०१

(तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः)
ह॒रिः ॐ।
प्र॒जाप॑तिरकामयत प्र॒जा सृ॑जे॒येति॒ स
तपो॑ऽतप्य॒त स स॒र्पान॑सृजत॒ सो॑ऽकामयत
प्र॒जाः सृ॑जेयेति॒ स द्वितीय॑मतप्यत॒ स वया ँ॑-
स्यसृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स
तृ॒तीय॑मतप्यत स ए॒तं दी॑क्षितवा॒दम॑पश्य॒त्त-
म॑व॒दत्ततो॒ वै स प्र॒जा अ॑सृजत॒ यत्तपस्त॒प्त्वा
दी॑क्षितवा॒दं वद॑ति प्र॒जा ए॒व तद्यज॑मानः
(१ ) सृ॒ज॒ते॒ यद्वै दी॑क्षि॒तो॑ऽमे॒ध्यं पश्य॒त्य-

  • ख. पुस्तके संप्रदायविद आहुरिति पाठान्तरम्।

[[1480]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्‍डे-
(दीक्षितेन वक्तव्यमन्त्राणां तद्विधीनां चाभिधानम्)
षा॑स्माद्दी॒क्षा क्रा॑मति॒ नील॑मस्य॒ हरो॒ व्ये॑-
त्यब॑द्धं॒ मनो॑ द॒रिद्रं॒ चक्षुः॒ सूर्यो॒ ज्योति॑षाँ॒
श्रेष्ठो॒ दीक्षे॒ मा मा॑ हासी॒रित्या॑ह॒ नास्मा॑द्दी॒-
क्षाऽप॑ क्रामति॒ नास्य॒ नीले॒न हरो॒ व्ये॑ति॒
यद्वै दी॑क्षि॒तम॑भि॒वर्ष॑ति दि॒व्या आपोऽशा॑न्ता॒
ओजो बलं॑ दी॒क्षाम् (२) तपो॑ऽस्य॒ नि-
र्ध्नन्त्युन्द॒तीर्बलं॑ ध॒त्तौजो॑ धत्त॒ बलं॑ धत्त॒ मा
मे॑ दी॒क्षां मा तपो॒ निर्व॑धि॒ष्ठेत्या॑है॒तदे॒व सर्वं॑-
मा॒त्मन्ध॑त्ते॒ नास्यौजो॒ बलं॒ न दी॒क्षां न तपो॒
निर्घ्न॑न्त्य॒ग्निर्वै दीक्षि॒तस्य॑ दे॒वता॒ सो॑ऽस्मा-
दे॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति॒ तमी॑श्व॒र ँ र-
क्षाँ॑सि॒ हन्तोः॑ (३) भ॒द्राद॒भि श्रेयः॒ प्रेहि॒
बृह॒स्पतिः॑ पु॒रए॒ता ते॑ अ॒स्त्वित्या॑ह॒ ब्रह्म॒ वै
दे॒वानां॒ बृह॒स्पति॒स्तमे॒वान्वार॑भते॒ स ए॑नँ॒
सं पा॑रय॒त्येदम॑गन्म देव॒यज॑नं पृथि॒व्या इ-
त्या॑ह दे॒वयजनँ॒ ह्ये॑ष पृथि॒व्या आ॒गच्छ॑ति॒
यो यजते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व इत्या॑ह॒
विश्वे॒ ह्येतद्देवा जो॒षयं॑न्तें॒ यद्ब्राह्म॒णा ऋ॑-
क्सा॒माभ्यां॒ यजु॑षा सं॒तर॑न्त॒ इत्या॑हर्क्सा॒मा-
भ्याँ॒ ह्ये॑ष यजु॑षा सं॒तर॑ति यो यज॑ते रा॒य-
स्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑हा॒ऽऽशिष॑मे॒वैतामा
शा॑स्ते (४)॥

[[1481]]

प्रपा॰ १ अनु॰ १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(दीक्षितेन वक्तव्यमन्त्राणां तद्विधीनां चाभिधानम्)
(यज॑मानो दी॒क्षा ँ हन्तो॑र्ब्राह्म॒णाश्चतु॑र्वि ँश॑तिश्च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयाष्टके
प्रथमप्रपाठके प्रथमोऽनुवाक॥१॥

(अथ द्वितीयकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः)
अत्र दीक्षायाः प्रथमभावित्वाद्दीक्षितेन वक्तव्या मन्त्रास्तद्विधयश्चास्य प्रथम-
प्रपाठकस्य प्रथमानुवाके प्रतिपाद्यन्ते। तत्र दीक्षितवादं विधित्सुः प्रस्तौति-
प्रजापतिरिति। पुरा प्रजापतिः प्रजासृष्टिं कामयमानो नियमविशेषरूपं तप एव द्विवारमनुष्ठितवान्। न तु दीक्षितवादम्। अतस्तद्विकले तपसि नीचानां सर्पाणां पक्षिणामेव सृष्टिमकरोत्, न तूत्तमानां मनुष्यादीनाम्। अग्निष्टोमोऽत्र प्रजापतेस्तपः। “अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत ता अग्निष्टोमनैव पर्यगृह्णात् “ इति सप्तमकाण्डे वक्ष्यमाणत्वात्। तस्य च तपसस्तृतीये पर्याये दीक्षितवादवैकल्याभावा- न्मनुष्याद्युत्तमसृष्टिसाधनत्वं संपन्नम्।
अथ नियमविशेषरूपतपोयुक्तस्य दीक्षितस्य दीक्षितवादं विधत्ते-
यत्तप इति। तपःशब्देन स्नानादिनियमोऽभिधीयते। “अङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति साक्षादेव दीक्षातपसी अवरुन्धे “ इत्याम्नातत्वात्। स्नानादीत्यादिशब्देन दानमनशनं वैदिकमन्त्रपाठश्चेत्येतत्त्त्रयं विवक्षितम्। “ एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति ” “तपो नानशनात्परं यद्धि परं तपस्तद्दुर्धर्षम् ” “स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्यायः” इति वचनानां तत्र तत्राऽऽम्नातत्वात्। शाखान्तरे च द्वयहं नाश्नातीति दीक्षितस्यानशनं तपो विहितम्। ईदृशं तपस्तप्त्वा तन्नियमं स्वीकृत्य दीक्षितवादं वदेत्। दीक्षितेन पठितव्यो मन्त्रो दीक्षितवादस्तत्पाठेन प्रजा सृजते।
तत्रैकं मन्त्रमुत्पाद्य तत्पाठं नैमित्तिकत्वेन विधत्ते-

[[1482]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(दीक्षितेन वक्तव्यमन्त्राणां तद्विधीनां चाभिधानम्)
यद्वै दीक्षित इति। अमेध्यदर्शनेन दीक्षाया अपक्रमणं नाम दीक्षायां फल-राहित्यम्। किंचामेध्यं दृष्टवतोऽस्य नीलं भवति। कृष्णं पापमित्यर्थः। किंच हरो व्येति तेजो विगतं भवति। जुगप्सया शरीरस्य विक्रियमाणत्वाच्छक्तिरपगच्छतीत्यर्थः। अबद्धमित्यादिको मन्त्रः। यदेतन्मदीयं मनस्तदेतदबद्धमनियतम्। अत एव यद्धि मनसा ध्यायति तद्वाचा वदति संकल्पयति। चक्षुश्च यदीयं दरिद्रं कृपणम्। अतः समीचीनमेव प्रकाशयामीत्येतादृशं प्रभुत्वं तस्य नास्ति। अत्र चोभयत्र निमित्तं छन्दोगा उद्गीथविद्यायां देवासुरसंग्रामाख्यायिकया समामनन्ति- “अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ” इति। अयमेवार्थो वाजसनेयिभिरप्युद्गीथब्राह्मणे प्रपञ्चितः। अतोऽवशयोर्मनश्चक्षुषोर्शेषो हे दीक्षे त्वया न गणनीयः। दर्शनहेतुभूतानां ज्योतिषां मध्ये श्रेष्ठोऽयं सूर्यः। स एवं चक्षुर्दोषं समाधास्यतीत्यभिप्रायः। तन्मात्रप्रमादकारिणं मां हे दीक्षे मा हासीर्मा परित्यजेति मन्त्रार्थः। एतस्य मन्त्रस्य पाठेन दीक्षाऽप्यस्मात् न अपक्रामति। नीलं चास्य न भविष्यति। हरश्च न व्येति।
वृष्टिक्लेदनं निमित्तीकृत्य मन्त्रान्तरमुत्पाद्य विनियुङ्क्ते-
यद्वै दीक्षितमिति। दिव्या अन्तरिक्षे वर्तमाना भूमिस्पर्शरहिता या आपस्ता अशान्ताः प्रत्यवायहेतवः। अत एव स्मर्यते- “ न वर्षधारास्वाचामेत् ” इति। ताश्च दिव्या आप ओजोबलदीक्षातपांसि नाशयन्ति। रेतःपरिपाकरूपशरीरबलहेतुरष्टमो धातुरोजः। उन्दतीरित्यादिको मन्त्रः। हे आपो यूयमुन्दती संक्लेदयन्त्यो मयि शारीरबलं स्थापयत। तत्कारणीभूतमोजोऽपि स्थापयत। पुनरपीन्द्रियगतं बलं स्थापयत। मदीयां दीक्षां मां निर्वधिष्ट मा विनाशयत। तपोऽपि मदीयं मा विनाशयतेति मन्त्रार्थः। अत्र सूत्रकारेण “ स वाग्यतस्तपस्तप्यमान आस्ते ” इत्युक्त्वा बहुविधनियमानुपन्यस्यैतदुक्तम्- “अबद्धं मन इत्यमेध्यं दृष्ट्वा जपत्युन्दतीर्बलं धत्तेत्यववृष्टे ” इति।
अध्वर्युमन्त्रकाण्डे “भद्रादभिश्रेयः” “एदमगन्म देवयजनम् ” इत्येतौ

[[1483]]

प्रपा॰ १ अनु॰ १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(दीक्षितेन वक्तव्यमन्त्राणां तद्विधीनां चाभिधानम्)
मन्त्रावाम्नतौ। ब्राह्मणे त्वच्छिन्नं तन्तुं पृथिव्या इत्येतं पूर्वमन्त्रं व्याख्याय भद्रादभीत्या-दिकौ द्वावुपेक्षितौ। तयोर्याजमानत्वेन दीक्षितवादप्रसङ्गादुक्तावुभावत्र व्याख्यायेते। एतेनाबद्धं मन इत्यादिकौ मन्त्रौ देवीं धिय मनामह इत्यनुवाके संगताविति सूचितं भवति। भद्रादभीत्येष रथमारुह्य देवयजनमध्यवसातुं गमने विनियुक्तो मन्त्रः। एदमगन्मेति देवयजनाध्यवसाने। तयोराद्यं मन्त्रं व्याचष्टे-
अग्निर्वा इति। यदा दीक्षितो गृहात्प्रयाणं करोति तदा तत्स्वामी वह्निः कोपेन तिरोभूत इव भवति। तेन स्वामिरहितं दीक्षितं रक्षांसि मार्गेऽन्तरा भूत्वा हन्तुमीश्वरं समर्था भवन्ति। तत्परिहाराय भद्रादभीत्यादिमन्त्रं पठेत्। हे रथ भद्रान्मदीयाद्गृहाच्छ्रे-योऽत्यन्तप्रशस्तं देवयजनस्थानमभिप्रेहि आभिमुख्येन प्रतियाहि। तव पुरतो बृहस्पतिर्गन्ताऽस्त्विति मन्त्रर्थः। देवानां मध्ये बृहस्पतेर्ब्राह्मणत्वाद्रक्षांसि शप्तुं सामर्थ्यमस्ति। तादृश्यं च बृहस्पतिं यजमानोऽनुगच्छति। स च बृहस्पतिः सम्यक्पारं नयति।
द्वितीयमन्त्रस्य प्रथमभागार्थः प्रसिद्ध इति दर्शयति-
एदमगन्मेति। पृथिव्याः संबन्धि यद्देवयजनं तदिदमागमन्मागताः स्म इति तस्यार्थः। स च प्रत्यक्षेण दृश्यमानत्वात्प्रसिद्धः।
विश्वे देवा इति। तृतीयभागे यागं यागं कुर्वतो वेदत्रयापेक्षां प्रसिद्धेति दर्शयति-
ऋक्सामभ्यामिति। सम्यग्यागस्य पारं प्राप्नोति।
चतुर्थमागे धनपुष्ट्याऽन्नेन च संभूय हृष्टत्वप्रार्थनमाशीरित्येतद्दर्शयति-
रायस्पोषेणेति। अस्मिन्काण्डे यदिदमनारभ्याधीतं तस्य सर्वस्य सामान्येन प्रकृतौ संबन्धः। विशेषतस्तु अबद्धमित्यादेरनुवाकसंबन्धो दर्शितः। अमेध्यदर्शनव-
र्षणमन्त्रयोश्चाऽऽवृत्त्यभावो दैवीं धियमित्यस्मिन्नेवानुवाके विचारितः।

अत्र मीमांसा।

[[1484]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (३ तृतीयकाण्डे-
(दीक्षितेन वक्तव्यमन्त्रामां तद्विधीनां चाभिधानम्)
तृतीयाध्यायस्य षष्ठपादे चिन्तितम्-
प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः।
प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ॥
जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः।
चोदकेनोभयप्राप्तेर्विकृतौ विधिनाऽत्र किम्॥
अनारभ्य श्रूयते- “यस्य पर्णमयी जुहूर्भवति न पाप ँ श्लोक ँ शृणोति ”
इति। तत्राव्यभिचरितक्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते। या जुहूः सा पर्णमयीति वाक्यं सर्वप्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते। उभयत्राऽऽश्रयभूताया जुह्वाः सद्भावात्। तस्मात्प्रकृतिविकृत्योरुभयोरप्ययं विधिरिति प्राप्ते ब्रूमः – किमयं विधिर्विकृतौ चोदकात्पूर्वं निविशते पश्चाद्वा। नाऽऽद्यः। आश्रयभूताया जुह्वाश्चोदकमन्तरेणासंभवात्। द्वितीयेऽपि पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते। तत्र पुनर्विधेर्वैयर्थ्यादयं विधिः प्रकृतिमात्रगः। एवं यस्य खागिरः स्रुवो भवतीत्याद्युदाहरणीयम्। तत्रैवाष्टमपादे चिन्तितम्-
“नाश्नाति द्वय्हमित्येतत् त्तपः कस्य तयोर्द्वयोः।
दुःखत्वाद्भोक्तृसंस्कारादध्वर्योर्युज्यते तपः॥
फलान्तराय पापस्य नाशकत्वेन संस्कृतिः।
लिङ्गात्तपः स्वामिगामि संस्कारान्तरवन्मतम्”॥
ज्योतिष्टोमे द्व्यहं नाश्नाति त्र्यहं नाश्नातीत्यादिनोक्तं तपोऽध्वर्योर्युक्तं तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात्। दुःखत्वादेव फलमोक्तृसंस्कार- त्वाभावाद्यजमानस्य न युक्तमिति चेत्। मैवम्। भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः स्वामिसंस्कारत्वसंभवात्। अस्मिन्नर्थे वाक्यशेषगतं लिङ्गगं कल्पसूत्रकारेणैवोदाहृतम्-
“यदा वै दीक्षितः कृशो भवत्यथ मेध्यो भवति, यदाऽस्मिन्नन्तर्न किंचन भवत्यथ मेध्यो भवति, यदाऽस्य कृष्णं चक्षुषोर्नश्यत्यथ मेध्या भवति, यदा वास्य त्वचाऽस्थि संधीयतेऽथ मेध्यो भवति, पीवा दीक्षते कृशो यजते यदस्थाङ्गानां

[[1485]]

प्रपा॰ १ अनु २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सोमोपस्थानमन्त्रोत्पादनम्)
मीयते जुहोत्येव तदिति विज्ञायते ” इति। नहि दुःखरूपं तपो विना दुःखमदं पापं नश्यति। यथा लोके पाटनमन्तरेण विषमब्रणानां नोपशान्तिस्तद्वत्। तस्माद्वपना-दिसंस्कारवत्तपोऽपि यजमानस्यैव॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-
जुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके
प्रथमोऽनुवाकः॥