यावृत्त्यै भवति।

[[1503]]

प्रपा॰ १ अनु॰ ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अभिमर्शनविधीनां मन्त्रविशेषाणां चाभिधानम्)
संज्ञप्तहोमं विधत्ते-
यत्पशुरिति। अंहसो मुञ्चत्वित्पनया मन्त्रयतया प्रार्थनया पापस्य शान्तिर्भवति।
अध्वर्युयजमानयोर्वमाश्रपणीव्यवधानेन पशुप्राप्तिमन्त्रस्य स्पष्टार्थतां दर्शयति-
शमितार इति। यद्यप्यसौ मन्त्रः पादबद्धत्वादृगेव तथाऽपि यजुर्वेदाम्ना तत्वात्तत्कर्मणि विनियोज्यमानत्वाद्वा यजुरित्युच्यते।
वपाया उपरि होमं विधत्ते-
वपायां वा इति। भदा वपा होतुमाह्नियते तदानीमग्नेः सकाशाद्यज्ञोऽपक्रामति। तस्य च यज्ञस्यानेन होमेनापक्रमणं निवारितं भवति। अत एव मन्त्र दधिर इति प्रयुज्यते। अग्निं यज्ञस्य धारकं कृतवन्त इत्युक्तं भवति। किंच शृतं कर्तारमिति विशेषितत्वादयं होमो वपायाः पक्वत्वाय संपद्यते।
परिवप्यहोमौ विधत्ते-
पुरस्तादिति। वपासामीप्यं वाञ्छतां स्वाहाकारव्यवधानाद्बिभ्यतामुभयविधानां देवानां प्रीत्यै स्वाहाशब्दस्य मन्त्रयोर्व्यत्यासेन प्रयोग इत्यर्थः॥

इति श्रीमत्सायणाचार्येविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके
पञ्चमोऽनुवाकः॥५॥