११

(अथ द्वितीयकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः।)
निवी॑तं मनुष्या॑णां प्राचीनावी॒तं पि॒तृणामु
प॑वीतं दे॒वाना॒मुप॑ व्ययते देवल॒क्ष्ममे॒व तत्कु॑
रुते॒ तिष्ठन्न॒न्वा॑ह॒ ति॒ष्ठन्ह्याश्रुततरं॒ वद॑ति॒ ति
ष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आ-
सी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति॒
यत्क्रौ॒ञ्चम॒न्वाहा॑ऽऽसु॒रं तद्यन्म॒न्द्रं मा॑नु॒षं
तद्यद॑न्त॒रा तत्सदे॑वमन्त॒रानूच्यँ॑ सदेव॒त्वाय॑
वि॒द्वाँ सो॒ वै (१) पु॒रा होता॑रोऽभूव॒न्त-
स्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑नः॒ सम॑

[[1346]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(सामिधेनीषु होतृनियमविशेषाध्वर्य्वाधारविशेषयोरभिधानम्)
रुक्षन्नन्तर्वे॒द्य॑न्यः पादो॒ भव॑ति बहि॒र्वेद्य॑न्योऽ
थान्वा॒हाध्व॑नां॒ विधृ॑त्यै प॒थामसँ॑ रोहा॒या थो॑
भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्धेऽथो॒ परि॑मितं
चै॒वाप॑रिमितं॒ चाव॑ रु॒न्धेऽथो॑ ग्रा॒म्याँश्चै॒व
प॒शूना॑र॒ण्याँ श्चाव॑ रु॒न्धेऽथो॑ (२) दे॒व॒
लो॒कं चै॒व म॑नुष्यलो॒कं चा॒मि ज॑यति दे॒वा
वै सा॑मिधे॒नी॒रनूच्य॑ य॒ज्ञं नान्व॑पश्य॒न्त्स प्र॒-
जापतिस्तू॒ष्णीमा॑घा॒रमाऽऽघा॑रय॒त्ततो॒ वै दे॒वा
य॒ज्ञमन्व॑पश्य॒न्यत्तू॒ष्णीमा॑घा॒र मा॑घा॒रय॑ति य॒ज्ञ
स्यानु॑ख्यात्या॒ अथो॑ समि॒धेनीरे॒वाभ्य॑न॒
क्त्यलू॑क्षो भवति॒ य ए॒वं वेदाथो त॒र्पय॑त्ये॒वै-
ना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ (३) य ए॒वं
वेद॒ यदेक॑वाऽऽघा॒रये॒देकां॑ प्रीणीया॒द्यद्द्वा-
भ्यां॒ द्वे प्री॑णीया॒द्यात्ति॒सृभि॒रति॒ तद्रे॑च॒येन्मन॒-
साऽऽ घा॑रयति॒ मन॑सा॒ ह्यना॑प्तमा॒प्यते॑ ति॒
र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कारं॒ वाक्च॒ मन॑-
श्चाऽऽर्तीयेताम॒हं दे॒वेभ्यो॑ ह॒व्यं व॑हा॒मीति॒
वाग॑ब्रवीद॒हं दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिं
प्र॒श्नमै॑ताँ॒ सो॑ऽब्रवीत् (४) प्रजाप॑तिर्दू॒ती
रे॒व त्वं मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒
तद्वा॒चा वद॒तीति॒ तत्खलु॒ तुभ्यं॒ न वा॒चा

[[1347]]

प्रपा. ५ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सामिधेनीपु होतृनियमविशेषाध्वर्य्वाधारविशेषयोरभिधानम्)
जु॑हव॒न्नित्य॑ब्रवी॒त्तस्मा॒न्मन॑सा प्रजाप॑तये जु-
ह्वति॒ मन॑ एव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑
परि॒धीन्त्सं मा॑र्ष्टि पु॒नात्ये॒वैना॒ न्त्रिर्म॑ध्य॒मं
त्रयो॒ वै प्रा॒णाः प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑-
क्षिणा॒ध्य त्रयः॑ (५) इ॒मे लो॒का इ॒माने॒व
लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒ध्य॑ त्र॒यो वै
दे॑व॒यानाः॒ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑
वाजयति॒ त्रयो॒ वै देव॑लो॒का दे॑वलो॒काने॒-
वाभि ज॑यति द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒
मासाः॑ संवत्स॒रः सं॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑
संवत्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒-
कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र
इ॑व (६) वै सु॑व॒र्गो लो॒कः सु॑व॒र्गमे॒वास्मै॑
लो॒कं प्र रो॑चयत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि
प्रा॒णः सं॑तत॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒
सं॑तत्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ यं का॒मये॑त
प्र॒मायु॑कः स्या॒दिति जि॒ह्नं तस्याऽऽघा॑रये-
त्प्रा॒णमे॒वास्मा॑ज्जि॒ह्नं न॑यति ता॒जक्प्र मी॑यते॒
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा
ध्रु॒वा (७) आ॒घा॒रमा॒घार्यं॑ ध्रु॒वाँ स-
म॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑ दधात्य॒-
ग्निर्दे॒वानां॑ दू॒त आसी॒द्दैव्योऽसु॑राणां॒ तौ प्र॒जा-

[[1348]]

श्रीमत्सायणाचार्यविरचितभाष्यसेता—(२ द्वितीयकाण्डे—
(सामिधेनीषु होतृनियमविशेषाध्वर्य्याधारविशेषयोरभिधानम्)
प॑तिं प्र॒श्नमै॑ताँ॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒-
तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दं दे॑वाः शृणु॒तेति॒
वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व दे॒वानां॒
तम॑वृणीत॒ ततो॑ दे॒वाः (८) अभ॑व॒न्पराऽ-
सु॑रा॒ यस्यै॒वं वि॒दुषः॑ प्रव॒रं प्र॑वृ॒णते॒ भव॑त्या॒-
त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्रा॑ह्म॒-
णश्चाब्रा॑ह्मणश्च प्र॒श्नमे॒यातां॑ ब्राह्म॒णायाधि॑
ब्रूया॒द्यद्ब्रा॒ह्मणा॒याध्याहा॒ऽत्मनेऽध्या॑ह॒ य-
द्ब्रा॑ह्म॒णं प॒राहा॒ऽऽत्मानं॒ परा॑ऽऽह॒ तस्मा॑द्ब्रा-
ह्म॒णो न प॒रोच्यः॑ (९)।।
(वा आ॑र॒ण्याँ श्चाव॑ रु॒न्धोऽथो॑ प॒शुभिः॒ सो॑ऽब्रवीद्दक्षिणा॒र्ध्यं॑ त्रय॑
इव ध्रु॒वा दे॒वाश्च॑त्वारिँ॒शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
पञ्चमप्रपाठके एकादशोऽनुवाकः ।। ११ ।।

[[1349]]

प्रपा. ५ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सामिधेनीषु होतृनियमविशेषध्वर्य्याधारविशेषयोरभिधानम्)
(अथ द्वितीयकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः)।






[[1350]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(सामिधेनीपु होतृनियमविशेषाध्वर्व्राधारविशेषयोरभिधानम्)





[[1351]]

प्रपा. ५ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सामिधेनीषु होतृनियमाविशेषाध्वर्य्वाधारविशेषयोर भिधानम्)







[[1352]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(सामिधेनीषु हौतृनियमविशेषाध्वर्य्याधारविशेषयोरभिधानम्)


… …





[[1353]]

प्रपा. ५ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सामिधेनीषु होतृनियमविशेषाध्वर्य्याधारविशेषयोरभिधानम्)




[[1354]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(सामिधेनीषु होतृनियमविशेषाध्वर्य्याधारविशेषयोरभिधानम्)


[[1355]]

प्रपा. ५ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सामिधेनुषु होतृनियमविशेषाध्वर्य्याधारविशेषयोरभिधानम्)


अत्र मीमांसा।
तृतीयाध्यायस्य चतुर्थपादे चिन्तितम—
“निवीतं तु मनुष्याणां विधिर्वैषोऽर्थवादकः।
अपूर्वत्वात्प्रकरणान्नुः ऋतोर्वा विधीयते।
प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात्।
उपवीतविधावेकवाक्यत्वादर्थवादता”।।

[[1356]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(सामिधेनीषु होतृनियमविशेषाध्वर्य्याधारविशेषयोरभिधानम्)
दर्शपूर्णमासयोः श्रूयते—“निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुते” इति। तत्र निवीतस्य पूर्वं मानान्तरेणाप्राप्तत्वाद्विधेयत्वमभ्युपेतव्यम्। तच्च निवीतं मनुष्याणामिति षष्ठ्या पुरुषार्थत्वेन विधीयत इत्येकः पूर्वपक्षः। अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः-सुवर्णसाधारणवत्सर्वपुरुषार्थ इत्येक प्रकारः। उपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकमैतृककर्मणोरपि दर्शनात्तत्साहवर्येण स्वतन्त्र आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतमित्यपरः प्रकारः प्रकरणबलाद्यागधर्म इति द्वितीयः पूर्व पक्षः। अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः। षष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्म इति पक्षान्तरमुदेति। तच्च द्विविधं, लोहितोष्णीषादिवदृत्विग्धर्म इत्येकः प्रकारः। क्रतावेव यन्मनुष्यप्रधानं कर्मान्धाहार्यदानादि तद्धर्मत्वे सति उपवीतप्राचीनावतिसाहचर्यमप्यनुगृह्यत इत्यपरः प्रकारः। सर्वथा निवीतं नार्थवाद इत्येवं प्राप्ते ब्रूमः- अत्र प्रतीयमानं निवीतादिकं वासोविषयं न तु त्रिवृत्सूत्रविषयम्। अजिनं वासो वा दक्षिणत उपवीयेत्यनेन सदृशत्वात्। वस्त्रस्य च निवीतं सौकर्याय प्राप्तम्। अत्र प्राचीनावीतोपवीतयोरवश्यमेकास्मिन्पार्श्वे वस्त्रमधः पतेत्। अतः प्राप्तेऽर्थे मनुष्याणामिति षष्ठीश्नुतिर्न विधायिका। न च प्रकरणात्क्रत्वङ्गत्वेन विधिः। वाक्यभेद प्रराङ्गात्। उपवीतं तावद्विधीयते। अन्यथा देवलक्ष्ममेव तत्कुरुत इति प्रशंसावैयर्थ्यापत्तेः। तस्मिंश्चोपवीतविधावर्थवादत्वेन निवीतप्राचीनावीतयोरे कवाक्यत्वसंभवे पृथग्विधानमयुक्तम्। निवीतप्राचीनावीते मनुष्यपितृविषयत्वाद्दैविके कर्मण्ययोग्ये उपवीतं तु योग्यमिति ब्यतिरेकमुखेन (ण) स्तावकं निवीतम्। तस्मादर्थवादः। उपव्ययत इत्यस्य तु विधित्वं प्रथमकाण्डस्याऽऽद्यानुवाके चिन्तीतम्।
“तृतीयाध्यायस्यैव प्रथमपादे चिन्तितम्—
उपव्ययत इत्यस्य सामिधेन्यङ्गताऽथवा ।
दर्शाङ्गता प्रक्रियैषाऽवान्तराऽतोऽस्त्विहाग्रिमः”।।

[[1357]]

प्रपा. ५ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता
(सामिधेनीषु होतृनियमविशेषाध्वर्य्याधारविशेषयोरभिधानम्)
लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः।
विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः।।
दर्शपूर्णमासप्रकरणे विश्वरूपो वै त्वाष्ट्र इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः सामिधेनीब्राह्मणमाम्नातम्। नवमे निवित्संज्ञकानामग्ने महाँ असि ब्राह्मण भारतेत्यादीनां मन्त्राणां ब्राह्मणम्। दशमे काम्याः सामिधेनीपक्षाः। एकादशे तूपवीतमेवं विहितम्—“निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुते” इति। तत्र पूर्वन्यायेन सामिधेनीप्रकरणास्यावान्तरस्यं स्वीकारात्सामिधेन्यङ्गत्वमुवीतस्येति चेन्न। निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छिन्नत्वात्। न च निविदामपि साभिधेनीन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वामिति वाच्यम्। लिङ्गेन निविदामग्न्यङ्गत्वावगतत्वात्। आहुत्यधिकरणभूतमग्निं संबोध्य महाँ असीत्याद्वार्मिनिविदाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते। अत एव निर्वचनमेवं श्रूयते-निविद्भिर्न्यवेदयन्। तन्निविदां निवित्त्षम् इति। ननु सम्यगिध्यतेऽग्निर्याभिर्ऋग्भिस्ताः साविधेन्य इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एवेति चेत्। भवतु नाम। नैतावता परस्परमङ्गाङ्गिभावः। ननु विच्छिद्यतां सामिधेनीप्रकरणं, निवित्प्रकरणेनोपवीत्तस्य निविदङ्गत्वं स्यादिति चेन्न। पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात्। संनिधिना तदङ्गत्वमिति चेन्न। काम्यसामिधेनीभिर्व्यवहितत्वात्। न च काम्यसामिधेन्यङ्गता शङ्गनीया। संनिधितः प्रकरणस्य प्रबलत्वात्। तस्मादिह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम्। तत्रैव चतुर्थपादे चिन्तितम्—
सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः।
सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः।।
दर्शाद्यर्थं प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा।
दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम्।।

[[1358]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(सामिधेनीषु होतृनियमविशेषाध्वर्य्याधारविशेषयोरभिधानम्)
“यज्ञोपवीती हि देवेभ्यो दोहयति” इत्येवमग्निहोत्रे यज्ञोपवितस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतमिति चेन्न। लिङ्गस्यान्यथोपपत्तेः। मृताग्निहोत्रं तस्मिन्दिनेऽन्येन हूयते। तत्र प्राचीनावीती दोहयेदिति विधाय तस्य स्तुतये यज्ञोपवीतीत्याद्यनूदितम्। अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमासाङ्गमुपवीतम्। द्वादशध्यायस्य तृतीयपादे चिन्तितम्—
“ऋजुत्वादय आघारे विकल्पन्ते न वाऽग्रिमः।
एकार्थत्वाददृष्टार्थभेदात्संभवतोऽन्तिमः”।।
दर्शपूर्णमासयोराम्नायते—ऋजुमाभारयति, संततमाघारयति, आघारमाचारयति इति। तेषामृजुत्वादीनामाघारोपकारद्वारा कार्यस्यैकत्वाद्विकल्प इतिचेन्न। दृष्टद्वारभेदाभावेप्यदृष्टाद्वारभेदात्सहानुष्ठानसंभवाच्च न विकल्पः।
तत्रेवान्यच्चिन्तितम्—
“आघारे मन्त्रसाहित्यं धारा वा संतताऽग्रिमः।
कर्मैकत्वान्नाऽऽज्यधारातैरन्तर्यस्य संभवात्।।”
संततमाघारयतीत्यत्र पूर्ववदाहुतिनैरन्तर्यं न संभवति। आहुतेरेकत्वात् अतो मन्त्रकर्मसाहित्यस्यैत्र संततशब्दार्थत्वान्मन्त्रादौ कर्मोपक्रम इति चेन्मेवम्। धा (घा) र्यमाणाज्ययिन्दुनैरन्तर्यस्य संततशब्दार्थ वसंभवात्। न ज प्रयाजाद्याहुतिष्वपि नैरन्तर्यमस्तीति शङ्कनीयम्। तत्र विच्छिद्य विच्छिद्य बिन्दुपातेऽऽपि कर्गवैकल्याभावात्। अत्र तु न तथेति वैषम्यम्। तथा सत्याघाराय यदाज्यं जुह्वा गृहीतं तत्सर्वं शनैरविच्छेदेनाऽऽहवनीये पातयेदिति संततशब्दार्थः। यदि मन्त्रकर्मणोः सहोपक्रमः स्थात्तदानीमनेन मन्त्रेणेति तृतीयाश्रुत्युक्तं पूर्वकालवर्तित्वलक्षणं मन्त्रस्य करणत्वं हीयेत। तस्मात्पूर्ववन्मन्त्रान्ते कर्मसंनिपातः।।

[[1359]]

प्रपा. ५ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सामिधेनीषु होतृनियमविशेषाध्वर्य्याधारविशेषयोरभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठकेऽ–
एकादशोऽनुवाकः ।। ११।।