(तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदोभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
पशवश्चेष्टयः काम्या विधिशेषस्तथैष्टिकः।
प्रोक्ताः काण्डे द्वितीयेऽथ सोमशेषोऽत्र वर्ण्यते॥
एतच्च तृतीयकाण्डमौपानुवाक्प्यमिति [*काण्डानुक्रमण्यामुक्तम्]। अनु-
वाकानां समीपमुपानुवाकम्। तत्रान्वेतुं योग्यानामर्थानां प्रतिपादकत्वादिदं काण्ड-मौपानुवाक्यम्। यद्यप्येतत्सर्वमनारभ्याऽऽम्नायते तथाऽपि तेन तेन प्रमाणेन तत्र
तत्रानुवाकेष्वन्वय उत्प्रेक्षणीयः। सोमप्रकरणाम्नातेषु तेषुं तेष्वन्वयं तत्र तत्रैवोदाहृत्य प्रदर्शयिष्यामः। तदयमर्थः-कर्मण्युच्यमानो मन्त्रो वाकः। तद्व्याख्यानरूपं ब्राह्मणमनु-वाकः। तत्रैकैकं मन्त्रमाम्नाय तस्य तस्य समीपानुवाकम्। तत्संबन्धि काण्डमौपानु-वाक्यमुच्यते।
[इति भाष्यकारोपोद्घातः]।
[अथ कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां तृतीयोऽष्टकः]।