(अथ तृतीयाष्टके प्रथमोप्रपाठक तृतीयोऽनुवाकः)
य॒ज्ञं वा ए॒तत्सं भ॑रन्ति॒ यत्सो॑म॒क्रय॑ण्यै
प॒दं य॑ज्ञमुख ँ हवि॒र्धाने॒ यर्हि हवि॒र्धाने॒
प्राची॑ प्रव॒र्तये॑यु॒स्तर्हि॒ तेनाक्ष॒मुपा॑ञ्ज्याद्यज्ञ
मुख ए॒व य॒ज्ञमनु॒ सं त॑नोति॒ प्राञ्च॑म॒ग्निं प्र
ह॑र॒न्त्युत्पत्नी॒मा न॑य॒न्त्यन्वना ँ॑सि॒ प्र व॑र्तय॒-
न्त्यव॒ वा अ॑स्यै॒व धिष्णि॑यो हयिते॒ सोऽनु॑
ध्यायति॒ स ईं॑श्व॒रो रु॒दो भू॒त्वा (१) प्र॒जां
प॒शून्यज॑मानस्य॒ शम॑यि॒तोर्यर्हि॑ प॒शुमाप्री॑
त॒मुद॑ञ्चं॒ नय॑न्ति॒ तर्हि॒ तस्य॑ पशु॒श्रप॑ण ँ ह
रे॒त्तेनै॒वैनं॑ भा॒गिनं॑ करोति॒ यज॑मानो॒ वा
आ॑हव॒नीयो॒ यज॑मानं॒ वा ए॒तद्वि क॑र्षन्ते॒
यदा॑हव॒नीया॑त्पशु॒श्रप॑णँ॒ हर॑न्ति॒ स वै॒व
स्यान्नि॑र्म॒न्थ्यं॑ वा कुर्या॒द्यज॑मानस्य सात्म॒-
त्वाय॒ यदि॑ प॒शोर॑व॒दानं॒ नश्ये॒दाज्य॑स्य प्र-
त्याख्याय॒मव॑ द्ये॒त्सैव ततः॒ प्राय॑श्चित्ति॒र्ये प॒शुं
बि॑मथ्नी॒रन्यस्तान्का॒मये॒ताऽऽर्ति॒मार्छेयु॒रिति॑
[[1492]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(सोमक्रयणीपदाञ्जनादिविध्यभिधानम्)
कु॒विद॒ङ्गेति॒ नमो॑वृक्तिवत्य॒र्चाऽऽग्नी॑ध्ने जु-
हुया॒न्नमो॑वृक्तिमे॒वै॑षां वृङ्क्ते ता॒जगार्ति॒मा-
र्छन्ति (२)॥
(भू॒त्वा ततः॒ षड्विँ॑शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
प्रथमप्रपाठके तृतीयोऽनुवाकः॥३॥
(अथ तृतीयकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः)।
द्वितीये स्वामिनो मन्त्राश्चाध्वर्योर्विधयः श्रुताः।
अथ तृतीये सोमक्रयणीपदाञ्जनादिविधयः श्रूयन्ते। तत्र षष्ठकाण्डे यद्विहितं पत्न्युपानक्ति पत्नी हि सर्वस्य मित्रमिति तस्मिन्हविर्धानेयोरक्षाञ्जने पूर्वं संगृह्य स्थापितस्य सोमक्रयणीपदपांसोः साधनत्वं विधत्ते-
यज्ञं वा एतदिति। सोमक्रमण्याः षट्पदान्यनुनिष्क्रम्य सप्तमे पदे हुत्वा तेनऽऽज्येनाक्तस्य पांसोर्यत्संभरणं कृतं तद्यज्ञस्यैव संभरणं कृतं तस्य पांसोर्यज्ञो-पकारित्वात्। ये तूभे हविषोर्धारके शकटे यज्ञमुखस्थानीये प्रधानहविषः सोमस्य धारकत्वेन मुख्यत्वात्। एवं सति यदा गार्हपत्यसमीपस्थे ते उभे शकटे प्राङ्मुखे प्रवर्तयेयुस्तदा तेन पदपांसुना घृताक्तेनाक्षस्य धुरमुपाञ्ज्यात्। तथा सति हविर्धोनात्मन्येव यज्ञमुखे पदपांसुरूपे यज्ञभनु संततं कृतवान्भवति।
अथ प्राचीनवंशस्य पश्चिमदेशस्थितात्पुरातनगार्हपत्यादग्नीषोमीयपशुश्रपणा-र्थस्याग्नेः श्रपणदेशं प्रति नयनं विधत्ते-
प्राञ्चमग्निमिति। षष्ठकाण्डे यदाम्नातम्- “आ सोमं ददत आ प्राव्ण आ वायव्यान्या द्रोणकलशमुत्पानीमा नयन्त्यन्वना ँ सि प्रवर्तयति ”इति।
यदपि सूत्रकारेणोक्तम्- “अयं नो अग्निर्वरिवः कृणोत्वित्यग्निप्रथमाः सोमप्रथमा वा प्राञ्चोऽमिप्रव्रजन्ति ”, इति, तत्र पूर्वं पश्चिमदिगवस्थिते गार्हपत्ये स्थितोऽग्निः
[[1493]]
प्रपा॰ १ अनु॰ ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सोमक्रयणीपदाञ्जनादिविध्यभिधानम्)
शालामुखीये पुरातनाहवनीये प्रथर्म नीतः। अनन्तरं ततोऽपि प्राङमुखोद्धृतः। तदिदमुच्यते-प्राञ्चमग्निं प्रहरन्तीति। पश्चिमदिगवस्थितायां पत्नीशालामवस्थितां
पत्नीमपि शालामुखीयं षुरातनाहवनीयं प्रत्युदानयन्ति। प्रतीचीनगाहंपत्यसमीपस्थितानि शकटान्यपि प्राग्देशेऽनुक्रमेण प्रवर्तितानि। यदैतत्सर्वं संपद्यते तदानीमेवास्य पुरातनगार्हपत्यस्य धिष्णियः स्थानविशेषो हीयते शून्यो भवति। स चाग्निः पुनः पुनर्मनसि चिन्तयति। चिन्तयमानश्चासौ रुद्रः क्रूरो भूत्वा यजमानस्य प्रजां पशूञ्शमयितोर्विनाशयितुं समर्थो भवति। तस्य कः प्रतीकार इति तदुच्यते-आप्रीसंज्ञकाभिः प्रयाजयाज्याभिराप्रीतं तोषितं पशुं यदोदङ्मुखं नयन्ति तदा तस्य प्रतीचीनगार्हपत्यस्य संबन्धिनं पशुश्रपकारिणमग्निं हेरत्। तेनैव हरणेनैनं प्रतीचीनगार्हपत्याग्निं भागयुक्तं करोति। ततः प्रजाद्यविनाश इति द्रष्टव्यम्-
नन्वाहवनीयादेव पशुश्रपणमग्निं कुतो न हेरयुरित्याशङ्कय तत्र दोषं दर्शयति-
यजमानो वा इति। आहवनीयामग्निं विकृष्य हरणे यजमानस्यायं विकर्षः स्यात्। आहवनीयस्य प्रधानत्वेन यजमानरूपत्वात्। तस्मात्पूर्वोक्तः सोऽग्निरेव वा स्यात्। अथवा निर्मथनेन लौकिकेन कंचिगदग्निं श्रपणार्थमुत्पादयेत्। एवं सति यजमानो विकर्षरहितः संपूर्णस्वरूपो भवति।
अथ पशुप्रसङ्गेत किंचित्प्रायश्चित्तं विधत्ते-
यदि पशोरिति। प्रत्याख्याय प्रत्येकं गणयित्वा यावन्त्यवदनानि नष्टानि तावत्कृत्व आज्यमवेद्येत्सेयमवदानक्रियैव ततो दोषादविमोचनाय प्रायश्चित्तिर्भवति।
अथ प्रासङगिकं काम्यं विधत्ते
ये पशुमिति। ये वैरिण पशुमुद्दिश्य विमथ्नीरन्कलहं कुर्वीरन्नस्मदीयोऽयं पशुरिति यदि हरेयुस्तदानीमपहर्तॄन्प्रति यो यजमान आर्तिमाप्नुयुरिति कामयेत सोऽयं कुविदङ्गयृचाऽऽग्नीध्रधिष्णियस्थवन्हौ जुहुयात्। तस्या ऋचः सामर्थ्यं द्योतयितुं नमोवृक्तिवत्येत्युक्तम्। ये वर्हिषो नमोवृक्तिं न जग्मुरित्येवं नमो-
[[1494]]